View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.11 युद्धकाण्ड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकादशस्सर्गः ।

सबभूवकृशोराजामैथिलीकाममोहितः ।
असन्मानाच्चसुहृदाम्पापम्पापेनकर्मणा ॥ 1 ॥

अतीतसमयेकालेतस्मिन्वैयुधिरावणः ।
अमात्यैश्चसुहृद्भिश्चप्राप्तकालममन्यत ॥ 2 ॥

सहेमजालविततम्मणिविद्रुमभूषितम् ।
उपगम्यविनीताश्वमारुरोहमहारथम् ॥ 3 ॥

तमास्थायरथश्रेष्ठम्महामेघसमस्वनम् ।
प्रययौरक्षसांश्रेष्ठोदशग्रीवस्सभाम्प्रति ॥ 4 ॥

असिचर्मधरायोधास्सर्वायुधधरास्ततः ।
राक्षसाराक्षसेन्द्रस्यपुरस्तात्सम्प्रतस्थिरे ॥ 5 ॥

नानाविकृतवेषाश्चनानाभूषणभूषिताः ।
पार्श्वतस्पृष्ठतश्चैनम्परिवार्यययुस्ततः ॥ 6 ॥

रथैश्चातिरथाश्शीघ्रम्मत्तैश्चवरवारणैः ।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्चवाजिभिः ॥ 7 ॥

गदापरिघहस्ताश्चशक्तितोमरपाणयः ।
परश्वथधराश्चान्येतथाऽन्येशूलपाणयः ॥ 8 ॥

ततस्तूर्यसहस्राणांसञ्जज्ञेनिस्स्वनोमहान् ।
तुमुलश्शङ्खशब्दश्चसभाङ्गच्छतिरावणे ॥ 9 ॥

सनेमिघोषेणमहान्सहसाऽभिनिनादयन् ।
राजमार्गंश्रियाजुष्टम्प्रतिपेदेमहारथः ॥ 10 ॥

विमलञ्चातपत्राणाम्प्रगृहीतमशोभत ।
पाण्डुरंराक्षसेन्द्रस्यपूर्णस्ताराधिपोयथा ॥ 11 ॥

हेममञ्जरिगर्भेचशुद्धस्फटिकविग्रहे ।
चामरव्यजनेतस्यरेजतुस्सव्यदक्षिणे ॥ 12 ॥

तेकृताञ्जलयस्सर्वेरथस्थम्पृथिवीस्थिताः ।
राक्षसाराक्षसश्रेष्ठंशिरोभिस्तंववन्दिरे ॥ 13 ॥

राक्षसैस्त्सूयमानस्सञ्जयाशीर्भिररिन्दमः ।
आससादमहातेजास्सभांविरचितान्तदा ॥ 14 ॥

सुवर्णरजतास्तीर्णांविशुद्धस्फटिकान्तराम् ।
विराजमानोवपुषारुक्मपट्टोत्तरच्छदाम् ॥ 15 ॥

ताम्पिशाचशतैः षङ्भिरभिगुप्तांसदाप्रभाम् ।
प्रविवेशमहातेजास्सुकृतांविश्वकर्मणा ॥ 16 ॥

तस्यांसवैडूर्यमयम्प्रियकाजिनसम्वृतम् ।
महत्सोपाश्रयम्भेजेरावणःपरमासनम् ॥ 17 ॥

ततः शशासेश्वरवद्दूतान्लघुपराक्रमान् ।
समानयतमेक्षिप्रमिहैतान्राक्षसानिति ।
कृत्यमस्तिमहज्जानेकर्तव्यमितिशत्रुभिः ॥ 18 ॥

राक्षसास्तद्वचश्श्रुत्वालङ्कायाम्परिचक्रमुः ॥ 19 ॥

अनुगेहमवस्थायविहारशयनेषुच ।
उद्यानेषुचरक्षांसिचोदयन्तोह्यभीतवत् ॥ 20 ॥

तेरथान् रुचिरानेकेदृप्तानेकेपृथग्घयान् ।
नागानेकेऽधिरुरुहुर्जग्मुश्चैकेपदातयः ॥ 21 ॥

सापुरीपरमाकीर्णारथकुञ्जरवाजिभिः ।
सम्पतद्भिर्विरुरुचेगरुत्मद्भिरिवाम्बरम् ॥ 22 ॥

तेवाहनाव्यवस्थाप्ययानानिविविधानिच ।
सभाम्पद्भिःप्रविविशुस्सिंहागिरिगुहामिव ॥ 23 ॥

राज्ञःपादौगृहीत्वातुराज्ञातेप्रतिपूजिताः ।
पीठेष्वन्येबृसीष्वन्येभूमौकेचिदुपाविशन् ॥ 24 ॥

तेसमेत्यसभायांवैराक्षसाराजशासनात् ।
यथार्हमुपतस्थुस्तेरावणंराक्षसाधिपम् ॥ 25 ॥

मन्त्रिणश्चयथामुख्यानिश्चयार्थेषुपण्डिताः ।
अमात्याश्चगुणोपेतास्सर्वज्ञाबुद्धिदर्शनाः ॥ 26 ॥

समीयुस्तत्रशतशशूराश्चबहवस्तदा ।
सभायांहेमवर्णायांसर्वार्थस्यसुखायवै ॥ 27 ॥

ततोमहात्माविपुलंसुयुग्यंरथम्वरंहेमविचित्रिताङ्गम् ।
शुभंसमास्थायययौयशस्वीविभीषणस्संसदमग्रजस्य ॥ 28 ॥

सपूर्वजायावरजश्शशंसनामाथपश्चाश्चरणौववन्दे ।
शुकःप्रहस्तश्चतथैवतेभ्योददौयथार्हम्पृथगासनानि ॥ 29 ॥

सुवर्णनानामणिभूषणानांसुवाससांसंसदिराक्षसानाम् ।
तेषाम्परार्घ्यागुरुचन्दनानांस्रजाश्चगन्धाःप्रववुस्समन्तात् ॥ 30 ॥

नचुक्रुशुर्नानृतमाहकश्चित्सभापदोनापिजजल्पुरुच्चैः ।
संसिद्धार्थास्सर्वएवोग्रवीर्याभर्तुस्सर्वेददृशुश्चाननन्ते ॥ 31 ॥

सरावणश्शस्त्रभृताम्मनस्विनाम्महाबलानांसमितौमनस्वी ।
तस्यांसभायाम्प्रभयाचकाशेमध्येवसूनामिववज्रहस्तेः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकादशस्सर्गः ॥




Browse Related Categories: