श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चतुस्त्रिंशस्सर्गः ।
तस्यास्तद्वचनं श्रुत्वा हनुमान्हरिपुङ्गवः ।
दुःखाद्दुःखाभिभूताया स्सान्त्वमुत्तरमब्रवीत् ॥ 1 ॥
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ 2 ॥
यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदांवरः ।
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ 3 ॥
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ।
कृतवान्शोकसन्तप्तश्शिरसा तेऽभिवादनम् ॥ 4 ॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।
प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ 5 ॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ 6 ॥
तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता ।
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ 7 ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।
सीतायाश्शोकदीनायास्समीपमुपचक्रमे ॥ 8 ॥
यथा यथा समीपं स हनुमानुपसर्पति ।
तथा तथा रावणं सा तं सीता परिशङ्कते ॥ 9 ॥
अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे ।
रूपान्तरमुपागम्य स एवायं हि रावणः ॥ 10 ॥
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ।
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ 11 ॥
हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ॥ 12 ॥
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ॥ 13 ॥
अब्रवीद्धीर्घमुच्छवस्य वानरं मधुरस्वरा ।
मायां प्रविष्टो मायावी यदि त्वं रावणस्स्वयम् ॥ 14 ॥
उत्पादयसि मे भूयस्सन्तापं तन्न शोभनम् ।
स्वं परित्यज्य रूपं यः परिव्राजकरूपध्रुत् ।
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ 15 ॥
उपवासकृशां दीनां कामरूप निशाचर ।
सन्तापयसि मां भूयस्सन्तप्तां तन्न शोभनम् ॥ 16 ॥
अथवा नैतदेवं हि यन्मया परिशङ्कितम् ॥ 17 ॥
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥ 18 ॥
पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।
गुणान्रामस्य कथय प्रियस्य मम वानर ॥ 19 ॥
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।
अहो स्वप्नस्य सुखता याहमेवं चिराहृता ॥ 20 ॥
प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ॥ 21 ॥
पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ।
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ 22 ॥
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।
किन्नु स्याचित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ॥ 23 ॥
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः ॥ 24 ॥
सम्बुध्ये चाहमात्मानमियं चापि वनौकसम् ।
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् ॥ 25 ॥
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ॥ 26 ॥
न प्रतिव्याजहाराथ वानरं जनकात्मजा ।
सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः ॥ 27 ॥
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।
आदित्य इव तेजस्वी लोककान्तश्शशी यथा ॥ 28 ॥
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥ 29 ॥
सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ।
रूपवान्सुभग श्रीमान् कन्दर्प इव मूर्तिमान् ॥ 30 ॥
स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ 31 ॥
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।
शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ॥ 32 ॥
न चिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ 33 ॥
तेनाहं प्रेषितो दूत स्त्वत्सकाशमिहागतः ।
त्वद्वियोगेन दुःखार्त स्स त्वां कौशलमब्रवीत् ॥ 34 ॥
लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः ।
अभिवाद्य महाबाहुस्स त्वां कौशलमब्रवीत् ॥ 35 ॥
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ 36 ॥
नित्यं स्मरति रामस्त्वां ससुग्रीव स्सलक्ष्मणः ।
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ 37 ॥
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ 38 ॥
अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ 39 ॥
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ 40 ॥
नाहमस्मि तथा देवि यथा मामवगच्छसि ।
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशस्सर्गः ॥