श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ सप्तमस्सर्गः ।
स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ।
यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ॥ 1 ॥
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः ।
मनोहराश्चापि पुनर्विशालाः ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ 2 ॥
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ।
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ 3 ॥
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि ।
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ 4 ॥
ततो ददर्शोछ्रचितमेघरूपं मनोहरं काञ्चनचारुरूपम् ।
रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ 5 ॥
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ।
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ 6 ॥
नारीप्रवेकैरिव दीप्यमानं तटिद्भिरम्भोदवदर्च्यमानम् ।
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥ 7 ॥
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ।
ददर्शयुक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ 8 ॥
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः ।
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् ॥ 9 ॥
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि ।
पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥ 10 ॥
पुष्पाह्वयं नामविराजमानं रत्नप्रभाभिश्च विवर्धमानम् ।
वेश्मोत्तमानामपि चोच्यमानं महाकपिस्तत्र महाविमानम् ॥ 11 ॥
कृताश्च वैडूर्यमया विहङ्गाः रूप्यप्रवालैश्च तथा विहङ्गाः ।
चित्राश्च नानावसुभिर्भुजङ्गाः जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ 12 ॥
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः ।
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ 13 ॥
नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ।
बभूवदेवी च कृता सुहस्ता लक्ष्मी स्तथा पद्मिनि पद्महस्ता ॥ 14 ॥
इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् ।
पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ 15 ॥
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम् ।
अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगवर्जिताम् ॥ 16 ॥
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ।
अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ॥ 17 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तमस्सर्गः ॥