View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.8 युद्धकाण्ड - अष्टम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टमस्सर्गः ।

ततोनीलाम्बुदनिभः प्रहस्तोनामराक्षसः ।
अब्रवीत्प्राञ्जलिर्वाक्यंशूरस्सेनापतिस्तदा ॥ 1 ॥

देवदानवगन्धर्वाःपिशाचपतगोरगाः ।
नत्वान्धर्षयितुंशक्याःकिम्पुनर्वानरारणे ॥ 2 ॥

सर्वेप्रमत्ताविश्वस्तावञ्चितास्स्महनूमता ।
नहिमेजीवतोगच्छेज्जीवन् सवनगोचरः ॥ 3 ॥

सर्वांसागरपर्यन्तांसशैलवनकाननाम् ।
करोम्यवानराम्भूमिमाज्ञापयतुमाम्भवान् ॥ 4 ॥

रक्षाञ्चैवविधास्यामिवानराद्रजनीचर ।
नागमिष्यतितेदुःखङ्किञ्चिदात्मापराधजम् ॥ 5 ॥

अब्रवीच्चसुसङ्कृद्धोदुर्मुखोनामराक्षसः ।
इदन्नक्षमणीयंहिसर्वेषान्नःप्रधर्षणम् ॥ 6 ॥

अयम्परिभवोभूयःपुरस्यान्तःपुरस्यच ।
श्रीमतोराक्षसेन्द्रस्यवानरेणप्रधर्षणम् ॥ 7 ॥

अस्मिन् मुहूर्तेगत्वैकोनिवर्तिष्यामिवानरान् ।
प्रविष्टान् सागरम्भीममम्बरंवारसातलम् ॥ 8 ॥

ततोऽब्रवीत्सुसङ्कृद्धोवज्रदंष्ट्रोमहाबलः ।
प्रगृह्यपरिघङ्घोरम्मांसशोणितरूषितम् ॥ 9 ॥

किंवोहनुमताकार्यङ्कृपणेनतपस्विना ।
रामेतिष्ठतिदुर्धर्षेससुग्रीवेऽपिसलक्ष्मणे ॥ 10 ॥

अद्यरामंससुग्रीवम्परिघेणसलक्ष्मणम् ।
आगमिष्यामिहत्वैकोविक्षोभ्यहरिवाहिनीम् ॥ 11 ॥

इदम्ममापरंवाक्यंशृणुराजन् यदीच्छसि ।
उपायकुशलोह्येवजयेच्छत्रूनतन्द्रितः ॥ 12 ॥

कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः ।
राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः ॥ 13 ॥

काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः ।
सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम् ॥ 14 ॥

प्रेषिताभरतेनैवभ्रात्रातवयवीयसा ।
सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति ॥ 15 ॥

ततोवयमितस्तूर्णंशूलशक्तिगदाधराः ।
चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे ॥ 16 ॥

आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम् ॥ 17 ॥

एवञ्चेदुपसर्पेतामनयंरामलक्ष्मणौ ।
अवश्यमपनीतेनजहतामेवजीवितम् ॥ 18 ॥

कौम्भकर्णिस्ततोवीरोनिकुम्भोनामवीर्यवान् ।
अब्रवीत्परमक्रुद्धोरावणंलोकरावणम् ॥ 19 ॥

सर्वेभवन्तस्तिष्ठन्तुमहाराजेनसङ्गताः ।
अहमेकोहनिष्यामिराघवंसहलक्ष्मणम् ॥ 20 ॥

सुग्रीवञ्चहनूमन्तंसर्वान्नेवचवानरान् ।
ततोवज्रहनुर्नामराक्षसःपर्वतोपमः ॥ 21 ॥

क्रुद्धः परिलिहन्सृक्काञ्जिह्वयावाक्यमब्रवीत् ।
स्वैरङ्कुर्वन्तुकर्माणिभवन्तोविगतज्वराः ॥ 22 ॥

एकोऽहम्भक्षयिष्यामितांसर्वांहरियूथपान् ।
स्वस्थाःक्रीडन्तुनिश्चिन्ताःपिबन्तुमधुवारुणीम् ॥ 23 ॥

अहमेकोवधिष्यामिसुग्रीवंसहलक्ष्मणम् ।
साङ्गदञ्चहनूमन्तंरामञ्चरणकुञ्जरम् ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टमस्सर्गः ॥




Browse Related Categories: