View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.3 किष्किन्धाकाण्ड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ तृतीयस्सर्गः ।

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥ 1 ॥

कपिरूपं परित्यज्य हनुमान्मारुतात्मजः ।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ 2 ॥

ततस्स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ।
विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥ 3 ॥

आबभाषे तदा वीरौ यथावत्प्रशशंस च ।
सम्पूज्य विधिवद्वीरौ हनुमान्मारुतात्मजः ।
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥ 4 ॥

राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ।
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ 5 ॥

त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥ 6 ॥

पम्पातीररुहान्वृक्षान् वीक्षमाणौ समन्ततः ।
इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ ॥ 7 ॥

धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ।
निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥ 8 ॥

सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ ।
शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ 9 ॥

श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ।
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ 10 ॥

प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥ 11 ॥

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥ 12 ॥

यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् ।
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ 13 ॥

सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ ।
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ।
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ॥ 14 ॥

उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ 15 ॥

इमे च धनुषी चित्रे श्लष्णे चित्रानुलेपने ।
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ॥ 16 ॥

सम्पूर्णा निशितैर्बाणै स्तूणाश्च शुभदर्शनाः ॥ 17 ॥

जीवितान्तकरैर्घोरै श्श्वसद्भिरिव पन्नगैः ।
महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ ॥ 18 ॥

खडगावेतौ विराजेते निर्मुक्ताविवपन्नगौ ।
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ॥ 19 ॥

सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ 20 ॥

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ॥ 21 ॥

युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति ।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ 22 ॥

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।
ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥ 23 ॥

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किञ्चन ॥ 24 ॥

एतच्छ्रुत्वा वचन्तस्य रामो लक्ष्मणमब्रवीत् ।
प्रहृष्टवदनश्श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ 25 ॥

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ॥ 26 ॥

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।
वाक्यज्ञं मधुरैर्वाक्यैस्स्नेहयुक्तमरिन्दम ॥ 27 ॥

नानृग्वेदविनीतस्य नायजुर्वेद्धारिणः ।
नासामवेदविदुषश्शक्यमेवं विभाषितुम् ॥ 28 ॥

नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ।
बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ 29 ॥

न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा ।
अन्येष्वपि च गात्रेषु दोषस्संविदितः क्वचित् ॥ 30 ॥

अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् ।
उरस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे ॥ 31 ॥

संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् ।
उच्चारयति कल्याणीं वाचं हृदयहारिणीम् ॥ 32 ॥

अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ 33 ॥

एवं विधो यस्य दूतो न भवेत्पार्थिवस्य तु ।
सिद्ध्यन्ति हि कथं तस्य कार्याणां गतियोऽनघ ॥ 34 ॥

एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः ।
तस्य सिध्यन्ति सर्वाऽर्था दूतवाक्यप्रचोदिताः ॥ 35 ॥

एवमुक्तस्तु सौमित्रिस्सुग्रीवसचिवं कपिम् ।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ 36 ॥

विदितौ नौ गुणा विद्वन्त्सुग्रीवस्य महात्मनः ।
तमेव चाऽवां मार्गावस्सुग्रीवं प्लवगेश्वरम् ॥ 37 ॥

यथा ब्रवीषि हनुमान्सुग्रीववचनादिह ।
तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ 38 ॥

तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः ।
मनस्समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे तृतीयस्सर्गः ॥




Browse Related Categories: