View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.84 युद्धकाण्ड - चतुरशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुरशीतितमस्सर्गः ।

राममाश्वासयानेतुलक्ष्मणेभ्रातृवत्सले ।
निक्षिप्यगुल्मान् स्वस्थानेतत्रागच्छद्विभीषणः ॥ 1 ॥

नानाप्रहरणैर्वीरैश्चतुर्भिस्सचिवैर्वृतः ।
नीलाञ्जनचयाकारैर्मातङ्गैरिवयूथप ॥ 2 ॥

राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ।
ददर्शमोहमापन्नंलक्ष्मणस्याङ्गमाश्रितम् ॥ 3 ॥

व्रीडितंशोकसन्तप्तन्दृष्टवारामंविभीषणः ।
अन्तर्धुःखएनदीनात्माकिमेतदितिसोऽब्रवीत् ॥ 4 ॥

विभीषणमुखन्दृष्टवासुग्रीवन्तांश्चवानरान् ।
लक्ष्मणोवाचमन्दार्थमिदम्बाष्पपरिप्लुतः ॥ 5 ॥

हताइन्द्रजितासीताइतिश्रुत्वैवराघवः ।
हनूमद्वचनात्सौम्यततोमोहमुपागतः ॥ 6 ॥

कथयन्तन्तुसौमित्रिंसन्निवार्यविभीषणः ।
पुष्कलार्थमिदंवाक्यंविसञ्ज्ञंराममब्रवीत् ॥ 7 ॥

मनुजेन्द्रार्थरूपेणयदुक्ततुहनूमता ।
तदयुक्तमहम्मन्येसागरस्येवशोषणम् ॥ 8 ॥

अभिप्रायन्तुजानामिरावणस्यदुरात्मनः ।
सीताम्प्रतिमहाबाहो न च घातङ्करिष्यति ॥ 9 ॥

याच्यमानःसुबहुशोमयाहितचिकीर्षुणा ।
वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ 10 ॥

नैवसाम्ना न दानेन न भेदेनकुतोयुधा ।
साद्रष्टुमपिशक्येतनैवचान्येनकेनचित् ॥ 11 ॥

वानरान्मोहयित्वातुप्रतियातः स राक्षसः ।
मयामयीम्महाबाहोतांविद्दिजनकात्मजाम् ॥ 12 ॥

चैत्यन्निकुम्भिलान्नामप्राप्यहोमङ्करिष्यति ।
हुतवानुपयातोहिदेवैरपिसवासवैः ॥ 13 ॥

दुराधर्षोभवत्येषसङ्ग्रामेरावणात्मजः ।
तेनमोहयतानूनमेषामायाप्रयोजिता ॥ 14 ॥

विघ्नमन्विच्छतातत्रवानराणाम्पराक्रमे ।
ससैन्यास्तत्रगच्छामोयावत्तन्नसमाप्यते ॥ 15 ॥

त्यजेमन्नरशार्दूलमिथ्यासन्तापगतम् ।
सीदतेहिबलंसर्वन्दृष्टवात्वांशोककर्शितम् ॥ 16 ॥

इहत्वंस्वस्थहृदयस्तिष्ठसत्त्वसमुच्छ्रितः ।
लक्ष्मणम्प्रेषयास्माभिस्सहसैन्यानुकर्षिभिः ॥ 17 ॥

एषतन्नरशार्दूलोरावणिन्निशितैश्शरैः ।
त्याजयिष्यतितत्कर्मततोवध्योभविष्यति ॥ 18 ॥

एष तं नरशार्दूलो रावणिं निशितैः शरैः ।
त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ 19 ॥

सत्सन्दिशमहाबाहोलक्ष्मणंशुभलक्षणम् ।
राक्षसस्यविनाशायवज्रंवज्रधरोयथा ॥ 20 ॥

मनुजवरन कालविप्रकर्षोरिपुनिधनम्प्रतियत्क्षामोऽद्यकर्तुम् ।
त्वमतिसृजरिपोर्वधायवाणीममररिपोर्मथनेयथामहेन्द्रः ॥ 21 ॥

समाप्तकर्माहि स राक्षसाधिपोभवत्यदृश्यस्समरेसुरासुरैः ।
युयुत्सतातेनसमाप्तकर्मणाभवेत्सुराणामपिसंशयोमहान् ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुरशीतितमस्सर्गः ॥




Browse Related Categories: