श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ त्रिषष्टितमस्सर्गः ।
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टस्स स्वमालयम् ॥ 1 ॥
कन्दरात्तु विसर्पित्वा पर्वतस्य शनैश्शनैः ।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ 2 ॥
अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥ 3 ॥
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।
मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् ॥ 4 ॥
उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ॥ 5 ॥
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।
बुद्ध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥ 6 ॥
पुत्रस्सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम् ।
तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ॥ 7 ॥
न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम् ।
तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैस्सह ॥ 8 ॥
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ॥ 9 ॥
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।
ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः ॥ 10 ॥
आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुपस्थितौ ।
यौवने वर्तमानस्य ममासीद्यः पराक्रमः ॥ 11 ॥
तमेवाद्यावगच्छामि बलं पौरुषमेव च ।
सर्वथा क्रियतां यत्न स्सीतामधिगमिष्यथ ॥ 12 ॥
पक्षलाभो ममायं वस्सिद्धिप्रत्ययकारकः ।
इत्युक्त्वा स तान्हरीन् सर्वान्सम्पातिः पतगोत्तमः ॥ 13 ॥
उत्पपात गिरेश्शृङ्गाज्जिज्ञासुः खगमो गतिम् ।
तस्य तद्वचनं श्रुत्वा प्रतिसंहृष्टमानसाः ॥ 14 ॥
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ।
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखा दिशं ययु र्जनकसुतापरिमार्गणोन्मुखाः ॥ 15 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्टितमस्सर्गः ॥