View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.20 किष्किन्धाकाण्ड - विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ विंशस्सर्गः ।

रामचापविसृष्टेन शरेणान्तकरेण तम् ।
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ 1 ॥

सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।
इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ 2 ॥

वानरेन्द्र महेन्द्राभं शोकसन्तप्तमानसा ।
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ 3 ॥

रणे दारुण विक्रान्त प्रवीर प्लवतां वर ।
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ 4 ॥

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।
नैवंविधाश्शेरते हि भूमौ नृपतिसत्तमाः ॥ 5 ॥

अतीव खलु ते कान्ता वसुधा वसुधाधिप ।
गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ 6 ॥

व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तिता ।
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ 7 ॥

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ।
विहृतानि त्वया काले तेषामुपरमः कृतः ॥ 8 ॥

निरानन्दा निराशाऽहं निमग्ना शोकसागरे ।
त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ 9 ॥

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् ।
यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा ॥ 10 ॥

सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।
यत्तु त्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ 11 ॥

निश्श्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।
यैषाऽब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ 12 ॥

रूपयौवनदृप्तानां दक्षिणानां च मानद ।
नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ 13 ॥

कालो निस्संशयो नूनं जीवितान्तकरस्तव ।
बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ 14 ॥

वैधव्यं शोकसन्तापं कृपणं कृपणा सती ।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ 15 ॥

लालितश्चाङ्गदो वीरस्सुकुमारस्सुखोचितः ।
वर्त्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते ॥ 16 ॥

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।
दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ 17 ॥

समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व मे ।
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ 18 ॥

रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता ।
आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥ 19 ॥

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ।
भुङ्क्षव राज्यमनुद्विग्नश्शस्तो भ्राता रिपुस्तव ॥ 20 ॥

किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे ।
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ 21 ॥

तस्या विलपितं श्रुत्वा वानर्यस्सर्वतश्च ताः ।
परिगृह्याङ्गदं दीनं दुःखार्ता परिचुक्रुशुः ॥ 22 ॥

किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम् ।
न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ॥ 23 ॥

किमप्रियं ते प्रिय चारुवेष मया कृतं नाथ सुतेन वा ते ।
सहाङ्गदां मां प्रविहाय वीर यत्प्रस्थितो दीर्घ मितः प्रवासम् ॥ 24 ॥

यद्यप्रियं किञ्चिदसम्प्रधार्य कृतं मया स्यात्तव दीर्घबाहो ।
क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥ 25 ॥

तथा तु तारा करुणं रुदन्ती भर्तुस्समीपे सह वानरीभिः ।
व्यवस्यत प्रायमुपोपवेष्टु मनिन्द्यवर्णा भुवि यत्र वाली ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे विंशस्सर्गः ॥




Browse Related Categories: