View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.51 किष्किन्धाकाण्ड - एकपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकपञ्चाशस्सर्गः ।

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् ।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ 1 ॥

इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ 2 ॥

महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमां स्त्वेवंविधान्भावान्विविधानद्भुतोपमान् ॥ 3 ॥

दृष्ट्वा वयं प्रव्यथितास्सम्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ 4 ॥

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ 5 ॥

तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्यास्सुरभिगन्धिनः ॥ 6 ॥

इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले ॥ 7 ॥

कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः ।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ 8 ॥

अजानतां न स्सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ 9 ॥

प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।
मयो नाम महातेजा मायावी वानरर्षभः ॥ 10 ॥

तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥ 11 ॥

येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ॥ 12 ॥

पितामहाद्वरं लेभे सर्वमौशनसं धनम् ।
वनं विधाय बलवान्सर्वकामेश्वरस्तदा ॥ 13 ॥

उवास सुखितः कालं कञ्चिदस्मिन्महावने ।
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥ 14 ॥

विक्रम्यैवाशनिं गृह्य जघानेत्रः पुरन्दरः ।
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥ 15 ॥

शाश्वताः कामभोगश्च गृहं चेदं हिरण्मयम् ।
दुहिता मेरुसावर्णेरहं तस्यास्स्वयम्प्रभा ॥ 16 ॥

इदं रक्षामि भवनं हेमाया वानरोत्तम ।
मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ 17 ॥

तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ।
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ ॥ 18 ॥

कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।
इमान्यभ्यवहार्याणि मूलानि च फलानि च ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशस्सर्गः ॥




Browse Related Categories: