श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्विषष्टितमस्सर्गः ।
स तुराक्षसशार्दूलोनिद्रामदसमाकुलः ।
राजमार्गंश्रियाजुष्टंययौविपुलविक्रमः ॥ 1 ॥
राक्षसानांसहस्रैश्चवृतःपरमदुर्जयः ।
गृहेभ्यःपुष्पवर्षेणकीर्यमाणस्तदाययौ ॥ 2 ॥
स हेमजालविततम्भानुभास्वरदर्शनम् ।
ददर्शविपुलंरम्यंराक्षसेन्द्रनिवेशनम् ॥ 3 ॥
स तत्तदा सूर्य इवाभ्रजालम् ।
प्रविश्य रक्षोधिपतेर्निवेशनम् ।
ददर्श दूरेऽग्रजमासनस्थम् ।
स्वयम्भुवं शक्र इवासनस्थम् ॥ 4 ॥
भ्रातुस्सभवनङ्गच्छन्रक्षोगणसमन्विम् ।
कुम्भकर्णःपदन्यासैरकम्पयतमेदिनीम् ॥ 5 ॥
सोऽभिगम्यगृहम्भ्रातुःकक्ष्यामभिविगाह्य च ।
ददर्शोद्विगन्नमासीनंविमानेपुष्पकेगुरुम् ॥ 6 ॥
अथदृष्टवादशग्रीवःकुम्भकर्णमुपस्थितम् ।
तूर्णमुत्थायसंहृष्टःसन्निकर्षमुपानयत् ॥ 7 ॥
अथासीनस्यपर्यङ्केकुम्भकर्णोमहाबलः ।
भ्रातुर्ववन्देचरणौकिङ्कृत्यमितिचाब्रवीत् ॥ 8 ॥
उत्पत्यचैनम्मुदितोरावणःपरिषस्वजे ।
स भ्रात्रासम्परिष्वक्तोयथावच्छाभिनन्दितः ॥ 9 ॥
कुम्भकर्णश्शुभन्दिव्यम्प्रतिपेदेवरासनम् ।
स तदासनमाश्रित्यकुम्भकर्णोमहाबलः ॥ 10 ॥
संरक्तनयनःक्रोधाद्रावणंवाक्यमब्रवीत् ।
किमर्थमहमादृत्यत्वयाराजन्विबोधितः ॥ 11 ॥
शंसकस्माद्भयन्तेऽत्रकोऽद्यप्रेतोभविष्यति ।
भ्रातरंरावणःक्रुद्धङ्कुम्भकर्णमवस्थितम् ॥ 12 ॥
ईषत्तुपरिवृत्ताभ्यान्नेत्राभ्यांवाक्यमब्रवीत् ।
अद्यतेसुमहान्कालश्शयानस्यमहाबल ॥ 13 ॥
सुखितस्त्वं न जानीषेममरामकृतम्भयम् ।
एषदाशरथीरामःसुग्रीवसहितोबली ॥ 14 ॥
समुद्रंसबलस्तीर्त्वामूलन्नःपरिकृन्तति ।
हन्तपश्यस्वलङ्कायावनान्युपवनानि च ॥ 15 ॥
सेतुनासुखमागम्यवानरैकार्णवीकृतम् ।
येराक्षसामुख्यतमाहतास्तेवानरैर्युधि ॥ 16 ॥
वानराणाङ्क्षयंयुद्धे न पश्यामिकदाचन ।
नचापिवानरायुद्धेजितपूर्वाःकदाचन ॥ 17 ॥
तदेतद्भयमुत्पन्नन्त्रायस्वेमाम्महबल ।
नाशयत्वमिमानद्यतदर्थम्बोधितोभवान् ॥ 18 ॥
सर्वक्षपितकोशं च स त्वमभ्यवपद्यमाम् ।
त्रायस्वेमाम्पुरींलङ्काम्बालवृद्धावशेषिताम् ॥ 19 ॥
भ्रातुरर्थेमहाबाहो कुरुकर्मसुदुष्करम् ।
मयैवन्नोक्तपूर्वोहिकश्चिद्भ्रातः परन्तप ॥ 20 ॥
त्वय्यस्तिममस्नेहःपरासम्भावना च मे ।
दैवासुरेषुयुद्धेषुबहुशोराक्षसर्षभ ॥ 21 ॥
त्वयादेवाःप्रतिव्यूह्यनिर्जिताश्चासुरायुधि ।
तदेतत्सर्वमातिष्ठवीर्यम्भीमपराक्रम ॥ 22 ॥
न हि ते सर्वभूतेषु दृश्यते सदृशो बली ।
कुरुष्व मे प्रियहितमेतदुत्तमम् ।
यथाप्रियं प्रियरण बान्धवप्रिय ।
स्वतेजसा विधम सपत्नवाहिनीम् ।
शरद्घनं पवन इवोद्यतो महान् ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्विषष्टितमस्सर्गः ॥