श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षट्पञ्चाशस्सर्गः ।
तद्दृष्टवासुमहत्कर्मकृतंवानरतस्तमैः ।
क्रोधमाहारयामासयुधितीव्रमकम्पनः ॥ 1 ॥
क्रोधमूर्चितरूपस्तुधून्वन्परमकार्मुकम् ।
दृष्टवातुकर्मशत्रूणांसारथिंवाक्यमब्रवीत् ॥ 2 ॥
तत्त्त्वैतावत्त्वरितंरथम्प्रापयसारथे ।
यत्रैतेबहवोघ्नन्तिसुबहून्राक्षसान्रणे ॥ 3 ॥
एतेऽत्रबलवन्तोहिभीमकोपाश्चवानराः ।
द्रुमशैलप्रहरणास्तिष्ठन्तिप्रमुखेमम ॥ 4 ॥
एतान्निहन्तुमिच्छामिसमरश्लाघिनोह्यहम् ।
एतैःप्रमथितंसर्वन्दृश्यतेराक्षसाम्बलम् ॥ 5 ॥
ततःप्रजवनाश्वेनरथेनरथिनांवरः ।
हरीनभ्यहनत्क्रोधाच्छरजालैकम्पनः ॥ 6 ॥
नस्थातुंवानराश्शेकुःकिम्पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नास्सर्वएवविदुद्रुवुः ॥ 7 ॥
तान्मृत्युवशमापन्नानकम्पनवंशगतान् ।
समीक्ष्यहनुमान्ज्ञातीनुपतस्थेमहाबलः ॥ 8 ॥
तम्महाप्लवगन्दृष्टवासर्वेतेप्लवगयूथपाः ।
समेत्यसमरेवीरास्सहिताःपर्यवारयन् ॥ 9 ॥
अवस्थितंहनूमन्तन्तेदृष्टवाहरियूथपाः ।
बभूवुर्बलवन्तोहिबलवन्तंसमाश्रिताः ॥ 10 ॥
अकम्पनस् तु शैल आभं हनूमन्तं अवस्थितम् ।
महा इन्द्र;इव धाराभिह् शरैर् अभिववर्ष ह ॥ 11 ॥
अचिन्तयित्वाबाणौघान् शरीरेपतितान्शितान् ।
अकम्पनवधार्थायमनोदध्रेमहाबलः ॥ 12 ॥
सप्रहस्यमहातेजाहनुमान् मारुतात्मजः ।
अभिदुद्रावतद्रक्षःकम्पयन्निवमेदिनीम् ॥ 13 ॥
तस्याभिनर्दमानस्यदीप्यमानस्यतेजसा ।
बभूवरूपन्दुर्धर्षन्दीप्तस्येवविभावसोः ॥ 14 ॥
आत्मानम्मप्रहरणञ्ज्ञात्वाक्रोधसमन्वितः ।
शैलमुत्पाटयामासवेगेनहरिपुङ्गवः ॥ 15 ॥
गृहीत्वातम्महाशैलम्पाणिनैकेनमारुतिः ।
सविनद्यमहानादम्भ्रामयामासवीर्यवान् ॥ 16 ॥
ततस्तमभिदुद्रावराक्षसेन्द्रमकम्पनम् ।
पुराहिनमुचिंसङ् ख्येवज्रेणेवपुरन्दरः ॥ 17 ॥
अकम्पनस्तुतद्दृष्टवागिरिशृङ्गंसमुद्यतम् ।
दूरादेवमहाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ 18 ॥
तत्पर्वताग्रमाकाशेरक्षोबाणविदारितम् ।
विकीर्णम्पतितन्दृष्टवाहनुमान्क्रोधमूर्छितः ॥ 19 ॥
सोऽश्वकर्णंसमासाद्यरोषदर्पान्वितोहरिः ।
तूर्णमुत्पाटयामासमहागिरिमिवोच्छ्रितम् ॥ 20 ॥
तङ्गृहीत्वामहास्कन्धंसोऽश्वकर्णम्महाद्युतिः ।
प्रहस्यपरयाप्रीत्याभ्रामयामासभूतले ॥ 21 ॥
प्रधावन्नूरुवेगेनप्रभञ्जंस्तरसाद्रुमान् ।
हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितम् ॥ 22 ॥
गजांश्चसगजारोहान्सरथान्रथिनस्तथा ।
जघानहनुमान् भीमान् राक्षसांश्चपदातिगान् ॥ 23 ॥
तमन्तकमिवक्रुद्धंसद्रुमम्प्राणहारिणम् ।
हनूमन्तमभिप्रेक्ष्यराक्षसाविप्रदुद्रुवुः ॥ 24 ॥
तमापतन्तंसङ्कृद्धंराक्षसानाम्भयावहम् ।
ददर्शाकम्पनोवीरश्चुक्षोधचननादच ॥ 25 ॥
सचतुर्दशभिर्बाणैश्शितैर्देहविदारणैः ।
निर्बिभेदहनूमन्तम्महावीर्यमकम्पनः ॥ 26 ॥
स तथा प्रतिविद्धस् तु बह्वीभिह् शर वृष्टिभिः ।
हनूमान् ददृशे वीरह् प्ररूढ;इव सानुमान् ॥ 27 ॥
विरराज महावीर्यो महाकायो महाबलः ।
पुष्पिताशोकसम्काशो विधूम इव पावकः ॥ 28 ॥
ततोऽन्यंवृक्षमुत्पाट्यकृत्वावेगमनुत्तमम् ।
शिरस्यभिजघानाशुराक्षसेन्द्रमकम्पनम् ॥ 29 ॥
सवृक्षेणहतस्तेनसक्रोधेनमहात्मना ।
राक्षसोवानरेन्द्रेणपपातचममारच ॥ 30 ॥
तं दृष्ट्वा निहतं भूमौ राक्षस इन्द्रं अकम्पनम् ।
व्यथिता राक्षसाह् सर्वे क्षिति कम्प;इव द्रुमाः ॥ 31 ॥
त्यक्तप्रहरणास्सर्वेराक्षसास्तेपराजिताः ।
लङ्कामभिययुस्त्रस्तावानरास्तैभिद्रुताः ॥ 32 ॥
तेमुक्तकेशाःसम्भ्रान्ताभग्नमानाःपराजिताः ।
स्रवच्छ्रमजलैरङ्गैश्श्वसन्तोविप्रदुद्रुवुः ॥ 33 ॥
अन्योन्यम्प्रममन्थुस्तेविविशुर्नगरम्भयात् ।
पृष्ठतस्तेतुसम्मूढाःप्रेक्षमाणामुहुर्मुहुः ॥ 34 ॥
तेषुलङ्काम्प्रविष्टेषुराक्षसेषुमहाबलाः ।
समेत्यहरयस्सर्वेहनूमन्तमपूजयन् ॥ 35 ॥
सोऽपिप्रहृष्टस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् ।
हनुमान्सत्त्वसम्पन्नोयथार्हमनुकूलतः ॥ 36 ॥
विनेदुश्चयथाप्राणंहरयोजितकाशिनः ।
चकर्षुश्चपुनस्तत्रसप्राणानपिराक्षसान् ॥ 37 ॥
सवीरशोभामभजन्महाकपिःसमेत्यरक्षांसिनिहत्यमारुतिः ।
महासुरम्भीमममित्रनाशनःयथैवविष्णुर्बलिनञ्चमूमुखे ॥ 38 ॥
अपूजयन्देवगणास्तदाकपिंस्वयञ्चरामोऽतिबलश्चलक्ष्मणः ।
तथैवसुग्रीवमुखाःप्लवङ्गमाविभीषणश्चैवमहाबलस्तथा ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षट्पञ्चाशस्सर्गः ॥