श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ त्रिचत्वारिंशस्सर्गः ।
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।
कौशल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ 1 ॥
राघवे नरशार्दूले विषमुप्त्वाहिजिह्मगा ।
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ 2 ॥
विवास्य रामं सुभगा लब्धकामा समाहिता ।
त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ 3 ॥
अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् ।
कामकारो वरं दातुमपि दासं ममात्मजम् ॥ 4 ॥
पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ।
प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ 5 ॥
गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ।
वनमाविशते नूनं सभार्य स्सह लक्ष्मणः ॥ 6 ॥
वने त्वदृष्टदुःखानां केकय्यानुमते त्वया ।
त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ 7 ॥
ते रत्नहीनास्तरुणाः फलकाले विवासिताः ।
कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ 8 ॥
अपीदानीं स कालस्स्यान्मम शोकक्षय श्शिवः ।
सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ 9 ॥
श्रृत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति ।
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ 10 ॥
कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ ।
नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ 11 ॥
कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।
पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ 12 ॥
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।
लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ 13 ॥
प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ ।
उदग्रायुधनिस्त्रिंशौ सश्रृङ्गाविव पर्वतौ ॥ 14 ॥
कदासुमनसः कन्याद्विजातीनां फलानि च ।
प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ 15 ॥
कदा परिणतो बुद्ध्या वयसा चामरप्रभः ।
अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन् ॥ 16 ॥
निस्संशयं मया मन्ये पुरा वीर कदर्यया ।
पातुकामेषु वत्सेषु मातृणां शातितास्स्तनाः ॥ 17 ॥
साहं गौरिव सिंहेन विवत्सा वत्सला कृता ।
कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ 18 ॥
न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् ।
एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ 19 ॥
न हि मे जीविते किञ्चित्सामर्थ्यमिह कल्प्यते ।
अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥ 20 ॥
अयं हि मां दीपयते समुत्थितः तनूजशोकप्रभवो हुताशनः ।
महीमिमां रश्मिभिरुद्धतप्रभः यथा निदाघे भगवान् दिवाकरः ॥ 21 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिंशस्सर्गः ॥