श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चमस्सर्गः ।
ऋश्यमूकात्तु हनुमान्गत्वा तु मलयं गिरिम् ।
आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ 1 ॥
अयं रामो महाप्राज्ञ स्सम्प्राप्तो दृढविक्रमः ।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ 2 ॥
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।
धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥ 3 ॥
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वां शरणमागतः ॥ 4 ॥
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।
दक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः ॥ 5 ॥
तपसा सत्यवाक्येन वसुधा येन पालिता ।
स्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ 6 ॥
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।
प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ॥ 7 ॥
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।
भयं चराघवाद्घोरं प्रजहौ विगतज्वरः ॥ 8 ॥
सकृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः ।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ 9 ॥
भवान्धर्मविनीतश्च विक्रान्तस्सर्ववत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ 10 ॥
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ 11 ॥
रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥ 12 ॥
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
सम्प्रहृष्टमना हस्तं पीडयामास पाणिना ॥ 13 ॥
हृद्यं सौहृदमालम्ब्यपर्यष्वजत पीडितम् ।
ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः ॥ 14 ॥
काष्ठयोस्स्वेन रूपेण जनयामास पावकम् ।
दीप्यमानं ततो वह्निं ह्निं पुष्पैरभ्यर्च्य सत्कृतम् ॥ 15 ॥
तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः ।
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ॥ 16 ॥
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ।
ततस्सुप्रीतमनसौ तावुभौ हरिराघवौ ॥ 17 ॥
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ।
त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ ॥ 18 ॥
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ।
ततस्सुपर्णबहुलां छित्वा शाखां सुपुष्पिताम् ॥ 19 ॥
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।
लक्ष्मणायाथ संहृष्टो हनूमान् प्लवगर्षभः ॥ 20 ॥
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।
ततः प्रहृष्टस्सुग्रीवः श्लक्ष्णं मधुरया गिरा ॥ 21 ॥
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।
अहं विनिकृतो राम चरामीह भयार्दितः ॥ 22 ॥
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ।
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः ॥ 23 ॥
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ।
वालिनो मे महाभाग भयार्तस्याभयं कुरु ॥ 24 ॥
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ।
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ॥ 25 ॥
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ।
उपकारफलं मित्रं विदितं मे महाकपे ॥ 26 ॥
वालिनं तं वधिष्यामि तव भार्यापहारिणम् ।
अमोघास्सूर्यसङ्काशा ममैते निशिताश्शराः ॥ 27 ॥
तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ 28 ॥
तीक्ष्णाग्रा ऋजुपर्वाणस्सरोषा भुजगा इव ।
तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः ॥ 29 ॥
शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ।
स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ॥ 30 ॥
सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत् ।
तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् ।
तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुम्ममाग्रजम् ॥ 31 ॥
सीता कपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चमस्सर्गः ॥