श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ द्विषष्टितमस्सर्गः ।
शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशाः ।
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ 1 ॥
तस्य विश्रममाणस्य शुनश्शेफो महायशाः ।
पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ॥ 2 ॥
तप्यन्तमृषिभिस्सार्धं मातुलं परमातुरः ।
विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥ 3 ॥
पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥ 4 ॥
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ।
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ 5 ॥
राजा च कृतकार्यस्स्यादहं दीर्घायुरव्ययः ।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वाह्यनुत्तमम् ॥ 6 ॥
त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेव पुत्रं धर्मात्मं स्त्रातुमर्हसि किल्बिषात् ॥ 7 ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ 8 ॥
यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः ।
परलोकहितार्थाय तस्य कालोऽयमागतः ॥ 9 ॥
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ 10 ॥
सर्वे सुकृतकर्माणस्सर्वे धर्मपरायणाः ।
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥ 11 ॥
नाथवांश्च शुनश्शेफो यज्ञश्चाविघ्नितो भवेत् ।
देवतास्तर्पिताश्चस्युर्मम चापि कृतं वचः ॥ 12 ॥
मुनेस्तु वचनं श्रुत्वा मधुच्छन्दादय स्सुताः ।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ 13 ॥
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो ।
अकार्यमिव पश्याम श्श्वमांस इव भोजने ॥ 14 ॥
तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः ।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ 15 ॥
निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ 16 ॥
श्वमांसभोजिनस्सर्वे वासिष्ठा इव जातिषु ।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ 17 ॥
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।
शुनश्शेफमुवाचार्तं कृत्वा रक्षां निरामयम् ॥ 18 ॥
पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ 19 ॥
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।
अम्बरीषस्य यज्ञेऽस्मिंस्तत स्सिद्धिमवाप्स्यसि ॥ 20 ॥
शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ 21 ॥
राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः ।
निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ 22 ॥
तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
जगाम नृपति श्शीघ्रं यज्ञवाटमतन्द्रितः ॥ 23 ॥
सदस्यानुमते राजा पवित्रकृतलक्षणम् ।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ 24 ॥
सबद्धो वाग्भिरग्य्राभिरभितुष्टाव वै सुरौ ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ 25 ॥
ततः प्रीत स्सहस्राक्षो रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा प्रादाच्छुनश्शेफाय राघव ॥ 26 ॥
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ 27 ॥
विश्वामित्रो ऽपि धर्मात्मा भूयस्तेपे महातपाः ।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे द्विषष्टितमस्सर्गः ॥