श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकोनपञ्चाशस्सर्गः ।
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवाम् ।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ 1 ॥
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ 2 ॥
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ 3 ॥
अर्कं तुन्द्यां शरैः तीक्ष्णैर् विभिन्द्यां हि महीतलम् ।
काम रूपिणं उन्मत्ते पश्य मां कामदं पतिम् ॥ 4 ॥
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ 5 ॥
सद्यस्सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ 6 ॥
संरक्तनयनश्श्रीमांस्तप्तकाञ्चनभूषणः ।
क्रोधेन महताविष्टो नीलजीमूतसन्निभः ॥ 7 ॥
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ 8 ॥
प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ॥ 9 ॥
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ।
स तामसितकेशान्तां भास्करस्य प्रभामिव ॥ 10 ॥
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ।
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ॥ 11 ॥
मामाश्रय वरारोहे तवाहं सदृशः पतिः ।
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ॥ 12 ॥
नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।
त्यज्यतां मानुषे भावो मयि भावः प्रणीयताम् ॥ 13 ॥
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ॥ 14 ॥
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।
अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः ॥ 15 ॥
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ॥ 16 ॥
जग्राह रावणस्सीतां बुधः खे रोहिणीमिव ।
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥ 17 ॥
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ।
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् ॥ 18 ॥
प्राद्रवन्गिरिसङ्काशं भयार्ता वनदेवताः ।
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ॥ 19 ॥
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ।
ततस्तां परुषैर्वाक्यैर्भर्त्सयन्स महास्वनः ॥ 20 ॥
अङ्केनादाय वैदेहीं रथमारोपयत्तदा ।
सा गृहीता विचुक्रोश रावणेन यशस्स्विनी ॥ 21 ॥
रामेति सीता दुःखार्ता रामं दूरगतंवने ।
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ॥ 22 ॥
विवेष्टमानामादाय उत्पपाताथ रावणः ।
ततस्सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ॥ 23 ॥
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा ।
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ॥ 24 ॥
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ।
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ॥ 25 ॥
ह्रियमाणामधर्मेण मां राघव न पश्यसि ।
ननु नामाविनीतानां विनेतासि परन्तप ॥ 26 ॥
कथमेवंविधं पापं न त्वं शासि हि रावणम् ।
ननु सद्योऽविनीतस्य दृश्यते कर्मणःफलम् ॥ 27 ॥
कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ।
त्वं कर्म कृतवानेतत्कालोपहतचेतनः ॥ 28 ॥
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ।
हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः ॥ 29 ॥
ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ।
आमन्त्रये जनस्थाने कर्णिकारान्सुपुष्पितान् ॥ 30 ॥
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ।
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ॥ 31 ॥
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ॥ 32 ॥
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
दैवतानि च यान्यस्मिन्वने विविधपादपे ॥ 33 ॥
नमस्करोम्यहं तेभ्योभर्तुश्शंसत मां हृताम् ।
यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत ॥ 34 ॥
सर्वाणि शरणं यामि मृगपक्षिगणानपि ।
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ॥ 35 ॥
विवशाऽपहृता सीता रावणेनेति शंसत ।
विदित्वा मां महाबाहुरमुत्रापि महाबलः ॥ 36 ॥
आनेष्यति पराक्रम्य वैवस्वतहृतामपि ।
सा तदा करुणा वाचो विलपन्ती सुदुःखिता ॥ 37 ॥
वनस्पतिगतं गृध्रं ददर्शाऽयतलोचना ।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ॥ 38 ॥
समाक्रन्दद्भयपरा दुःखोपहतया गिरा ।
जटायो पश्य मामद्य ह्रियमाणामनाथवत् ॥ 39 ॥
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ।
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ॥ 40 ॥
सत्त्वाञ्जितकाशी च सायुधश्चैव दुर्मतिः ।
रामाय तु यथातत्त्वं जटायो हरणं मम ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशस्सर्गः ॥