View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.53 सुन्दरकाण्ड - त्रिपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।

तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः ।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ 1 ॥

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ 2 ॥

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ 3 ॥

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।
समित्रज्ञातयस्सर्वे बान्धवाः ससुहृज्जनाः ॥ 4 ॥

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ 5 ॥

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ॥ 6 ॥

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ 7 ॥

तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् ।
लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ॥ 8 ॥

रोषामर्षपरीतात्मा बालसूर्यसमाननः ।
लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः ॥ 9 ॥

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।
स भूयः सङ्गतैः क्रूरैर्राक्षसैर्हरिसत्तमः ॥ 10 ॥

निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ।
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ॥ 11 ॥

छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः ।
यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् ॥ 12 ॥

बध्नन्त्येते दुरात्मनो न तु मे निष्कृतिः कृता ।
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ॥ 13 ॥

किन्तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ।
लङ्का चारयितव्या वै पुनरेव भवेदिति ॥ 14 ॥

रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ 15 ॥

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसश्श्रमः ॥ 16 ॥

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ 17 ॥

शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ 18 ॥

अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।
हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ 19 ॥

अथापश्यद्विमानानि विचित्राणि महाकपिः ।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ 20 ॥

वीथीश्च गृहसम्बाधाः कपिश्शृङ्गाटकानि च ।
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ॥ 21 ॥

गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ 22 ॥

घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।
स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ 23 ॥

तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।
दीप्यमाने ततस्तत्र लाङ्गूलाग्रे हनूमतः ॥ 24 ॥

राक्षस्यस्ता विरूपाक्ष्य श्शंसुर्देव्यास्तदप्रियम् ।
यस्त्वया कृतसंवाद स्सीते ताम्रमुखः कपिः ॥ 25 ॥

लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।
श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥ 26 ॥

वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।
मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः ॥ 27 ॥

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 28 ॥

यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ॥ 29 ॥

यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ॥ 30 ॥

स विजानाति धर्मात्मा शीतो भव हनूमतः ।
यदि मां तारयेदार्यस्सुग्रीवः सत्यसङ्गरः ॥ 31 ॥

अस्माद्धुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ॥ 32 ॥

जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः ।
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥ 33 ॥

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥ 34 ॥

प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।
दृश्यते च महाज्वालः करोति न च मे रुजम् ॥ 35 ॥

शिशिरस्येव सङ्घातो लाङ्गूलाग्रे प्रतिष्ठितः ।
अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ॥ 36 ॥

रामप्रभावादाश्चर्यं पर्वत स्सरितां पतौ ।
यदि तावत्समुद्रस्य मैनाकस्य च धीमतः ॥ 37 ॥

रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति ।
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ 38 ॥

पितुश्च मम सख्येन न मां दहति पावकः ।
भूयस्स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ 39 ॥

उत्पपाताथ वेगेन ननाद च महाकपिः ।
पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम् ॥ 40 ॥

विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ॥ 41 ॥

ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।
विमुक्तश्चाभवछ्रचीमान् पुनः पर्वतसन्निभः ॥ 42 ॥

वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ॥ 43 ॥

रक्षिणस्तान् पुनस्सर्वान्सूदयामास मारुतिः ।
स तान्निहत्त्वा रणचण्डविक्रम स्समीक्षमाणः पुनरेव लङ्काम् ।
प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशस्सर्गः ॥




Browse Related Categories: