View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.69 युद्धकाण्ड - एकोनसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनसप्ततितमस्सर्गः ।

एवंविलपमानस्यरावणस्यदुरात्मनः ।
श्रुत्वाशोकाभितप्तस्यत्रिशिरावाक्यमब्रवीत् ॥ 1 ॥

एवमेवमहावीर्योहतोनस्तातमध्यमः ।
न तुसत्पुरुषाराजन्विलपन्तियथाभवान् ॥ 2 ॥

नूनं त्रिभुवनस्य अपि पर्याप्तस् त्वं असि प्रभो ।
स कस्मात् प्राकृत;इव शोकस्य आत्मानं ईदृशम् ॥ 3 ॥

ब्रह्मदत्ताऽस्तितेशक्तिःकवचस्सायकोधनुः ।
सहस्रखरसंयुक्तोरथोमेघस्वनोमहान् ॥ 4 ॥

त्वयाऽसकृद्विशस्त्रेणविशस्तादेवदानवाः ।
स सर्वायुधसम्पन्नोराघवंशास्तुमर्हसि ॥ 5 ॥

कामन्तिष्ठमहाराजनिर्गमिष्याम्यहंरणम् ।
उद्धरिष्यामितेशत्रून्न्गरुडःपन्नगानिव ॥ 6 ॥

शम्बरोदेवराजेननरकोविष्णुवायथा ।
तथाऽद्यशयितारामोमयायुधिनिपातितः ॥ 7 ॥

श्रुत्वात्रिशिरसोवाक्यंरावणोराक्षसाधिपः ।
पुनर्जातमिवात्मानम्मन्यतेकालचोदितः ॥ 8 ॥

श्रुत्वात्रिशिरसोवाक्यन्देवान्तकनरान्तकौ ।
अतिकायश्चतेजस्वीबभूवुर्युद्धहर्षिताः ॥ 9 ॥

ततोऽहमहमित्येवगर्जन्तोनैरृतर्षभाः ।
रावणस्यसुतावीराश्शक्रतुल्यपराक्रमाः ॥ 10 ॥

अन्तरिक्षगतास्सर्वेसर्वेमायाविशारदाः ।
सर्वेत्रिदशदर्पघ्नास्सर्वे च रणदुर्जयाः ॥ 11 ॥

सर्वेसुबलसम्पन्नास्सर्वेविस्तीर्णकीर्तयः ।
सर्वेसमरमासाद्य न श्रूयन्तेस्मपराजिताः ॥ 12 ॥

देवैरपिसगन्धर्वैस्सकिन्नरमहोरगैः ।
सर्वेस्त्रविदुषोवीरास्सर्वेयुद्धविशारदाः ॥ 13 ॥

सर्वेप्रसवरविज्ञानास्सर्वेलब्धवरास्तथा ।
सतैस्तथाभास्करतुल्यवर्चसैःपुस्त्रैर्वृतश्शत्रुबलप्रमार्दनैः ।
रराजराजामघवान्यथामरै ।
र्वृतोमहादानवदर्पनाशनैः ॥ 14 ॥

स पुत्रान् सम्परिष्वज्यभूषयित्वा च भूषणैः ।
आशीर्भिश्चप्रशस्ताभिःप्रेषयामाससम्युगे ॥ 15 ॥

युद्धोन्मत्तं च मत्तं च भ्रातरौचापिरावणः ।
रक्षणार्थङ्कुमाराणाम्प्रेषयामाससंयुगे ॥ 16 ॥

तेऽभिवाद्यमहात्मानंरावणंरिपुरावणम् ।
कृत्वाप्रदक्षिणञ्चैवमहाकायाःप्रतस्थिरे ॥ 17 ॥

सर्वौषधीभिर्गन्धैश्चसमालभ्यमहाबलाः ।
निर्जग्मुर्नैरृतश्रेष्ठाषडेतेयुद्धकाङ्क्षिणः ॥ 18 ॥

त्रिशिराश्चातिकायश्चदेवान्तकनरान्तकौ ।
महोदरमहापार्श्वौनिर्जग्मुःकालचोदिताः ॥ 19 ॥

