श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टत्रिंशस्सर्गः ।
सतुकृत्वासुवेलस्यमतिमारोहणम्प्रति ।
लक्ष्मणानुगतोरामःसुग्रीवमिदमब्रवीत् ॥ 1 ॥
विभीषणञ्चधर्मज्ञमनुरक्तन्निशाचरम् ।
मन्त्रज्ञञ्चविधिज्ञञ्चश्लक्क्ष्णयापरयागिरा ॥ 2 ॥
सुवेलंसाधुशैलेन्द्रमिमन्धातुशतैश्चितम् ।
अध्यारोहामहेसर्वेवत्स्यामोऽत्रनिशामिमाम् ॥ 3 ॥
लङ्काञ्चालोकयिष्यामोनिलयन्तस्यरक्षसः ।
येनमेमरणान्तायहृताभार्यादुरात्मना ॥ 4 ॥
येनधर्मोनविज्ञातोनतद्वृत्तन्नकुलन्तथा ।
राक्षस्यानीचयाबुद् ध्यायेनतद्गर्हितङ्कृतम् ॥ 5 ॥
तस्मिन्मेवर्ततेरोषःकीर्तितेराक्षसाधमे ।
यस्यापराधाननीचस्यवधन्द्रक्ष्यामिरक्षसाम् ॥ 6 ॥
एकोहिकुरुतेपापङ्कालपाशवशङ्गतः ।
नीचेनात्मापचारेणकुलन्तेनविनश्यति ॥ 7 ॥
एवंसम्मन्त्रयन्नेवसक्रोधोरावणम्प्रति ।
रामःसुवेलमासाद्यचित्रसानुमुपारुहत् ॥ 8 ॥
पृष्ठतोलक्ष्मणश्चैवमन्वगच्छत्समाहितः ।
सशरञ्चापमुद्यम्यसुमहद्विक्रमेरतः ॥ 9 ॥
अन्वारोहत्सुग्रीवस्सामात्यस्सविभीषणः ।
हनुमानङ्गदोनीलोमैन्दोद्विविदएवच ॥ 10 ॥
गजोगवाक्षोगवयश्शरभोगन्धमादनः ।
पनसःकुमुदश्चैवहरोरम्भश्चयूथपः ॥ 11 ॥
जाम्बवांश्चसुषेणश्चऋषभश्चमहामतिः ।
दुर्मुखश्चमहातेजास्तथाशतवलिःकपिः ॥ 12 ॥
एतेचान्येचबहवोवानराशशीघ्रगामिनः ।
तेवायुवेगप्रवणास्तङ्गिरिगिरिचारिणः ॥ 13 ॥
अध्यारोहन्तशतशस्सुवेलंयत्रराघवः ।
तेत्वदीर्घेणकालेनगिरिमारुह्यसर्वतः ॥ 14 ॥
ददृशुशशिखरेतस्यविषक्तामिवखेपुरीम् ।
तांशुभाम्प्रवरद्वाराम्प्राकारपरिशोभिताम् ॥ 15 ॥
लङ्कांराक्षससम्पूर्णान्ददृशुर्हरियूथपाः ।
प्राकारवरसंस्थैश्चतथानीलैश्चराक्षसैः ॥ 16 ॥
ददृशुस्तेहरिश्रेष्ठाःप्राकारमपरङ्कृतम् ।
तेदृष्टवावानराःसर्वेराक्षसान् युद्धकाङ् क्षिणः ॥ 17 ॥
मुमुचुर्विविधान्नादान्तत्ररामस्यपश्यतः ।
ततोऽस्तमगमत्पूर्यःसन्ध्ययाप्रतिरञ्जितः ॥ 18 ॥
पूर्णचन्द्रप्रदीप्ताचक्षपासमभिवर्तते ।
ततस्सरामोहरिवाहिनीपतिर्विभीषणेनप्रतिनन्द्यसत्कृतः ।
सलक्ष्मणोयूथपयूथसम्वृतस्सुवेलपृष्ठेन्यवसद्यथासुखम् ॥ 19 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टत्रिंशस्सर्गः ॥