श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिनवतितमस्सर्गः ।
ततःपौलस्त्यसचिवाश्रुत्वाचेन्द्रजितोवधम् ।
आचचक्षुरभिज्ञायदशग्रीवायसव्यथाः ॥ 1 ॥
युद्धेहतोमहाराजलक्ष्मणेनतवात्मजः ।
विभीषणसहायेनमिषतान्नोमहाद्युतिः ॥ 2 ॥
शूरंशूरेणसम्गम्यसम्युगेष्वपराजितः ।
लक्ष्मणेनहतश्शूरःपुत्रस्तेमहेन्द्रजित् ॥ 3 ॥
गतस्सपरमान्लोकान्शरैस्सन्ताप्यलक्ष्मणम् ।
स तम्प्रतिभयंश्रुत्वावधम्पुत्रस्यदारुणम् ॥ 4 ॥
घोरमिन्द्रजितःसङ्ख्येकश्मलम्प्राविशन्महत् ।
उपलभ्यचिरात्सञ्ज्ञां राजाराक्षसपुङ्गव ॥ 5 ॥
पुत्रशोकाकुलोदीनोविललापाकुलेन्द्रियः ।
हाराक्षसचमूमुख्यममवत्समहाबल ॥ 6 ॥
जित्वेन्द्रङ्कथमद्यत्वंलक्ष्मणस्यवशङ्गतः ।
ननुत्वमिषुभिःक्रुद्धोभिन्द्याःकालान्तकावपि ॥ 7 ॥
मन्दरस्यापिशृङ्गाणिकिम्पुनर्लक्ष्मणंयुधि ।
अद्यवैनस्वतोराजाभूयोबहुमतोमम ॥ 8 ॥
येनाद्यत्वम्महाबाहो संयुक्तःकालधर्मणा ।
एषपन्थाःसुयोधानांसर्वामरगणेष्वपि ॥ 9 ॥
यःकृतेहन्यतेभर्तुस्सपुमान्स्वर्गमृच्छति ।
अद्यदेवगणास्सर्वेलोकपालामहर्षयः ॥ 10 ॥
हतमिन्द्रजितन्दृष्टवासुखंस्वप्स्यन्तिनिर्भयाः ।
अद्यलोकास्त्रयः कृत्स्नापृथिवी च सकानना ॥ 11 ॥
एकेनेन्द्रजिताहीनाशून्येवप्रतिभातिमे ।
अद्यनैरृतकन्यानांश्रोष्याम्यन्तःपुरेरवम् ॥ 12 ॥
करेणुसङ्घस्ययथानिनादङ्गिरिगह्वरे ।
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ॥ 13 ॥
मातरम्मां च भार्याश्चक्वगतोऽसिविहायनः ।
ममनामत्वयावीरगतस्ययमसादनम् ॥ 14 ॥
प्रेतकार्याणिकार्याणिविपरीतेहिवर्तसे ।
स त्वञ्जीवतिसुग्रीवेलक्ष्मणेन च राघवे ॥ 15 ॥
ममशल्यमनुद्धृत्यक्वगतोऽसिविहायनः ।
एवमादिविलापार्तंरावणंराक्षसाधिपम् ॥ 16 ॥
आविवेशमहान् कोपःपुत्रव्यसनसम्भवः ।
प्रकृत्याकोपनंह्येनम्पुत्रस्यपुनराधयः ॥ 17 ॥
दीप्तंसन्दीपयामासुर्घर्मेऽर्कमिवरश्मयः ।
ललाटेभ्रुकुटीभिश्चसङ्गताभिर्व्यरोचत ॥ 18 ॥
युगान्तेसहनक्रैस्तुमहोर्मिभिरिवोदधिः ।
कोपाद्विजृम्भमाणस्यवक्त्राद्व्यक्तमिवज्वलन् ॥ 19 ॥
उत्पपातसधूमानगिर्वृत्रस्यवदनादिव ।
स पुत्रवधसन्तप्तश्शूरःक्रोधवशङ्गतः ॥ 20 ॥
समीक्ष्यरावणोबुद्ध्यावैदेह्यारोचयद्वधम् ।
तस्यप्रकृत्यारक्ते च रक्तेक्रोथानगिनापि च ॥ 21 ॥
रावणस्यमहाघोरेदीप्तेनेत्रेबभूवतुः ।
घोरम्प्रकृत्यारूपन्तत्तस्यक्रोधाग्निमूर्छितम् ॥ 22 ॥
बभूवरूपङ्क्रुद्धस्यरुद्रस्येवदुरासदम् ।
तस्यक्रुद्धस्यनेत्राभ्याम्प्रापतन्नाश्रृबिन्दवः ॥ 23 ॥
दीपाभ्यामिवदीप्ताभ्यांसार्चिषस्स्नेहबिन्दवः ।
दन्तावनिदशतस्तस्यश्रूयतेदशनस्वनः ॥ 24 ॥
यन्त्रस्यावेष्ट्यमाणस्य महतो दानवैरिव ।
कालानगिरिवसङ्क्रुद्धोयांयान्दिशमवैक्षत ॥ 25 ॥
तस्यान्तस्याम्भयत्रस्ताराक्षसास्सन्विलियलिरे ।
तमन्तकमिवक्रुद्धञ्चराचरचिखादिषुम् ॥ 26 ॥
वीक्षमाणन्दिशस्सर्वाराक्षसानोपचक्रमुः ।
ततःपरमसङ्क्रुद्धोरावणोराक्षसाधिपः ॥ 27 ॥
अब्रवीद्रक्षसाम्मध्येसंस्तम्भयिषुराहवे ।
मयावर्षसहस्राणिचरित्वापरमन्तपः ॥ 28 ॥
तेषुतेष्ववकाशेषुस्वयम्भूःपरितोषितः ।
तस्यैवतपसोव्युष्ट्याप्रसादाच्छस्वयम्भुवः ॥ 29 ॥
नासुरेभ्यो न देवेभ्योभयम्ममकदाचन ।
कवचम्ब्रह्मदत्तम्मेयदादित्यसमप्रभम् ॥ 30 ॥
देवासुरविमर्धेषु न भिन्नंवज्रमुष्टिभिः ।
तेनमामद्यसम्युक्तंरथस्थमिहसम्युगे ॥ 31 ॥
प्रतीयात्कोऽद्यमामाजौसाक्षादपिपुरन्दरः ।
त्तदातिप्रसन्नेनसशरङ्कार्मुकम्महत् ॥ 32 ॥
देवासुरविमर्धेषुममदत्तंस्वयम्भुवा ।
अद्यतूर्यशतैर्भीमन्धनुरुत्थाप्यताम्मम ॥ 33 ॥
रामलक्ष्मणयोरेववधायपरमाहवे ।
स पुत्रवधसन्तप्तःक्रूरःक्रोधवशङ्गतः ॥ 34 ॥
समीक्ष्यरावणोबुद्ध्यासीतांहन्तुंव्यवस्यत ।
प्रत्यवेक्ष्यताम्राक्षस्सुघोरोघोरदर्शनः ॥ 35 ॥
दीनोदीनस्वरान्सर्वांस्तानुवाचनिशाचरान् ।
माययाममवत्सेनवञ्चनार्थंवनौकसाम् ॥ 36 ॥
किञ्चिदेवहतन्तत्रसीतेयमितिदर्शितम् ।
तदिदन्तथ्यमेवाहङ्करिष्येप्रियमात्मनः ॥ 37 ॥
वैदेहीन्नाशयिष्यामिक्षत्रबन्धुमनुव्रताम् ।
इत्येवमुक्त्वासचिवान्खङ्गमाशुपरामृशत् ॥ 38 ॥
उत्प्लुत्यगुणसम्पन्नंविमलाम्बरवर्चसम् ।
निष्पपात स वेगेनसभार्यःसचिवैर्वृतः ॥ 39 ॥
रावणःपुत्रशोकेनभृशमाकुलचेतनः ।
सङ्क्रुद्धःखडगमादायसहसायत्रमैथिली ॥ 40 ॥
व्रजन्तंराक्षसम्प्रेक्ष्यसिंहनादंविचक्रुशुः ।
ऊचुश्चान्योन्यमालिङ्ग्यसङ्क्रुद्धम्प्रेक्ष्यराक्षसम् ॥ 41 ॥
अद्यैनन्तावुभौदृष्टवाभ्रातरौप्रव्यधिष्यतः ।
लोकपालाहिचत्वारःक्रुद्धेनानेनतर्जिताः ॥ 42 ॥
बहवःशत्रवश्चान्येसम्युगेष्वभिपातिताः ।
त्रिषुलोकेषुरत्नानिभुङक्तेचाहृत्यरावणः ॥ 43 ॥
विक्रमे च बलेचैवनास्त्यस्यसदृशोभुवि ।
तेषांसञ्जल्पमानामशोकवनिकाङ्गताम् ॥ 44 ॥
अभिदुद्राववैदेहींरावणःक्रोधमूर्छितः ।
वार्यमाणःसुसङ्क्रुद्धःसुहृद्भिर्हितबुद्धिभिः ॥ 45 ॥
अभ्यधावतसङ्क्रुद्धःखेग्रहोरोहिणीमिव ।
मैथिलीरक्ष्यमाणातुराक्षसीरनिन्दिता ॥ 46 ॥
ददर्शराक्षसङ्क्रुद्धन्निस्त्रिंशवरधारिणम् ।
तन्निशाम्यसविस्त्रिंशंव्यथिताजनकात्मजा ॥ 47 ॥
निवार्यमाणम्बहुशःसुहृद्भिरनिवर्तिनम् ।
सीतादुःखसमाविष्टाविलपन्तीदमब्रवीत् ॥ 48 ॥
यथायम्मामभिक्रुद्धःसमभिद्रवतिस्वयम् ।
वधिष्यतिसनाथाम्मामनाथामिवदुर्मतिः ॥ 49 ॥
बहुशश्चोदयामासभर्तारम्मामनुव्रताम् ।
भार्याभवरमस्वेतिप्रत्याख्यातोध्रुवम्मया ॥ 50 ॥
सोऽयम्मामनुपस्थानेव्यक्तन्नैराश्यमागतः ।
क्रोधमोहसमाविष्टोनिहन्तुम्मांसमुद्यतः ॥ 51 ॥
अथवातौनरव्याघ्रौभ्रातरौरामलक्ष्मणौ ।
मन्निमित्तमनार्येणसमरेऽद्यनिपातितौ ॥ 52 ॥
भैरवोहिमहान्नादोराक्षसानांश्रुतोमया ।
बहूनामिहहृष्टानान्तथाविक्रोशताम्प्रियम् ॥ 53 ॥
अहोधिङ्मन्निमित्तोऽयंविनाशोराजपुत्रयोः ।
अथवापुत्रशोकेनाहत्यारामलक्ष्मणौ ॥ 54 ॥
विधमिष्यतिमांरौद्रोराक्षसःपापनिश्चयः ।
हनूमतस्तुतद्वाक्यं न कृतङ्क्षुद्रयामया ॥ 55 ॥
यद्यहन्तस्यपृष्ठेवतदायासमनिर्जिता ।
नाद्यैवमनुशोचेयम्भर्तुरङ्कगतासती ॥ 56 ॥
मन्येतुहृदयन्तस्याःकौसल्यायाःफलिष्यति ।
एकपुत्रायदापुत्रंविनष्टंश्रोष्यतेयुधि ॥ 57 ॥
साहिजन्म च बाल्यं च यौवनं च महात्मनः ।
धर्मकार्याणिरूपं च रुदतीसंस्मरिष्यति ॥ 58 ॥
निराशानिहतेपुत्रेदत्त्वाश्राद्धमचेतना ।
अग्निमावेक्ष्यतेनूनमापोवापिप्रवेक्ष्यति ॥ 59 ॥
धिगस्तुकुब्जामसतीम्मन्थराम्पापनिश्चयाम् ।
यन्निमित्तमिमंशोकङ्कौसल्याप्रतिपत्स्यते ॥ 60 ॥
इत्येवम्मैथिलीन्दृष्टवाविलपन्तीन्तपस्विनीम् ।
रोहिणीमिवचन्द्रेणविनाग्रहवशङ्गताम् ॥ 61 ॥
एतस्मिन्नन्तरेतस्यामात्यःशीलवान् शुचिः ।
सुपार्श्वोनाममेधावीरावणंरक्षसेश्वरम् ॥ 62 ॥
निवार्यमाणःसचिवैरिदंवचनमब्रवीत् ।
कथन्नामदशग्रीव साक्षद्वैश्रवणानुज ॥ 63 ॥
हन्तुमिच्छसिवैदेहीङ्क्रोधाद्धर्ममपास्य च ।
वेदविद्याव्रतस्नातःस्वकर्मनिरतस्तथा ॥ 64 ॥
स्त्रियःकस्माद्वधंवीरमन्यसेराक्षसेश्वर ।
मैथिलींरूपसम्पन्नाम्प्रत्यवेक्षस्वपार्थिव ॥ 65 ॥
तस्मिन्नेवसहास्माभिराहेवक्रोधमुत्सृज ।
अभ्युत्थानन्त्वमद्यैवकृष्णपक्षचतुर्धशीम् ॥ 66 ॥
कृत्वानिर्याह्यमावास्यांविजयायबलैर्वृतः ।
शूरःधीमान् रथीखडगीरथप्रवमास्थितः ॥ 67 ॥
हत्वादाशरथिंरामम्भवान् प्राप्स्यसिमैथिलीम् ।
स तद्दुरात्मासुहृदानिवेदितंवचःसुधर्म्यम्प्रतिगृह्यरावणः ।
गृहञ्जगामथततश्चवीर्यवान् पुनःसभां च प्रययौसुहृद्वृतः ॥ 68 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिनवतितमस्सर्गः ॥