श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चविंशस्सर्गः ।
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।
ददर्शाऽश्रममागम्य खरस्सह पुरस्सरैः ॥ 1 ॥
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्स्वनम् ।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ 2 ॥
स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।
यत्र रामो महाबाहुरेको चुन्वन्स्थितो धनुः ॥ 3 ॥
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।
नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ 4 ॥
स तेषां यातुधानानां मध्ये रथगतः खरः ।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ 5 ॥
ततश्शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ 6 ॥
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
रामं नानाविधैः शस्स्रैरभ्यवर्षन्त दुर्जयम् ॥ 7 ॥
मुद्गरैः पट्टसैश्शूलैः प्रासैः खङ्गै परश्वथैः ।
राक्षसास्समरे रामं निजघ्नू रोषतत्पराः ॥ 8 ॥
ते वलाहसङ्काशा महानादा महौजसः ।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥ 9 ॥
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः ।
ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥ 10 ॥
शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः ।
स तैः परिवृतो घोरैः राघवो रक्षसां गणैः ॥ 11 ॥
तिथिष्वि महादेवो वृत परिषदाङ्गणै तानि मुक्तानि शस्त्राणि यातुधानैस्सराघवः ।
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ 12 ॥
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ 13 ॥
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ॥ 14 ॥
विषेदुर्देवगन्धर्वास्सिद्धाश्च परमर्षयः ।
एकं सहस्रैर्भहुभिस्तदा दृष्ट्वा समावृतम् ॥ 15 ॥
ततो रामस्सुसङ्कृद्धो मण्डलीकृतकार्मुकः ।
ससर्ज विशिखान्बाणाञ्छतशोऽथ सहस्रश ॥ 16 ॥
दुरावारान्दुर्विषहान्कालदण्डोपमान् रणे ।
मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ॥ 17 ॥
ते शराश्शत्रुसैन्येषु मुक्ता रामेण लीलया ।
अददू रक्षसां प्राणान्पाशाः कालकृता इव ॥ 18 ॥
भित्त्वा राक्षसदेहां स्तांस्ते शरा रुधिराप्लुताः ।
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ 19 ॥
असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ॥ 20 ॥
तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ।
बाहून्सहस्ताभरणानूरून्करिकरोपमान् ॥ 21 ॥
चिच्छेद रामस्समरे शतशोऽथ सहस्रशः ।
हयान्काञ्चनसन्नाहान्रथयुक्तान्ससारथीन् ॥ 22 ॥
गजांश्च सगजारोहान्सहयान्सादिनस्तथा ।
पदातीन्समरे हत्वा ह्यनयद्यमसादनम् ॥ 23 ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ 24 ॥
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ 25 ॥
केचिद्भीमबलाश्शूराश्शूलान्खङ्गान्परश्वधान् ।
रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ 26 ॥
तानि बाणैर्महाबाहुश्शस्त्राण्यावार्य राघवः ।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ 27 ॥
ते छिन्नशिरसः पेतुश्चिन्नवर्मशरासनाः ।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ 28 ॥
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।
खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥ 29 ॥
तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः ।
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥ 30 ॥
निवृत्तास्तु पुनस्सर्वे दूषणाश्रयनिर्भयाः ।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ 31 ॥
शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः ।
सृजन्तश्शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥ 32 ॥
द्रुमवर्षाणि मुञ्चन्तश्शिलावर्षाणि राक्षसाः ।
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥ 33 ॥
ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः ॥ 34 ॥
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।
राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः ॥ 35 ॥
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।
संयोजयत गान्धर्वं राक्षसेषु महाबलः ॥ 36 ॥
ततश्शरसहस्राणि निर्ययुश्चापमण्डलात् ।
सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥ 37 ॥
नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान् ।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ 38 ॥
शरान्धकारमाकाशमावृणोत्सदिवाकरम् ।
बभूवावस्थितो रामः प्रवमन्निव ताञ्छरान् ॥ 39 ॥
युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।
युगपत्पतितैश्चैव विकीर्णा वसुधा भवत् ॥ 40 ॥
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ 41 ॥
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ।
ऊरुभिर्जानुभिश्छिन्नैर्नानारूपैविभूषणैः ॥ 42 ॥
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः ।
चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥ 43 ॥
रामस्य बाणाभिहतैर्विचित्रैश्शूलपट्टिसैः ।
खङ्गै खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ 44 ॥
चूर्णिताभिश्शिलाभिश्च शरैश्चित्रैरनेकशः ।
विच्छिन्नैस्समरे भूमिर्विकीर्णाऽभूद्भयङ्करा ॥ 45 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चविंशस्सर्गः ॥