View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.14 सुन्दरकाण्ड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चतुर्दशस्सर्गः ।

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ 1 ॥

स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।
पुष्पिताग्रान्वसन्तादौ ददर्श विविधान् द्रुमान् ॥ 2 ॥

सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् ।
उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ 3 ॥

अथाम्रवणसञ्छन्नां लताशतसमावृताम् ।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ 4 ॥

स प्रविश्य विचित्रां तां विहगैरभिनादिताम् ।
राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ 5 ॥

विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।
उदितादित्यसङ्काशां ददर्श हनुमान् कपिः ॥ 6 ॥

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।
कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ 7 ॥

प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।
मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ॥ 8 ॥

मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।
सुखप्रसुप्तान्विहगान् बोधयामास वानरः ॥ 9 ॥

उत्पतद्भिर्द्विजगणैः पक्षैः सालास्समाहताः ।
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ 10 ॥

पुष्पावकीर्णश्शुशुभे हनुमान् मारुतात्मजः ।
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ 11 ॥

दिशस्सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ।
दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ 12 ॥

वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विदैः ।
रराज वृक्षेभ्यः तत्र प्रमदेव विभूषिता ॥ 13 ॥

तरस्विना ते तरवस्तरसाभिप्रकम्पिताः ।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ 14 ॥

निर्धूतपत्रशिखराः शीर्णपुष्पफला द्रुमाः ।
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ 15 ॥

हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।
पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ 16 ॥

विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।
बभूवुरगमाः सर्वे मारुतेव निर्धुताः ॥ 17 ॥

निर्धूतकेशी युवतिर्यथा मृदितवर्णका ।
निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥ 18 ॥

तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता ।
बभूवाशोकवनिका प्रभग्नवरपादपा ॥ 19 ॥

महालतानां दामानि व्यथमत्तरसा कपिः ।
यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ 20 ॥

स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।
तथा काञ्चनभूमीश्च ददर्श विचरन्कपिः ॥ 21 ॥

वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ 22 ॥

मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ 23 ॥

फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसङ्घुष्टा हंससारसनादिताः ॥ 24 ॥

दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समन्ततः ।
अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः ॥ 25 ॥

लताशतैरवततास्सन्तानकुसुमावृताः ।
नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ 26 ॥

वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ 27 ॥

मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभितैः ॥ 28 ॥

फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसङ्घुष्टा हंससारसनादिताः ॥ 29 ॥

दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समन्ततः ।
अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः ॥ 30 ॥

लताशतैरवततास्सन्तानकुसुमावृताः ।
नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ 31 ॥

ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ 32 ॥

शिलागृहैरवततं नानावृक्षैः समावृतम् ।
ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ 33 ॥

ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।
अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ 34 ॥

जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।
वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ 35 ॥

पुनरावृत्ततोयां च ददर्श स महाकपिः ।
प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ 36 ॥

तस्या दूरात्सपद्मिन्यो नानाद्विजगणायुताः ।
ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः ॥ 37 ॥

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।
मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ 38 ॥

विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।
प्रासादैस्सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ 39 ॥

काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ।
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ॥ 40 ॥

सच्छत्रास्सवितर्दीकास्सर्वे सौवर्णवैदिकाः ।
लताप्रतानैर्बहुभिःपर्णैश्च बहुभिर्वृताम् ॥ 41 ॥

काञ्चनीं शिंशुपामेकां ददर्श हरियूथपः ।
वृतां हेममयीभिस्तु वेदिकाभिस्समन्ततः ॥ 42 ॥

सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।
सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान् ॥ 43 ॥

तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः ।
अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ 44 ॥

तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।
किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ 45 ॥

स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।
तामारुह्य महाबाहुश्शिंशुपां पर्णसंवृताम् ॥ 46 ॥

इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।
इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥ 47 ॥

अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।
चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता ॥ 48 ॥

इयं च नलिनी रम्या द्विजसङ्घनिषेविता ।
इमां सा राममहिषी नूनमेष्यति जानकी ॥ 49 ॥

सा रामा राममहिषी राघवस्य प्रिया सती ।
वनसञ्चारकुशला नूनमेष्यति जानकी ॥ 50 ॥

अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ।
वनमेष्यति साऽर्येह रामचिन्तानुकर्शिता ॥ 51 ॥

रामशोकाभिसन्तप्ता सा देवी वामलोचना ।
वनवासे रता नित्यमेष्यते वनचारिणी ॥ 52 ॥

वनेचराणां सततं नूनं स्पृहयते पुरा ।
रामस्य दयिता भार्या जनकस्यसुता सती ॥ 53 ॥

सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।
नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी ॥ 54 ॥

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।
शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥ 55 ॥

यदि जीवति सा देवी ताराधिपनिभानना ।
आगमिष्यति साऽवश्यमिमां शिवजलां नदीम् ॥ 56 ॥

एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ 57 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुर्दशस्सर्गः ॥




Browse Related Categories: