श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टसप्ततितमस्सर्गः ।
निकुम्भन्निहतंश्रुत्वाकुम्भं च विनिपातितम् ।
रावणःपरमामर्षीप्रजज्वालानलोयथा ॥ 1 ॥
नैरृतःक्रोधशोकाभ्यान्द्वाभ्यान्तुपरिमूर्छितः ।
खरपुत्रंविशालाक्षम्मकराक्षमचोदयत् ॥ 2 ॥
गच्छपुत्रऽमयाऽजाज्ञप्तोबलेनाभिसमवनितः ।
राघवंलक्ष्मणञ्चैवजहितांश्चवनौकसः ॥ 3 ॥
रावणस्यवचश्श्रुत्वाशूरमानीखरात्मजः ।
बाढमित्यब्रवीद्धृष्टोमकराक्षोनिशाचरम् ॥ 4 ॥
सोऽभिवाद्यदशग्रीवङ्कृत्वाचापिप्रदक्षिणम् ।
निर्जगामगृहाच्छुभ्राद्रावणस्याज्ञयाबली ॥ 5 ॥
समीपस्थम्बलाध्यक्षङ्खरपुत्रोऽब्रवीदिदम् ।
रथश्चानीयतांशीघ्रंसैन्यन्त्वानीयतान्त्वरात् ॥ 6 ॥
तस्यतद्वचनंश्रुत्वाबलाध्यक्षोनिशाचरः ।
स्यन्दनं च बलञ्चैवसमीपम्प्रत्यपादयत् ॥ 7 ॥
प्रदक्षिणंरथङ्कृत्वाआरुरोहनिशाचरः ।
सूतंसञ्चोदयामासशीघ्रम्मेरथमावह ॥ 8 ॥
अथतान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् ।
यूयंसर्वेप्रयुध्यध्वम्पुरस्तान्ममराक्षसाः ॥ 9 ॥
अहंराक्षसराजेनरावणेनमहात्मना ।
आज्ञप्तःसमरेहन्तुन्तावुभौरामलक्ष्मणौ ॥ 10 ॥
अद्यरामंवधिष्यामिलक्ष्मणं च निशाचराः ।
शाखामृगं च सुग्रीवंवानरांश्चशरोत्तमैः ॥ 11 ॥
अद्यशूलनिपातैश्चवानराणाम्महाचमूम् ।
प्रदहिष्यामिसम्प्राप्तांशुष्केन्धनमिवानलः ॥ 12 ॥
मकराक्षस्यतच्छ्रुत्वावचनन्तेनिशाचराः ।
सर्वेनानायुधोपेताबलवन्तःसमाहिताः ॥ 13 ॥
तेकामरूपिणस्सरेदंष्ट्रिणःपिङ्गलेक्षणा ।
मातङ्गाइवनर्दन्तोध्वस्तकेशाभयावहाः ॥ 14 ॥
परिवार्यमहाकायामहाकायङ्खरात्मजम् ।
अभिजघ्नुस्ततोहृष्टाश्चालयन्तोवसुन्धराम् ॥ 15 ॥
शङ्खभेरीसहस्राणामाहतानां समन्ततः ।
क्ष्वेलितास्फोटितानां च तत्र महानभूत् ॥ 16 ॥
प्रभ्रष्टोऽथकरात्तस्यप्रतोदस्सारथेस्तदा ।
पपातसहसादैवाद्ध्वजस्तस्यतुरक्षसः ॥ 17 ॥
तस्यतेरथसंयुक्ताहयाविक्रमवर्जिताः ।
चरणैराकुलैर्गत्वादीनाःसास्रमुखाययुः ॥ 18 ॥
प्रवातिपवनस्तस्मिन् सपांसुःखरदारुणः ।
निर्याणेतस्यरौद्रस्यमकराक्षस्यदुर्मतेः ॥ 19 ॥
तानिदृष्टवानिमित्तानिराक्षसावीर्यवत्तमाः ।
अचिन्त्यनिर्गतास्सर्वेयत्रतौरामलक्ष्मणौ ॥ 20 ॥
घनगजमहिषाङ्गतुल्यवर्णास्समरमखेष्वसकृद्गदासिभिन्नाः ।
अहमहमितियुद्धकौशलास्तेरजनीचराःपरिबभ्रमुर्नदन्तः ॥ 21 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमस्सर्गः ॥