श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रयोविंशत्यधिकशततमस्सर्गः ।
प्रतिप्रयातेकाकुत्स्थेमहेन्द्रःपाकशासनः ।
अब्रवीत्परमप्रीतोराघवम्प्राञ्जलिंस्थितम् ॥ 1 ॥
अमोघन्दर्शनंराम तवास्माकन्नरर्षभ ।
प्रीतियुक्ताःस्मतेनत्वम्ब्रूहियन्मनसेप्सितम् ॥ 2 ॥
एवमुक्तोमहेन्द्रेणप्रसन्नेनमहात्मना ।
सुप्रसन्नमनाहृष्टोवचनम्प्राहराघवः ॥ 3 ॥
यदिप्रीतिस्समुत्पन्नामयितेविबुधेश्वर ।
वक्ष्यामिकुरुमेसत्यंवचनंवदतांवर ॥ 4 ॥
ममहेतोःपराक्रान्तायेगतायमसादनम् ।
तेसर्वेजीवितम्प्राप्यसमुततिष्ठन्तुवानराः ॥ 5 ॥
मत्कृतेविप्रयुक्तायेपुत्रैर्दारैश्चवानराः ।
तान्प्रीतमनसःसर्वान्द्रष्टुमिच्छामिमानद ॥ 6 ॥
विक्रान्ताश्चापिशूराश्च न मृत्युङ्गणयन्ति च ।
कृतयत्नाविपन्नाश्चजीवयैनान् पुरन्दर ॥ 7 ॥
मत्प्रियेष्वभिरक्ताश्च न मृत्युङ्गणयन्तिये ।
त्वत्प्रसादात्समेयुस्तेवरमेतमहंवृणे ॥ 8 ॥
नीरुजोनिर्व्रणांश्चैवसम्पन्नबलपौरुषान् ।
गोलाङ्गूलांस्तथैवर्क्षान्न्द्रष्टुमिच्छामिमानद ॥ 9 ॥
अकालेचापिपुष्पाणिमूलानि च फलानि च ।
नद्यश्चविमलास्तत्रतिष्ठेयुर्यत्रवानराः ॥ 10 ॥
श्रुत्वातुवचनन्तस्यराघवस्यमहात्मनः ।
महेन्द्रःप्रत्युवाचेदंवचनम्प्रीतिसंयुतम् ॥ 11 ॥
महानयंवरस्तातयस्त्वयोक्तोरघूत्तम ।
वदिर्मयानोक्तपूर्वं च तस्मादेतद्भविष्यति ॥ 12 ॥
समुत्तिष्ठन्तुतेसर्वेहतायेयुधिराक्षसैः ।
ऋक्षाश्चसहगोपुच्छैर्निकृत्ताननबाहवः ॥ 13 ॥
नीरुजोनिर्व्रणाश्चैवसम्पन्नबलपौरुषाः ।
समुत्थास्यन्तिहरयस्सुप्तानिद्राक्ष्येयथा ॥ 14 ॥
सुहृद्भिर्बान्धवैश्चैवज्ञातिभिःस्वजनेन च ।
सर्वएवसमेष्यन्तिसम्युक्ताःपरयामुदा ॥ 15 ॥
अकालेपुष्पशबलाःफलवन्तश्चपादपाः ।
भविष्यन्तिमहेष्वास नद्यश्चसलिलायुताः ॥ 16 ॥
सव्रणैःप्रथमङ्गात्रैरिदानीन्निर्व्रणैस्समैः ।
ततस्समुत्थितास्सर्वेसुप्त्वेवहरियूथपाः ॥ 17 ॥
बभूवुर्वानरास्सर्वेकिन्न्वेतदितिविस्मिताः ।
काकुत्स्थम्परिपूर्णार्थन्दृष्टवासर्वेसुरोत्तमाः ॥ 18 ॥
अब्रुवन्परमप्रीतास्स्तुत्वारामंसलक्ष्मणम् ।
गच्छायोध्यामितोराजन्विसर्जय च वानरान् ॥ 19 ॥
मैथिलींसान्त्वयस्वैनामनुरक्तांयशस्विनीम् ।
भ्रारातरम्भरतम्पश्यत्वच्छोकाद्व्रतचारिणम् ॥ 20 ॥
शत्रुघ्नं च महात्मानम्मात्रूःसर्वाःपरन्तप ।
अभिषेचयचात्मानम्पौरान्गत्वाप्रहर्षय ॥ 21 ॥
एवमुक्त्वासहस्राक्षोरामंसौमित्रिणासह ।
विमानैःसूर्यसङ्काशैर्ययौहृष्टःसुरैःसह ॥ 22 ॥
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।
लक्ष्मणेनसहभ्रात्रावासमाज्ञापयत्तदा ॥ 23 ॥
ततस्तुसालक्ष्मणरामपालितामहाचमूर्हृष्टजनायशस्विनी ।
श्रियाज्वलन्तीविरराजसर्वतोनिशाप्रणीतेवहिशीतरश्मिना ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रयोविंशत्यधिकशततमस्सर्गः ॥