View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.39 युद्धकाण्ड - एकोनचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनचत्वारिंशस्सर्गः ।

तांरात्रिमुषितास्तत्रसुवेलेहरिपुङ्गवाः ।
लङ्कायान्ददृशुर्वीरावनान्युपवनानिच ॥ 1 ॥

समसौम्यानिरम्याणिविशालान्यायतानिच ।
दृष्टिरम्याणितेदृष्टवाबभूवुर्जातविस्मयाः ॥ 2 ॥

चम्पकाशोकपुन्नागसालतालसमाकुला ।
तमालवनसञ्छन्नानागमालासमावृता ॥ 3 ॥

हिन्तालैरर्जुनैर्नीपैस्सप्तपर्णैश्चपुष्पितैः ।
तिलकैःकर्णिकारैश्चपाटलैश्चसमन्ततः ॥ 4 ॥

शुशुभेपुष्पिताग्रैश्चलतापरिगतैर्द्रुमैः ।
लङ्काबहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ 5 ॥

विचित्रकुसुमोपेतैरक्तकोमलपल्लवैः ।
शाद्वलैश्चतथानीपैश्चित्राभिर्वनराजिभिः ॥ 6 ॥

गन्धाढ्यान्यभिरम्याणिपुष्पाणिचफलानिच ।
धारयन्त्यगमास्तत्रभूषणानीवमानवाः ॥ 7 ॥

तच्चैत्ररथसङ्काशम्मनोज्ञन्नन्दनोपमम् ।
वनंसर्वरर्तुकंरम्यंशुशुभेषटपदायुतम् ॥ 8 ॥

नत्यूहकोयष्टिमकैर्नृत्यमानैश्चबर्हिभि ।
रुतम्परभृतानाञ्चशुश्रुवुर्वन्निर्झरे ॥ 9 ॥

नित्यमत्तविहङ्गानिभ्रमराचरितानिच ।
कोकिलाकुलषण्डानिविहगाभिरुतानिच ॥ 10 ॥

भृङ्गराजाभिगीतानिभ्रमरैस्सेवितानिच ।
कोणालकविघुष्टानिसारसाभिरुतानिच ॥ 11 ॥

विविशुस्तेततस्तानिवनान्युपवनानिच ।
हृष्टाःप्रमुदितावीराहरयःकामरूपिणः ॥ 12 ॥

तेषाम्प्रविशतान्तत्रवानराणाम्महौजसाम् ।
पुष्पसंसर्गसुरभिर्ववौघ्राणसुखोऽनिलः ॥ 13 ॥

अन्येतुहरिवीराणांयूथान्निष्क्रम्ययूथपाः ।
सुग्रीवेणाभ्यनुज्ञातालङ्काञ्जग्मुःपताकिनीम् ॥ 14 ॥

वित्रासयन्तोविहगांस्त्रासयन्तोमृगद्विपान् ।
कम्पयन्तश्चतांलङ्कान्नादैस्तेनदतांवराः ॥ 15 ॥

कुर्वन्तस्तेमहावेगामहीञ्चरणपीडिताम् ।
रजश्चसहसैवोर्थ्वञ्जगामचरणोत्थितम् ॥ 16 ॥

ऋक्षास्सिंहावराहाश्चमहिषावारणामृगाः ।
तेनशब्देनवित्रस्ताजग्मुर्भीतादिशोदश ॥ 17 ॥

शिखरन्तत्त्रिकूटस्यप्रांशुचैकन्दिविस्पृशम् ।
समन्तात्पुष्पसंञ्छन्नम्महारजतसन्निभम् ॥ 18 ॥

शतयोजनविस्तीर्णंविमलञ्चारुदर्शनम् ।
श्लक्ष्णंश्रीमन्महच्छैवदुष्प्रापंशकुनैरपि ॥ 19 ॥

मनसाऽपिदुरारोहङ्किम्पुनःकर्मणाजनैः ।
निविष्टातत्रशिखरेलङ्कारावणपालिता ॥ 20 ॥

शतयोजनविस्तीर्णात्रिंशद्योजनमायता ।
सापुरीगोपुरैरुच्चैःपाण्डुराम्बुदसन्निभैः ।
काञ्चनेनचशालेनराजतेनचशोभते ॥ 21 ॥

प्रासादैश्चविमानैश्चलङ्कापरमभूषिता ।
घनैरिवाऽतपापायेमध्यमंवैष्णवम्पदम् ॥ 22 ॥

यस्यांस्तम्भसहस्रेणप्रासादस्समलङ्कृतः ।
कैलासशिखराकारोदृश्यतेखमिवोललिखन् ॥ 23 ॥

चैत्यस्सराक्षसेन्द्रस्यबभूवपुरभूषणम् ।
शतेनरक्षसान्नित्यंयस्समग्रेणरक्ष्यते ॥ 24 ॥

मनोज्ञां काञ्चनवतीं सर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ 25 ॥

नानाविहङ्गासङ्घुष्टान्नानामृगनिषेविताम् ।
नानाकुसुमसञ्छन्नान्नानाराक्षससेविताम् ॥ 26 ॥

तांसमृद्धांसमृद्धार्धांलक्ष्मीनान्लक्ष्मणाग्रजः ।
रावणस्यपुरींरामोददर्शसहवानरैः ॥ 27 ॥

ताम्महागृहसम्बाधान्दृष्टवालक्ष्मणपूर्वजः ।
नगरीममरप्रख्योविस्मयम्प्राप्यवीर्यवान् ॥ 28 ॥

तांरत्नपूर्णाम्बहुसंविधानाम्प्रासादमालाभिरलङ्कृताञ्च ।
पुरीम्महायन्त्रकवाटमुख्यान्ददर्शरामोमहताबलेन ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनचत्वारिंशस्सर्गः ॥




Browse Related Categories: