View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.42 अरण्यकाण्ड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ द्विचत्वारिंशस्सर्गः ।

एवमुक्त्वा तु वचनं मारीचो रावणं ततः ।
गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः ॥ 1 ॥

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा ।
मद्वधोद्यतशस्त्रेऽण विनष्टं जीवितं च मे ॥ 2 ॥

न हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते ।
वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥ 3 ॥

किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि ।
एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ 4 ॥

प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः ।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥ 5 ॥

एतच्छौण्डीर्ययुक्तं ते मच्छन्दवशवर्तिनः ।
इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ 6 ॥

आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः ।
मया सह तथा युक्तः पिशाचवदनैः खरैः ॥ 7 ॥

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ।
तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ 8 ॥

ततो रावणमारीचौ विमानमिव तं रथम् ।
आरुह्य ययतुश्शीघ्रं तस्मादाश्रममण्डलात् ॥ 9 ॥

तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ।
गीरींश्च सरितस्सर्वा राष्ट्राणि नगराणि च ॥ 10 ॥

समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ।
ददर्श सह मारीचो रावणो राक्षसाधिपः ॥ 11 ॥

अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् ।
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ 12 ॥

एतदाश्रमपदं दृश्यते कदलीवृतम् ।
क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥ 13 ॥

स रावणवचश्श्रुत्वा मारीचो राक्षसस्तदा ।
मृगो भूत्वाऽश्रमद्वारि रामस्य विचचार ह ॥ 14 ॥

स तु तद्रूपमास्थाय महदद्भुतदर्शनम् ।
मणिप्रवरशृङ्गाग्रस्सितासितमुखाकृतिः ॥ 15 ॥

रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ।
किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः ॥ 16 ॥

कुन्देन्दुवज्रसङ्काशमुदरं चास्य भास्वरम् ।
मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः ॥ 17 ॥

वैडूर्यसङ्काशखुरस्तनुजङ्घस्सुसंहतः ।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता ॥ 18 ॥

मनोहरस्स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥ 19 ॥

वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् ।
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥ 20 ॥

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ।
विचरन्गच्छते तस्माच्छाद्वलानि समन्ततः ॥ 21 ॥

रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः ।
विटपीनां किसलयान्भङ्त्क्वाऽदन्विचचार ह ॥ 22 ॥

कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।
समाश्रयन्मन्दगतिस्सीतासन्दर्शनं तथा ॥ 23 ॥

राजीवचित्रपृष्ठस्स विरराज महामृगः ।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ 24 ॥

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ 25 ॥

विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति ।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ 26 ॥

मृगयूथैरनुगतः पुनरेव निवर्तते ।
सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः ॥ 27 ॥

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।
समुद्वीक्ष्य च ते सर्वे मृगा ह्यन्ये वनेचराः ॥ 28 ॥

उपागम्य समाघ्राय विद्रवन्ति दिशो दश ।
राक्षसस्सोऽपि तान्वन्यान्मृगान्मृगवधे रतः ॥ 29 ॥

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ।
तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥ 30 ॥

कुसुमावचयव्यग्रा पादपानभ्यवर्तत ।
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ॥ 31 ॥

कुसुमान्यवचिन्वन्ती चचार रुचिरानना ।
अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम् ॥ 32 ॥

मुक्तामणि विचित्राङ्गं ददर्श परमाङ्गना ।
सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम् ॥ 33 ॥

विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ।
स च तां रामदयितां पश्यन्मायामयो मृगः ॥ 34 ॥

विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ।
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: