View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.31 युद्धकाण्ड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकत्रिंशस्सर्गः ।

ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः ।
सुवेलेराघवंशैलेनिविष्टम्प्रत्यवेदयन् ॥ 1 ॥

चाराणांरावणश्श्रुत्वाप्राप्तंरामम्महाबलम् ।
जातोद्वेगोऽभवत्किञ्चित्सचिवानिदमब्रवीत् ॥ 2 ॥

मन्त्रिणश्शीघ्रमायान्तुसर्वेवैसुसमाहिताः ।
अयन्नोमन्त्रकालोहिसम्प्रप्ताइतिराक्षसाः ॥ 3 ॥

तस्यतद्वचनंश्रुत्वामन्त्रिणोऽभ्यागमन् द्रुतम् ।
ततस्समन्त्रयामासराक्षसैस्सचिवैस्सह ॥ 4 ॥

मन्त्रयित्वासदुर्धर्षःक्षमंयत्समनन्तरम् ।
विसर्जयित्वासचिवान्प्रविवेशस्वमालयम् ॥ 5 ॥

ततोराक्षसमाहूयविद्युज्जिह्वम्महाबलम् ।
मायाविदम्महामायःप्राविशद्यत्रमैथिली ॥ 6 ॥

विद्युज्जिह्वञ्चमायाज्ञमब्रवीद्राक्षसाधिपः ।
मोहयिष्यावहेसीताम्माययाजनकात्मजाम् ॥ 7 ॥

शिरोमायामयङ्गृह्यराघवस्यनिशाचरः ।
त्वम्मांसमुतिष्ठस्वमहच्चसशरन्धनुः ॥ 8 ॥

एवमुक्तस्तथेत्याहविद्युज्जिह्वोनिशाचरः ।
दर्शयामासताम्मायांसुप्रयुक्तांसरावणे ॥ 9 ॥

तस्यतुष्टोऽभवद्राजाप्रददौचविभूषणम् ।
अशोकवनिकायान्तुसीतादर्शनलालसः ।
वैरृतानामधिपतिस्संविवेशमहाबलः ॥ 10 ॥

ततोदीनामदैन्यार्हान्ददर्शधनदानुजः ॥ 11 ॥

अधोमुखींशोकपरामुपविष्टाम्महीतले ।
भर्तारमेवध्यायन्तीमशोकवविकाङ्गताम् ॥ 12 ॥

उपास्यमानाङ्घोराभीराक्षसीभिरितस्ततः ।
उपसृत्यततस्सीताम्प्रहर्षन्नामकीर्तयन् ॥ 13 ॥

इदञ्चवचनन्धृष्टमुवाचजनकात्मजाम् ।
सान्त्व्यमानामयाभद्रेयमुपाश्रित्यवल्गसे ।
खरहन्तासतेभर्ताराघवस्समरेहतः ॥ 14 ॥

छिन्नन्तेसर्वतोमूलन्दर्पस्तेनिहतोमया ।
व्यसनेनात्मनस्सीते ममभार्याभविष्यसि ॥ 15 ॥

विसृजेमाम्मतिम्मूढेः किम्मृतेनकरिष्यसि ।
भवस्वभद्रेः भार्याणांसर्वेसामीश्वरीमम ॥ 16 ॥

अल्पपुण्येः निवृत्तार्थेः मूढेः पण्डितमानिनिः ।
शृणुभर्तृवधंसीतेः घोरंवृत्रवधंयथा ॥ 17 ॥

समायातस्समुद्रान्तम्मांहन्तुङ्किलराघवः ।
वानरेन्द्रप्रणीतेनबलेनमहतावृतः ॥ 18 ॥

सन्निविष्टस्समुद्रस्यपीड्यतीरमथोत्तरम् ।
बलेनमहतारामोव्रजत्यस्तन्दिवाकरे ॥ 19 ॥

अथाध्वनिपरिश्रान्तमर्धरात्रेस्थितम्बलम् ।
सुखसुप्तंसमासाद्यचारित्रम्प्रथमञ्चरैः ॥ 20 ॥

तत्प्रहस्तप्रणीतेनबलेनमहतामम ।
बलमस्यहतंरात्रौयत्ररामस्सलक्ष्मणः ॥ 21 ॥

पट्टसान्परिघांश्चक्रान्दण्डान्महायशान् ।
बाणजालानिशूलानिभास्वरान्कूटमुद्गरान् ॥ 22 ॥

यष्टीश्चतोमरान् शक्तीश्चक्राणिमुसलानिच ।
उद्यम्योद्यम्यरक्षोभिर्वानरेषुनिपातिताम् ॥ 23 ॥

अथसुप्तस्यरामस्यप्रहस्तेनप्रमाथिना ।
असक्तङ्कृतहस्तेनशिरश्छिन्नम्महासिना ॥ 24 ॥

विभीषणस्समुत्पत्यनिगृहीतोयदृच्छया ।
दिशःप्रव्राजितस्सर्वैस्सर्लक्ष्मणःप्लवगैस्सहा ॥ 25 ॥

सुग्रीवोग्रीनयासीतेभग्नयाप्लवगाधिपः ।
निरस्तहनुकश्शेतेहनुमान्राक्षसैर्हतः ॥ 26 ॥

जाम्बवानथजानुभ्यामुत्पतन्निहतोयुधि ।
पट्टसैर्बहुभिश्छिन्नोनिकृत्तःपादपोयथा ॥ 27 ॥

मैन्दश्चद्विविदश्चोभौनिहतौवानरर्षभौ ॥ 28 ॥

निश्श्वसन्तौरुदन्तौचरुधिरेणसमुक्षितौ ।
असिनाव्यायतौछिन्नौमध्येह्यरिनिषूदनौ ॥ 29 ॥

अनुतिष्ठतिमेदिन्याम्पनसःपनसोयथा ॥ 30 ॥

नाराचैर्बहुभिश्चिन्नश्शेतेदर्यान्दरीमुखः ।
कुमुदस्तुमहातेजानिष्कूजन्सायकैः कृतः ॥ 31 ॥

अङ्गदोबहुभिश्छिन्नश्शरैरासाद्यराक्षसैः ।
पतितोरुधिरोद्गारीक्षितौनिपतिताङ्गदः ॥ 32 ॥

हरयोमथितानागैरथजातैस्तथापरे ।
शयितामृदिताश्चाश्वैर्यायुवेगैरिवाम्बुदाः ॥ 33 ॥

प्रहृताश्चपरेत्रस्ताहस्यमानाजघन्यतः ।
अभिद्रुतास्तुरक्षोभिस्सिंहैरिवमहाद्विपाः ॥ 34 ॥

सागरेपतिताःकेचित्केचिग्दगनमाश्रिताः ।
ऋक्षावृक्षानुपारूढावानरींवृत्तिमाश्रिताः ॥ 35 ॥

सागरस्यचतीरेषुशैलेषुचवनेषुच ।
पिङ्गलास्तेविरूपाक्षैर्बहुभिर्बहवोहताः ॥ 36 ॥

एवन्तवहतोभर्ताससैन्योममसेनया ।
क्षतजार्द्रंरजोध्वस्तमिदञ्चस्याहृतंशिरः ॥ 37 ॥

ततःपरमदुर्धर्षोरावणोराक्षसेश्वरः ।
सीतायामुपशन्त्यांराक्षसीमिदमब्रवीत् ॥ 38 ॥

राक्षसङ्क्रूरकर्माणंविद्युज्जिह्वन्त्वमानय ।
येनतद्राघवशिरस्सङ्ग्रामात्स्वयमाहृतम् ॥ 39 ॥

विद्युज्जिह्वस्ततोगृह्यशिरस्तत्सशरासनम् ।
प्रणामंशिरसाकृत्वारावणस्याग्रतस्थितः ॥ 40 ॥

तमब्रवीत्ततोराजारावणोराक्षसंस्थितम् ।
विद्युज्जिह्वम्महाजिह्वंसमीपपरिवर्तिनम् ॥ 41 ॥

अग्रतःकुरुसीतायाश्शीघ्रन्दाशरधेशशिरः ।
अवस्थाम्पश्चिमाम्भर्तुःकृपणासाधुपश्यतु ॥ 42 ॥

एवमुक्तन्तुतद्रक्षशशिरस्तत्प्रियदर्शनम् ।
उपनिक्षिप्यसीतायाःक्षिप्रमन्तरधीयत ॥ 43 ॥

रावणश्चापिचिक्षेपभस्वरङ्कार्मुकम्महत् ।
त्रिषुलोकेषुविख्यातंसीतामिदमुवाचह ॥ 44 ॥

इदन्तुतवरामस्यकार्मुकञ्ज्यासमायुतम् ।
इहप्रहस्तेनानीतंहत्वातन्निशिमानुषम् ॥ 45 ॥

सविद्युज्जिह्वेनसहैवतच्छिरोधनुश्चभूमौविनिकीर्यरावणः ।
विदेहराजस्यसुतांयशस्विनीन्ततोऽब्रवीत्ताम्भवमेवशानुगा ॥ 46 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकत्रिंशस्सर्गः ॥




Browse Related Categories: