श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम् ॥ 1 ॥
इक्षून्मधूं स्तथा लाजान्मैरेयांश्च वरासनान् ।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचां स्तथा ॥ 2 ॥
उष्णाढ्यस्योदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ 3 ॥
नानास्वादुरसानां च षाडबानां तथैव च ।
भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ 4 ॥
सर्वमासीत्सुसन्तुष्ठं हृष्टपुष्टजनायुतम् ।
विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् ॥ 5 ॥
विश्वामित्रोऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत् ।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥ 6 ॥
सामात्यो मन्त्रिसहितस्सभृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ 7 ॥
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ 8 ॥
गवां शतसहस्रेण दीयतां शबला मम ।
रत्नं हि भगवन्नेतद्रत्नहारी च प्रार्थिवः ॥ 9 ॥
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।
एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तमः ।
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥ 10 ॥
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।
राजन् दास्यामि शबलां राशिभी रजतस्य च ॥ 11 ॥
न परित्यागमर्हेयं मत्सकाशादरिन्दम ।
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ 12 ॥
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ 13 ॥
स्वाहाकारवषट्कारौ विद्याश्च विविधा स्तथा ।
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ॥ 14 ॥
सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा ।
कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥ 15 ॥
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ।
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ 16 ॥
हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।
ददामि कुञ्जरांस्तेषां सहस्राणि चतुर्दश ॥ 17 ॥
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ।
ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ 18 ॥
हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत ॥ 19 ॥
नानावर्णविभक्तानां वयस्स्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ 20 ॥
यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ।
तावद्ददामि तत्सर्वं शबला दीयतां मम ॥ 21 ॥
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह राजन् कथञ्चन ॥ 22 ॥
एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ 23 ॥
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥ 24 ॥
अदोमूलाः क्रियास्सर्वा मम राजन्न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिपञ्चाशस्सर्गः ॥