श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ चतुःषष्टितमस्सर्गः ।
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥ 1 ॥
अपि गोदावरीं सीता पद्मान्यानयितुं गता ।
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ॥ 2 ॥
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः ।
तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् ॥ 3 ॥
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।
कं नु वा देशमापन्ना वैदेही क्लेशनाशिनी ॥ 4 ॥
न ह्यहं वेद तं देशं यत्र सा जनकात्मजा ।
लक्ष्मणस्य वचश्श्रुत्वा दीनस्सन्तापमोहितः ॥ 5 ॥
रामस्समभिचक्राम स्वयं गोदावरीं नदीम् ।
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ 6 ॥
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति ।
न तां शशंसू रामाय तथा गोदावरी नदि ॥ 7 ॥
ततः प्रचोदिता भूतैश्शंसास्मैतां प्रियामिति ।
न तु साभ्यवदतसितां पृष्टा रामेण शोचता ॥ 8 ॥
रावणस्य तु तद्रूपं कर्माणि च दुरात्मनः ।
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥ 9 ॥
निराशस्तु तया नद्या सीताया दर्शने कृतः ।
उवाच रामस्सौमित्रिं सीतादर्शनकर्शितः ॥ 10 ॥
एषा गोदावरी सौम्य किञ्चिन्न प्रति भाषते ।
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥ 11 ॥
मातरं चैव वैदेह्या विना तामहमप्रियम् ।
या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ 12 ॥
सर्वं व्यपनयेच्छोकं वैदेही क्व नु सा गता ।
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ॥ 13 ॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।
गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥ 14 ॥
सर्वाण्यनुगमिष्यामि यदि सीता हि दृश्यते ।
एते मृगा महावीर्य मामीक्षन्ते मुहुर्मुहुः ॥ 15 ॥
वक्तुकामा इव हि मे इङ्गितान्युपलक्षये ।
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ 16 ॥
क्व सीतेति निरीक्षन्वै बाष्पसंरुद्धया दृशा ।
एवमुक्ता नरेन्द्रेण ते मृगास्सहसोत्थिताः ॥ 17 ॥
दक्षिणाभिमुखास्सर्वे दर्शयन्तो नभस्थलम् ।
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत ॥ 18 ॥
तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम् ।
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः ॥ 19 ॥
पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः ।
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥ 20 ॥
उवाच लक्ष्मणो ज्येष्ठं धीमान्भ्रातरमार्तवत् ।
क्व सितेति त्वया पृष्टा यथेमे सहसोत्थिताः ॥ 21 ॥
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ।
साधु गच्छावहे देव दिशमेतां हि नैऋतिम् ॥ 22 ॥
यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते ।
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ॥ 23 ॥
लक्ष्मणानुगतश्शीमन्वीक्षमाणो वसुन्धराम् ।
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ ॥ 24 ॥
वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् ।
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ॥ 25 ॥
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ।
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥ 26 ॥
पिनद्धानि हि वैदेह्या मया दत्तानि कानने ।
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ 27 ॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।
एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः ॥ 28 ॥
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ।
कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ॥ 29 ॥
रामा रम्ये वनोद्देशे मया विरहिता त्वया ।
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥ 30 ॥
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत ।
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ 31 ॥
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति ।
शंसन्निव ततस्सीतां नादर्शयत राघवे ॥ 32 ॥
ततो दाशरथी राम उवाच च शिलोच्चयम् ।
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ 33 ॥
असेव्यः सततं चैव निस्तृणद्रुमपल्लवः ।
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥ 34 ॥
यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम् ।
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ॥ 35 ॥
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ।
त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः ॥ 36 ॥
राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ।
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥ 37 ॥
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् ।
सम्भ्रान्तहृदयो रामश्शशंस भ्रातरम्प्रियम् ॥ 38 ॥
पश्य लक्ष्मण वैदेह्याशशीर्णाः कनकबिन्दवः ।
भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ 39 ॥
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ।
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ 40 ॥
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।
भित्वाभित्वा विभक्ता वा भक्षिता वा भविष्यति ॥ 41 ॥
तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः ।
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ 42 ॥
मुक्तामणिमयं चेदं तपनीयविभूषितम् ।
धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥ 43 ॥
तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम् ।
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् ॥ 44 ॥
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।
भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम् ॥ 45 ॥
काञ्चनोरश्छदा श्चेमे पिशाचवदनाः खराः ।
भीमरूपा महाकायाः कस्य वा निहता रणे ॥ 46 ॥
दीप्तपावकसङ्काशो द्युतिमान्समरध्वजः ।
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः ॥ 47 ॥
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥ 48 ॥
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ।
प्रतोदाभीशुहस्तो वै कस्यायं सारथिर्हतः ॥ 49 ॥
कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि ।
चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ ॥ 50 ॥
पदवीपुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ।
वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ॥ 51 ॥
सुघोरहृदयैस्सौम्य राक्षसैः कामरूपिभिः ।
हृता मृता वा सीता सा भक्षिता वा तपस्विनी ॥ 52 ॥
नधर्मस्त्रायते सीतां ह्रियमाणां महावने ।
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण ॥ 53 ॥
के हि लोके प्रियं कर्तुं शक्तास्सौम्य ममेश्वराः ।
कर्तारमपि लोकानां शूरं करुणवेदिनम् ॥ 54 ॥
अज्ञानादवमन्येरत्सर्वभूतानि लक्ष्मण ।
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ॥ 55 ॥
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ।
मां प्राप्य हि गुणो दोषस्संवृत्तः पश्य लक्ष्मण ॥ 56 ॥
अद्यैव सर्वभूतानां रक्षसामभवाय च ।
संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः ॥ 57 ॥
संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते ।
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः ॥ 58 ॥
किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लिक्ष्मण ।
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण ॥ 59 ॥
निस्सम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ।
सन्निरुद्धग्रहगणमावारितनिशाकरम् ॥ 60 ॥
विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् ।
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ॥ 61 ॥
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ।
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा ॥ 62 ॥
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ।
अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥ 63 ॥
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ।
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् ॥ 64 ॥
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ।
समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण ॥ 65 ॥
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ।
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ॥ 66 ॥
मम रोषप्रयुक्तानां सायकानां बलं सुराः ।
द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम् ॥ 67 ॥
नैव देवा न दैतेया न पिशाचा न राक्षसाः ।
भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ॥ 68 ॥
देवदानवयक्षाणां लोका ये रक्षसामपि ।
बहुधा न भविष्यन्ति बाणौघैश्शकलीकृताः ॥ 69 ॥
निर्मर्यादानिमान्लोकान्करिष्याम्यद्य सायकैः ।
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः ॥ 70 ॥
तथारुपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ।
नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ 71 ॥
इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् ।
शरमादाय सन्दीप्तं घोरमाशीविषोपमम् ॥ 72 ॥
सन्धाय धनुषि श्रीमान्रामः परपुरञ्जयः ।
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ॥ 73 ॥
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः ।
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ॥ 74 ॥
तथाहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा ।
पुरेव मे चारुदन्तीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् ।
सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥ 75 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुःषष्टितमस्सर्गः ॥