ततस्सुदर्शनन्नागन्नीलजीमूतसन्निभम् ।
ऐरावतकुलेजातमारुरोहमहोदरः ॥ 20 ॥

सर्वायुधसमायुक्तन्तूणीभिश्चस्वलङ्कृतम् ।
रराजगजमास्थायसवितेवास्तमूर्धनि ॥ 21 ॥

हयोत्तमसमायुक्तंसर्वायुधसमाकुलम् ।
आरुरोहरथश्रेष्ठन्त्रिशिरारावणात्मजः ॥ 22 ॥

त्रिभिः किरीटैस् त्रिशिराः शुशुभे स रथ उत्तमे ।
हिमवान् इव शैल इन्द्रस् त्रिभिः कान्चन पर्वतैः ॥ 23 ॥

त्रिभिःकिरीटैश्शुशुभेत्रिशिरास्सरथोत्तमे ।
हिमवानिशैलेन्द्रस्त्रिभिःकाञ्चनपर्वतैः ॥ 24 ॥

अतिकायोऽपितितेजस्वीराक्षसेन्द्रसुतस्तदा ।
आरुरोहरथश्रेष्ठंश्रेष्ठस्सर्वधनुष्मताम् ॥ 25 ॥

सुचक्राक्षंसुसंयुक्तंस्वनुकर्षंसुकूबरम् ।
तूणीबाणासनैर्दीप्तम्प्रासासिपरिघाकुलम् ॥ 26 ॥

सकाञ्चनविचित्रेणमकुटेनविराजता ।
भूषणैश्चबभौमेरुःप्रभाभिरिवभासयन् ॥ 27 ॥

स रराजरथेतस्मिन् राजसूनुर्महाबलः ।
वृतोनैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ 28 ॥

हयमुच्चैश्श्रवःप्रख्यंश्वेतङ्कनकभूषणम् ।
मनोजवम्महाकायमारुरोहनरान्तकः ॥ 29 ॥

गृहीत्वाप्रासमुल्काभंविरराजनरान्तकः ।
शक्तिमादायतेजस्वीगुहशशिखिगतोयथा ॥ 30 ॥

देवान्ककस्समादायपरिघंवज्रभूषणम् ।
परिगृह्यगिरिन्दोर्भ्यांवपुर्विष्णोर्विडम्बयन् ॥ 31 ॥

ते प्रतस्थुर् महात्मानो बलैर् अप्रतिमैर् वृताः ।
तान् गजैसः च तुरम्गैसः च रथैसः च अम्बुद निस्वनैः ॥ 32 ॥

तेप्रतस्थुर्महात्मानोऽमरावत्यास्सुराइव ।
तान् गजैश्चतुरङ्गैश्चरथैश्चाम्बुन्दिस्स्वनैः ॥ 33 ॥

अनूत्पेतुर्महात्मानोराक्षसाःप्रवरायुधाः ।
तेविरेजुर्महात्मानःकुमारास्सूर्यवर्चसः ॥ 34 ॥

शारद अभ्र प्रतीकाशां हंस आवलिर् इव अम्बरे ।
मरणं वा अपि निश्चित्य शत्रूणां वा पराजयम् ॥ 35 ॥

इति कृत्वा मतिं वीरा निर्जग्मुः सम्युग अर्थिनः ।
जगर्जुसः च प्रणेदुसः च चिक्षिपुसः च अपि सायकान् ॥ 36 ॥

इतिकृत्वामतिंवीरानिर्जग्मुस्संयुगार्थिनः ।
जगर्जुश्चप्रणेदुश्चचिक्षिपुश्चापिसायकान् ॥ 37 ॥

रक्षसां सिम्ह नादैसः च पुस्फोट इव तदा अम्बरम् ।
ते अभिनिष्क्रम्य मुदिता राक्षस इन्द्रा महा बलाः ॥ 38 ॥

रक्षसांसिंहनादैश्चसंस्फोटेवतदाम्बरम् ।
अभिनिष्क्रम्यमुदिताराक्षसेन्द्रामहाबलाः ॥ 39 ॥

ददृशुर्वानरानीकंसमुद्यतशिलानगम् ।
हरयोपिमहात्मानोददृशुर्नेरृतम् ॥ 40 ॥

हस्त्यश्वरथसम्बाधङ्किङ्किणीशतनादितम् ।
नीलजीमूतसङ्काशंसमुद्यतमहायुधम् ॥ 41 ॥

दीप्तानलरविप्रख्यैस्सर्वतोनैरृतैर्वृतम् ।
तद्दृष्टवाबलमायान्तंलब्धलक्षाःप्लवङ्गमाः ॥ 42 ॥

समुद्यतमहाशैलास्सम्प्रणेदुर्महाबला ।
अमृष्यमाणारक्षांसिप्रतिनर्दन्तवानराः ॥ 43 ॥

ततस्समुद्घुष्टरवन्निशम्य ।
रक्षोगणावानरयूथपानाम् ।
अमृष्यमाणाःपरहर्षमुग्रम् ।
महाबलाःभीमतरंविनेदुः ॥ 44 ॥

तेराक्षसबलङ्घोरम्प्रविश्यहरियूथपाः ।
विचेरुरुद्यतैश्शैलैर्नगाश्शिखरिणोयथा ॥ 45 ॥

केचिदाकाशमाविश्यकेचिदुर्व्याम्प्लवङ्गमाः ।
रक्षस्सैन्येषुसङ्कृद्धाःश्चेरुर्द्रुमशिलायुधाः ॥ 46 ॥

द्रुमांश्चविपुलस्कन्थान् गृह्यवानरपुङ्गवाः ।
तद्युद्धमभवद्घोरंरक्षोवानरसङ्कुलम् ॥ 47 ॥

तेपादपशिलाश्शैलैश्चक्रुर्वृष्टिमनूपमाम् ।
बाणौघैर्वार्यमाणाश्चहरयोभीमविक्रमाः ॥ 48 ॥

सिंहनादान्विनेदुश्चरणेराक्षसवानराः ।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥ 49 ॥

नर्जघ्नुस्संयुगेक्रुद्धाःकवचाभरणावृतान् ।
केचिद्रथगतावनीरान्गजवाजिगतानपि ॥ 50 ॥

निर्जघ्नुस्सहसाऽप्लुत्ययातुधानान् प्लवङ्गमाः ।
शैलशृङ्गाचिताङ्गाश्चमुष्टिभिर्वान्तलोचनाः ॥ 51 ॥

चेरुःपेतुश्चनेदुश्चतत्रराक्षसपुङ्गवाः ।
राक्षसाश्चशरैस्तीक्ष्णैर्बिदुःकपिकुञ्जरान् ॥ 52 ॥

शूलमुद्गरखडगैश्चजघ्नुःप्रासैश्चशक्तिभिः ।
अन्योन्यम्पातयामासुःपरस्परजयैषिणः ॥ 53 ॥

रिपुशोणितदिग्धाङ्गास्तत्रवानरराक्षसाः ततश्शैलैश्चखडगैश्चविसृष्टैर्हरिराक्षसैः ॥ 54 ॥

मुहूर्तेनावृताभूमिरभवच्छोणिताप्लुता ।
विकीर्णैःपर्वताकारैरक्षोभिररिमर्दनैः ॥ 55 ॥

आसीद्वसुमतीपूर्णातदायुद्धमदान्वितैः ।
आक्षिप्ताःक्षिप्यमाणाश्चभग्नशूलाश्चवानरैः ॥ 56 ॥

पुनरङ्गैस्तदाचक्रुरासन्नायुद्धमद्भुतम् ।
वानरान्वानरैरेवजघ्नुस्तेनैरृतर्षभाः ॥ 57 ॥

राक्षसान्राक्षसैरेवजघ्नुस्तेवानराअपि ।
आक्षिप्य च शिलास्तेषान्निजघ्नाराक्षसाहरीन् ॥ 58 ॥

तेषाञ्चाछचिद्यशस्त्राणिजघ्नूरक्षांसिवानराः ।
निजघ्नुश्शैलशूलार्स्सैर्भिभिदुश्चपरस्परम् ॥ 59 ॥

सिंहनादान्विनेदुश्चरणेराक्षसावानराः ।
छिन्नवर्णतनुत्राणाराक्षसावानरैर्हताः ॥ 60 ॥

रुधिरम्प्रसृतास्तत्ररससारमिवद्रुमाः ।
रथेन च रथञ्चापिवारणेनैववारणम् ॥ 61 ॥

हयेन च हयङ्केचिन्निजघ्नुर्वानरारणे ।
क्षुरप्रैरर्धचन्द्रैश्चभल्लैश्चनिशितैश्शरैः ॥ 62 ॥

राक्षसावानरेन्द्राणाम्बिभिदुःपादपान् शिलाः ।
विकीर्णैपर्वताग्रैश्चद्रुमैछशिनैश्चसंयुगे ॥ 63 ॥

हतैश्चकपिरक्षोभिर्दुर्गमावसुधाऽभवत् ।
तेवानरागर्वितहृष्टचेष्टास्सङ्ग्राममासाद्यभयंविम ।
युद्धंस्मसर्वेसहराक्षसैस्सैयुधाश्चक्रुरदीनसत्त्वाः ॥ 64 ॥

तस्मिन्प्रवृत्तेतुमुलेविमर्देप्रहृष्यमाणेषुवलीमुखेषु ।
निपात्यमानेषु च राक्षसेषुमहर्षयोदेवगणाश्चनेदुः ॥ 65 ॥

स वानरान् सप्त शतानि वीरः ।
प्रासेन दीप्तेन विनिर्बिभेद ।
एकः क्षणेन इन्द्र रिपुर् महात्मा ।
जघान सैन्यं हरि पुम्गवानाम् ॥ 66 ॥

ददृशुसः च महात्मानं हय पृष्ठे प्रतिष्ठितम् ।
चरन्तं हरि सैन्येषु विद्या धर महर्षयः ॥ 67 ॥

ददृशुश्चमहात्मानंहयपृष्ठेप्रतिष्ठितम् ।
चरन्तंहरिसैन्येषुविद्याधरमहर्षयः ॥ 68 ॥

स तस्यददृशेमार्गोमांसशोणितकर्दमः ।
पतितैःपर्वताकारैर्वानरैरभिसंवृतः ॥ 69 ॥

यावद्विक्रमितुम्बुधदिञ्चक्रुःप्लवगपुङ्गवाः ।
तावदेतानतिक्रम्यनिर्बिभेदनरान्तकः ॥ 70 ॥

ददाहहरिसैन्यानिवनानीवविभावसुः ।
यावदुत्पाटयामासुर्वृक्षान्शैलान्वनौकसः ॥ 71 ॥

तावत्प्रासहताःपेतुर्वज्रकृत्ताइवाचलाः ।
ज्वलन्तम्प्रासमुद्यम्यसङ्ग्रामान्तेनरान्तकः ॥ 72 ॥

दिक्षुसर्वासुबलवान् विचचारनरान्तकः ।
प्रमृद्नन्सर्वतोयुद्धेप्रावृटकालेयथानिलः ॥ 73 ॥

न शेकुर्भाषितुंवीरा न स्थातुंस्पन्दितुम्भयात् ।
उत्पतन्तंस्थितंयान्तंसर्वान्विव्याधवीर्यवान् ॥ 74 ॥

एकेनानन्तकल्पेनप्रासेनादित्यतेजसा ।
भग्नानिहरिसैन्यानिनिपेतुर्धरणीतले ॥ 75 ॥

वज्रनिष्पेषदृशम्प्रासस्याभिनिपातनम् ।
न शेकुर्वानरास्सोढुन्तेविनेदुर्महास्वनम् ॥ 76 ॥

पततांहरिवीराणांरूपाणिप्रचकाशिरे ।
वज्रभिन्नाग्रकूटानांशैलानाम्पततामिव ॥ 77 ॥

येतुपूर्वम्महात्मानःकुम्भकर्णेनपातिताः ।
तेस्वस्थावानरश्रेष्ठास्सुग्रीवमुपतस्थिरे ॥ 78 ॥

विप्रेक्षमाणस्सुग्रीवोददर्शहरिवाहिनीम् ।
नरान्तकभयत्रस्तांविद्रवन्तीमितस्ततः ॥ 79 ॥

विद्रुतांवाहिनीन्दृष्टवा स ददर्शनरान्तकम् ।
गृहीतप्रासमायान्तंहयपृष्ठेप्रतिष्ठितम् ॥ 80 ॥

अथोवाचमहातेजास्सुग्रीवोवानराधिपः ।
कुमारमङ्गदंवीरंशक्रतुल्यपराक्रमम् ॥ 81 ॥

गच्छत्वंराक्षसंवीरोयोऽसौतुरगमास्थितः ।
क्षोभयन्तहरिबलङ्क्षिप्रम्प्राणैर्वियोजय ॥ 82 ॥

स भर्तुर्वचनंश्रुत्वानिष्पपाताङ्गदतः ।
अनीकान्मेघसङ्काशादंशुमानिववीर्यवान् ॥ 83 ॥

शैलसङ्घातसङ्काशोहरीणामुत्तमोऽङ्गदः ।
रराजाङ्गदसन्नद्धस्सधातुरिवपर्वतः ॥ 84 ॥

निरायुधोमहातेजाःकेवलन्नखदंष्ट्रवान् ।
नरान्तकमभिक्रम्यवालिपुत्रोऽब्रवीद्वचः ॥ 85 ॥

तिष्ठकिम्प्राकृतैरेभिर्हरिभिस्त्वङ्करिष्यसि ।
अस्मिन्वज्रसमस्पर्शम्प्रासङ्क्षिपममोरसि ॥ 86 ॥

अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ।
स प्रासमाविध्य तदाङ्गदाय ।
स प्रासं आविध्य तदा अन्गदाय ।
समुज्ज्वलन्तं सहसा उत्ससर्ज ।
स वालि पुत्रोर् असि वज्र कल्पे ।
बभूव भग्नो न्यपतच् च ॥ 87 ॥

अभिगम्याङ्गदङ्क्रुद्धोवालिपुत्रन्नरान्तकः ।
प्रासंसमाविध्यतदाङ्गदायसमुज्ज्वलन्तंसहसोत्ससर्ज ।
स वालिपुत्रोरसिवज्रकल्पेबभूवभग्नोन्यपतच्चभूमौ ॥ 88 ॥

तम्प्रासमालोक्यतदाविभग्नंसुपर्णकृत्तोरगभोगकल्पम् ।
तलंसमुद्यम्य स वालिपुत्रस्तुरङ्गमतस्यजघानमूर्ध्नि ॥ 89 ॥

निमग्नतालुस्फ्सुटिताक्षितारोनिष्क्रान्तजिह्वोऽचलसन्निकाशः ।
स तस्यवाजीनिपपातभूमौतलप्रहारेणविशीर्णमूर्धा ॥ 90 ॥

नरान्तकःक्रोधवशञ्जगामहतन्तुरङ्गम्पतितन्निरीक्ष्य ।
स मुष्टिमुद्यम्यमहाप्रभावोजघानशीर्षेयुधि वालिपुत्रम् ॥ 91 ॥

अथाङ्गदोमुष्टिविशीर्णमूर्धासुस्रावतीव्रंरुधिरम्भृशोष्णम् ।
मुहुर्विजज्वालमुमोहचापिसञ्ज्ञांसमासाद्यविसिष्मिये च ॥ 92 ॥

अथाङ्गदोमृत्युसमानवेगंसंवर्त्यमुष्टिङ्गिरिशृङ्गकल्पम् ।
निपातयामासतदामहात्मानरान्तकस्योरसिवालिपुत्रः ॥ 93 ॥

स मुष्टिनिष्पिष्टविभिन्नवक्षाज्वालावमन्शोणितदिग्धगात्रः ।
नरान्तकोभूमितलेपपातयथाऽचलोवज्रनिपातभग्नः ॥ 94 ॥

अथान्तरिक्षेत्रिदशोत्तमानांवनौकसाञ्चैवमहाप्रणादः ।
बभूवतस्मिन्निहतेऽग्य्रवीर्येनरान्तकेवालिसुतेनसङ्ख्ये ॥ 95 ॥

अथाङ्गदोराममनःप्रहर्षणंसुदुष्करं त त्कृतवाहनिविक्रमम् ।
विसिष्मियेसोऽप्यतिवीर्यविक्रमपुनश्चयुद्धे स बभूवहर्षितः ॥ 96 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमस्सर्गः ॥




Browse Related Categories: