श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षट्सप्ततितमस्सर्गः ।
प्रवृत्तेसङ्कुलेतस्मिन् घोरेवीरजनक्ष्ये ।
अङ्गदःकम्पनंवीरमाससादरणोत्सुकः ॥ 1 ॥
आहूयसोङ्गदङ्कोपात्ताडयामासवेगितः ।
गदयाकम्पनःपूर्वं स चचालभृशाहतः ॥ 2 ॥
स सञ्ज्ञाम्प्राप्यतेजस्वीचिक्षेपशिखरङ्गिरेः ।
अर्दितस्तत्प्रहारेणकम्पनःपतितोभुवि ॥ 3 ॥
ततस्तुकम्पनन्दृष्टवाशोणिताक्षोहतंरणे ।
रथेनाभ्यपतत् क्षिप्रन्तत्राङ्गदमभीतवत् ॥ 4 ॥
सोङ्गदन्निशितैर्बाणैस्तदाविव्याधवेगितः ।
शरीरदारणैस्तीक्ष्णैःकालाग्निसमविग्रहैः ॥ 5 ॥
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैश्शिलीमुखैः ।
कर्णिशल्यविपाठैश्चबहुभिश्चशितैश्शरैः ॥ 6 ॥
अङ्गदःप्रतिविद्धाङ्गोवालिपुत्रःप्रतापवान् ।
धनुरग्य्रंरथम्बाणान्ममर्दतरसाबली ॥ 7 ॥
शोणिताक्षस्ततःक्षिप्रमसिचर्मसमाददे ।
उत्पपातदिवङ्क्रुद्धोवेगवानविचारयन् ॥ 8 ॥
तङ्क्षिप्रतरमाफ्लुत्यपरामृश्याङ्गदोबली ।
करेणतस्यतङ्खङ्गंसमाच्छिद्यननाद च ॥ 9 ॥
तस्यांसफलकेखडगन्निजघानततोऽङ्गदः ।
यज्ञोपवीतवच्चैनञ्चिच्छेदकपिकुञ्जरः ॥ 10 ॥
तम्प्रगृह्यमहाखडगंविनद्य च पुनःपुनः ।
वालिपुत्रोऽभिदुद्रावरणशीर्षेपरानरीन् ॥ 11 ॥
आयसीन्तुगदाम्प्रगृह्य स वीरःकनकाङ्गदः ।
शोणिताक्षस्समाविध्यतमेवानुपपात ह ॥ 12 ॥
प्रजङ्घसहितोवीरोयूपाक्षस्तुततोबली ।
रथेनाभिययौक्रुद्दोवालिपुत्रम्महाबलम् ॥ 13 ॥
प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली ।
गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ 14 ॥
अङ्गदम्परिरक्षन्तौमैन्दोद्विविदएव च ।
तस्यतस्थतुरभ्याशेपरस्परदिदृक्ष्या ॥ 15 ॥
भिपेतुर्महाकायाःप्रतियत्तामहाबलाः ।
राक्षसावानरान् रोषादसिचर्मगदाधराः ॥ 16 ॥
त्रयाणांवानरेन्द्राणान्त्रिभीराक्षसपुङ्गवैः ।
संसक्तानाम्महद्युद्धमभवद्रोमहर्षणम् ॥ 17 ॥
तेतुवृक्षान् समादायसम्प्रचिपुराहवे ।
खडगेनप्रतिचिच्छेदतान् प्रजङ्घोमहाबलः ॥ 18 ॥
रथानश्वान् द्रुमैश्शैलैस्तेप्रचिक्षिपुराहवे ।
शरौघैःप्रतिचिच्छेदतान्यूपाक्षोनिशाचरः ॥ 19 ॥
सृष्टाव्निविदमैन्दाभ्यान्द्रुमानुत्पाट्यवीर्यवान् ।
बभञ्जगदयामध्येशोणिताक्षःप्रतापवान् ॥ 20 ॥
सृष्टान् द्विवदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्य्वान् ।
बभञ्ज गदया मद्य शोणिताक्षः प्रतापवान् ॥ 21 ॥
तमभ्याशगतन्दृष्टवावानरेन्द्रोमहाबलः ।
आजघानाश्वकर्णेनद्रुमेणातिबलस्तदा ॥ 22 ॥
बाहुञ्चास्यसनिस्त्रिंशमाजघान स मुष्टिना ।
वालिपुत्रस्यघातेन स पपातक्षितावसिः ॥ 23 ॥
तन्दृष्टवापतितम्भूमौखङ्गमुलसन्निभम् ।
मुष्टिंसम्वर्तयामासवज्रकल्पम्महाबलः ॥ 24 ॥
स ललाटेमहावीर्यमङ्गदंवानरर्षभम् ।
आजघानमहातेजास्समुहूर्तञ्चचाल ह ॥ 25 ॥
स सञ्ज्ञाम्प्राप्यतेजस्वीवालिपुत्रःप्रतापवान् ।
प्रजङ्घस्यशिरःकायातखङ्गेनपातयत्क्षितौ ॥ 26 ॥
स यूपाक्षोऽश्रुपूर्णाक्षःपितृव्येनिहतेरणे ।
अवरुह्यरथात्क्षिप्रङ्क्षीणेषुखङ्गमाददे ॥ 27 ॥
तमापतन्तंसम्प्रेक्ष्ययूपाक्षन्द्विविदस्त्वरन् ।
आजघानोरसिक्रुद्धोजग्राह च बलाद्बली ॥ 28 ॥
गृहीतम्भ्रातरन्दृष्टवाशोणिताक्षोमहाबलः ।
आजघानगदाग्रेणवक्षसिद्विविदन्ततः ॥ 29 ॥
स गदाभिहतस्तेनसञ्चचालमहाबलः ।
उद्यता च पुनस्तस्यजहारद्विविदोगदाम् ॥ 30 ॥
तस्मिन्नन्तरेमैन्दोवीरोवानरयूथपः ।
यूपाक्षन्ताडयामासतलेनोरसिवीर्यवान् ॥ 31 ॥
तौशोणिताक्ष्यूपाक्षौप्लवङ्गाभ्यान्तरस्विनौ ।
चक्रतुस्समरेतीव्रमाकर्षोत्पाटनम्भृशम् ॥ 32 ॥
द्विविदश्शोणिताक्षन्तुविददारनखैर्मुखै ।
निष्पिपेष च वेगेनक्षितावाविध्यवीर्यवान् ॥ 33 ॥
पाक्षमभिसङ्कृद्धो मैन्दो वानरयूथपः ।
पीडयामासबाहुभ्यांसपपातहतःक्षितौ ॥ 34 ॥
हतप्रवीराव्यथिताराक्षसेन्द्रचमूस्तदा ।
जगामाभिमुखीसातुकुम्भकर्णसुतोयतः ॥ 35 ॥
आपततनीं च वेगेनकुम्भस्तांसान्त्वयच्चमूम् ।
अथोत्कष्टम्महावीर्यैर्लब्धलक्ष्यैःप्लवङ्गमैः ॥ 36 ॥
निपातितमहावीरान्दृष्टवारक्षश्चमून्ततः ।
कुम्भःप्रचक्रेतेजस्वीरणेकर्मसुदुष्करम् ॥ 37 ॥
स धनुर्धन्विनांश्रेष्ठःप्रगृह्यसुसमाहितः ।
मुमोचाशीविषप्रख्यान्शरान्देहविदारणान् ॥ 38 ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।
मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ 39 ॥
आकर्णाकृष्टमुक्तेनजघानद्विविदन्तदा ।
तेनहाटकपुङ्खेनपत्रतिणापत्त्रवाससा ॥ 40 ॥
सहसाभिहतस्तेनविप्रमुक्तपदस्स्फुरन् ।
निपपाताद्रिकूटाभोविह्वलन् प्लवगोत्तमः ॥ 41 ॥
मन्दस्तुभ्रातरम्भग्नन्दृष्टवातत्रमहाहवे ।
लभिदुद्राववेगेनप्रगृह्यमहतींशिलाम् ॥ 42 ॥
तांशिलान्तुप्रचिक्षेपराक्षसायमहाबलः ।
बिभेदतांशिलाङ्कुम्भःप्रसन्नैःपञ्चभिश्शरैः ॥ 43 ॥
सन्धायचान्यंसुमुखंशरमाशीविषोपमम् ।
आजघानमहातेजावक्षसिद्विविदाग्रजम् ॥ 44 ॥
स तुतेनप्रहारेणमैन्दोवानरयूथपः ।
मर्मण्यभिहतस्तेनपपा त भुविमूर्छितः ॥ 45 ॥
अङ्गदोमातुलौदृष्टवापथितौतुमहाबलौ ।
अभिदुद्राववेगेनकुम्भमुद्यतकार्मुकम् ॥ 46 ॥
तमापतन्तंविव्याधकुम्भःपञ्चभिरायसैः ।
त्रिभिश्चान्यैश्शितैर्बाणैर्मातङ्गमिवतोमरैः ॥ 47 ॥
सोऽङ्गदंविविधैभिर्बाणैःकुम्भोविव्याथवीर्यवान् ।
अकुण्ठधारैर्निशितैस्तीक्ष्णैःकनकभूषणैः ॥ 48 ॥
अङ्गदःप्रतिविद्धाङ्गोवालिपुत्रो न कम्पते ।
शिलापादपवर्षाणितस्यमूर्ध्निववर्ष ह ॥ 49 ॥
स प्रचिच्छेदतान् सर्वान् बिभेद च पुनश्शिलाः ।
कुम्भकर्णात्मजश्रशीमान् वालिपुत्त्रसमीरितान् ॥ 50 ॥
आपतन्तं च ससम्प्रेक्ष्यकुम्भोवानरयूथपम् ।
भ्रुवोर्विव्याथबाणाभ्यामुल्काभ्यामिवकुञ्जरम् ॥ 51 ॥
तस्यसुस्रावरुधिरम्पिहितेचास्यलोचने ।
अङ्गदःपाणिनानेत्रेपिधायरुधिरोक्षिते ॥ 52 ॥
सालमासन्नमेकेनपरिजग्राहपाणिवा ।
सम्पीड्यरसिचास्कन्धं करेणाभिनिवेश्य च ॥ 53 ॥
किञ्चिदभ्यवनम्यैनमुन्ममाथयथागजः ।
तमिन्द्रकेतुप्रतिमंवृक्षम्मन्दरसन्निभम् ॥ 54 ॥
समुत्सृजन्तंवेगेनपश्यतांसर्वरक्षसाम् ।
सबिभेदशितैर्बाणैस्सप्तभिःकायभेदनैः ॥ 55 ॥
अङ्गदोविव्यधेऽभीक्षणंससादचमुमोह च ।
अङ्गदंव्यथितन्दृष्टवासीदन्तमिवसागरम् ॥ 56 ॥
दुरासदंहरिश्रेष्ठंरामायन्येन्यवेदयन् ।
रामस्तुव्यथितंश्रुत्वावालिपुत्त्रंरणाजरे ॥ 57 ॥
व्यादिदेशहरिश्रेष्ठान्जाम्बवत्प्रमुखांस्ततः ।
तेतुवानरशार्दूलाश्श्रुत्वारामस्यशासनम् ॥ 58 ॥
अभिपेतुस्सुसङ्कृद्धाःकुम्भमुद्यतकार्मुकम् ।
ततोद्रुमशिलाहस्ताःकोपसंरक्तलोचनाः ॥ 59 ॥
रिरक्षिषन्तोऽभ्यपतन्नङ्गदंवानरर्षभाः ।
जाम्बवांश्चसुषेणश्चवेगदर्शी च वानरः ॥ 60 ॥
कुम्भकर्णात्मजंवीरङ्क्रुद्धास्समभिदुद्रुवुः ।
समीक्ष्यापततस्तांस्तुवानरेन्द्रान् महाबलान् ॥ 61 ॥
आववारशरौघेणनगेनेवजलाशयम् ।
तस्यबाणपथम्प्राप्य न शेकुरतिवर्तितुम् ॥ 62 ॥
वानरेन्द्रामहात्मानोवेलामिवमहादधिः ।
तांस्तुदृष्टवाहरिगणान् शरवृष्टिभिरर्दितान् ॥ 63 ॥
अङ्गदम्पृष्ठतःकृत्वाभ्रातृजम्प्लवगेश्वरः ।
भिदुद्राववेगेनसुग्रीवःकुम्भमाहवे ॥ 64 ॥
शैलसानुचरन्नागंवेगवानिवकेसरी ।
उत्पाट्य च महाशैलनश्वकर्णान्दवान्बहून् ॥ 65 ॥
अन्यांश्चविविधान्ववृक्षाचिक्षेपचिमहाबलः ।
ताञ्छादयन्तीमाकाशंवृक्षवृष्टिन्दुरासदाम् ॥ 66 ॥
कुम्भकर्णात्मजश्शीघ्रञ्चिच्छेदनिशितैश्शरैः ।
अभिलक्षेणतीव्रेणकुम्भेननिशितैश्शरैः ॥ 67 ॥
अचितास्तेद्रुमारेजुर्यथाघोराषतघ्नयः ।
द्रुमवर्षन्तुसञ्छिन्नन्दृष्टवाकुम्भोनवीर्यवान् ॥ 68 ॥
वानराधिपतिः शीमान्महासत्त्वो न विव्यथे ।
निर्भिद्यमानस्सहसासहमानश्चतान् शरान् ॥ 69 ॥
कुम्भस्यधनुराक्षिप्यबभञ्जेन्द्रधनुष्प्रभम् ।
अवफ्लुत्यततश्शीघ्रङ्कृत्वाकर्मसुदुष्करम् ॥ 70 ॥
अब्रवीत्कुपितःकुम्भम्भग्नशृङ्गमिवद्विपम् ।
निकुम्भाग्रजवीर्यन्तेबाणवेगवदद्भुतम् ॥ 71 ॥
सन्नतिश्चप्रभावश्चतववारावणस्यवा ।
प्रह्लादबलिवृत्रघ्नकुभेरवरुणोपम ॥ 72 ॥
एकस्त्वमनुजातोऽसिपितरम्बलवृत्ततः ।
त्वामेवैकम्महाबाहुञ्चापहस्तमरिन्दमम् ॥ 73 ॥
त्रिदशानातिवर्तन्तेजितेन्द्रियमिवाधयः ।
विक्रमस्वमहाबुद्धे कर्माणिममपश्यतः ॥ 74 ॥
वरदानापतितृव्यस्तेसहतेदेवदानवान् ।
कुम्भकर्णस्तुवीर्येणसहते च सुरासुरान् ॥ 75 ॥
ततःकुम्भस्तुसुग्रीवम्बाहुभ्याञ्जगृहेतदा ।
गजाविवाहितमदौनिश्श्वसन्तौमुहुर्मुहु 76.81 ।
अन्योन्यगात्रग्रथितौकर्षन्तावितरेतरम् ।
सधूमाम्मुखतोज्वालांविसृजन्तौपरिश्रमात् ॥ 76 ॥
महाविमर्दंसमरेमयासहतवाद्भुतम् ।
अद्यभूतानिपश्यन्तुशक्रशम्बरयोरिव ॥ 77 ॥
कृतमप्रतिमङ्कर्मदर्शितञ्चास्त्रकौशलम् ।
पातिताहरिवीराश्चत्वयावैभीमविक्रमाः ॥ 78 ॥
उपालम्भभयाच्चापिनासिवीरमयाहतः ।
कृतकर्मपरिश्रान्तोविश्रान्तःपश्यमेबलम् ॥ 79 ॥
तेनसुग्रीववाक्येनसावमानेनमानितः ।
अग्नेराज्याहुतस्येवतेजस्तस्याभ्यवर्धत ॥ 80 ॥
तयोःपादाभिघाताच्चनिमग्नाचाभवन्महि ।
व्याघूर्णिततरङ्गश्चचुक्षुभेवरुणालयः ॥ 81 ॥
ततःकुम्भंसमुत्क्षिप्यसुग्रीवोलवणाम्भसि ।
पातयामासवेगेनदर्शयन्नुदधेस्तलम् ॥ 82 ॥
ततःकुम्भनिपातेनजलराशिस्समुत्थितः ।
व्निध्यमन्दरसङ्काशोविससर्पसमन्ततः ॥ 83 ॥
ततःकुम्भस्समुत्पत्यसुग्रीवमभिपद्य च ।
आजघानोरसिक्रुद्धोवज्रवेगेनमुष्टिना ॥ 84 ॥
तस्यचचर्मच पुस्फोटबहुसुस्रावशोणितम् ।
स च मुष्टिर्महावेगःप्रतिजघ्नेऽस्थिमण्डले ॥ 85 ॥
त्दावेगेनतत्रासीत्तेजःप्रज्वलितम्महत् ।
वज्रनिष्पेषसञ्जाताज्वालामेरोर्यथागिरेः ॥ 86 ॥
स तत्राभिहतस्तेनसुग्रीवोवानरर्षभः ।
मुष्टिंसम्वर्तयामासवज्रकल्पम्महाबलः ॥ 87 ॥
अर्चिस्सहस्रविकचरविमण्डलसप्रभम् ।
स मुष्टिम्पातयामासकुम्भस्योरसिवीर्यवान् ॥ 88 ॥
स तुतेनप्रहारेणविह्वलोभृशताडितः ।
निपपाततदाकुम्भोगतार्चिरिवपावकः ॥ 89 ॥
अर्चिःसहस्रविकचं रविमण्डलसप्रभम् ।
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ 90 ॥
कुम्भस्यपततोरूपम्भग्नस्योरसिमुष्टीना ।
बभौरुद्राभिपन्नस्ययथारूपङ्गवाम्पतेः ॥ 91 ॥
तस्मिन्हतेभीमपराक्रमेणप्लवङ्गमानामृषभेणयुद्धे ।
महीसशैलासवनाचचालभयं च रक्षांस्यधिकंविवेश ॥ 92 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षट्सप्ततितमस्सर्गः ॥