View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.31 किष्किन्धाकाण्ड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकत्रिंशस्सर्गः ।

स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् ।
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ 1 ॥

न वानरः स्थास्यति साधुवृत्ते न मंस्यते कर्मफलानुषङ्गान् ।
न भोज्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः ॥ 2 ॥

मतिक्षयाद्ग्राम्यसुखेषु सक्त स्तव प्रसादाप्रतिकारबुद्धिः ।
हतोऽग्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम् ॥ 3 ॥

न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य ।
हरिप्रवीरैस्सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु ॥ 4 ॥

तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् ।
उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ 5 ॥

न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ 6 ॥

नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ 7 ॥

सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ 8 ॥

सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ 9 ॥

ततश्शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ 10 ॥

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ।
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ 11 ॥

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।
बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा ॥ 12 ॥

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ 13 ॥

सालतालाश्वकर्णांश्च तरसा पातयन्बहून् ।
पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ 14 ॥

शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ।
दूरामेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् ॥ 15 ॥

तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् ।
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्गटे ॥ 16 ॥

रोषात्प्रस्फुरमाणोष्ठ स्सुग्रीवं प्रति लक्ष्मणः ।
ददर्श वानरान्भीमाकनिष्किन्धाया बहिश्चरान् ॥ 17 ॥

तं दृष्ट्वा वानरास्सर्वे लक्ष्मणं पुरुषर्षभम् ।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ॥ 18 ॥

जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ।
तान्गृहीतप्रहरणान्सर्वान्दृष्ट्वा तु लक्ष्मणः ॥ 19 ॥

बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ।
तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः ॥ 20 ॥

कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ।
ततस्सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः ॥ 21 ॥

क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ।
तारया सहितः कामी सक्तः कपिवृषो रहः ॥ 22 ॥

न तेषां कपिवीराणां शुश्राव वचनं तदा ।
ततस्सचिवसन्दिष्टा हरयो रोमहर्षणाः ।
गिरिकुञ्जर मेघाभा नगर्या निर्ययुस्तदा ॥ 23 ॥

नखदंष्ट्रायुधा घोरास्सर्वे विकृतदर्शनाः ॥ 24 ॥

सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ।
दशनागबलाः केचित्केचिद्दशगुणोत्तराः ॥ 25 ॥

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।
कृत्स्नांहि कपिभिर्व्याप्तां द्रुमहस्सैर्महाबलैः ॥ 26 ॥

अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ।
ततस्ते हरयस्सर्वे प्राकारपरिघान्तरात् ॥ 27 ॥

निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ।
सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ॥ 28 ॥

बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ।
स दीर्घोष्णमहोच्छवासः कोपसंरक्तलोचनः ॥ 29 ॥

बभूव नरशार्दूल स्सधूम इव पावकः ।
बाणशल्यस्फुरज्जिह्वस्सायकासनभोगवान् ॥ 30 ॥

स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ।
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ॥ 31 ॥

समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् ।
सोऽङ्गदं रोषताम्राक्षस्सन्दिदेश महायशाः ॥ 32 ॥

सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ।
एष रामानुजः प्राप्तस्वत्सकाशमरिन्दम ॥ 33 ॥

भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः ।
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर ॥ 34 ॥

इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम ।
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।
पितुस्समीपमागम्य सौमित्रिरयमागतः ॥ 35 ॥

अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः ।
निपत्य तूर्णं नृपतेस्तरस्वी ततः रुमायाश्चरणौ ववन्दे ॥ 36 ॥

संङ्गृह्य पादौ पितुरग्र्यतेजाः जग्राह मातुः पुनरेव पादौ ।
पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ 37 ॥

स निद्रामदसंवीतो वानरो न विबुद्धवान् ।
बभूव मदमत्तश्च मदनेन च मोहितः ॥ 38 ॥

ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ।
प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ 39 ॥

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ।
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ 40 ॥

तेन शब्देन महता प्रत्यबुध्यत वानरः ।
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ 41 ॥

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ।
मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ ॥ 42 ॥

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ।
वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ 43 ॥

प्रसादयित्वा सुग्रीवं वचनैस्सामनिश्चितैः ।
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ 44 ॥

सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ।
वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ 45 ॥

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ।
यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः ॥ 46 ॥

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ।
व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ 47 ॥

अयं च दयितो राजंस्ताराया स्तनयोऽङ्गदः ।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥ 48 ॥

सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् ।
वानरान्वानरपते चक्षुषा प्रदहन्निव ॥ 49 ॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्सहबन्धुभिः ।
गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम् ॥ 50 ॥

यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ।
राजं स्तिष्ठस्व समये भव सत्यप्रतिश्रवाः ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशस्सर्गः ॥




Browse Related Categories: