View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.58 अयोध्याकाण्ड - अष्टपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टपञ्चाशस्सर्गः ।

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतं पुनः ।
अथाऽजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ 1 ॥

अथ सूतो महाराजं कृताञ्जलिरुपस्थितः ।
राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ 2 ॥

वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् ।
विनिश्वसन्तं ध्यायन्तमस्वस्थ मिव कुङञरम् ॥ 3 ॥

राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ 4 ॥

क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः ।
सोऽत्यन्तसुखित स्सूत किमशिष्यति राघवः ॥ 5 ॥

दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः ।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ 6 ॥

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।
स वत्स्यति कथं रामो विजनं वन माश्रितः ॥ 7 ॥

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्या सार्धं वन मुपस्थितौ ॥ 8 ॥

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥ 9 ॥

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममाऽत्मजौ ।
वनान्तं प्रविशन्तौ तावश्विनाविवमन्दरम् ॥ 10 ॥

किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ 11 ॥

आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।
जीविष्यामहमेतेन ययातिरिव साधुषु ॥ 12 ॥

इति सूतो नरेन्द्रेण बोधित स्सज्जमानया ।
उवाच वाचा राजानं स बाष्पपरिबद्धया ॥ 13 ॥

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ 14 ॥

सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ 15 ॥

सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया ।
आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ 16 ॥

माता च मम कौसल्या कुशलं चाभिवादनम् ।
अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ 17 ॥

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत्परिपालय ॥ 18 ॥

अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु ।
अनु राजानमार्यां च कैकेयीमम्ब कारय ॥ 19 ॥

कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ 20 ॥

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।
सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ 21 ॥

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः ।
पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ 22 ॥

अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः ।
कुमार राज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ 23 ॥

अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥ 24 ॥

इत्येवं मां महराज ब्रुवन्नेव महायशाः ।
रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ 25 ॥

लक्ष्मणस्तु सुसङ्कृद्धो निश्श्वसन्वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रो विवासितः ॥ 26 ॥

राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम् ।
कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः ॥ 27 ॥

यदि प्रव्राजितो रामो लोभकारणकारितम् ।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ 28 ॥

इदं तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतु मुपलक्षये ॥ 29 ॥

असमीक्षय समारब्धं विरुद्धं बुध्दिलाघवात् ।
जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ॥ 30 ॥

अहं तावन्महाराजे पितृत्वं नोपलक्ष्ये ।
भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ 31 ॥

सर्वर्लोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।
सर्वलोकोऽनुरज्येत कथं त्वाऽनेनकर्मणा ॥ 32 ॥

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् ।
सर्वलोकं विरुध्येमं कथं राजा भविष्यसि ॥ 33 ॥

जानकी तु महाराज निश्श्वसन्ती मनस्विनी ।
भूतोपहतचित्तेव विष्ठिता विस्मृता स्मिता ॥ 34 ॥

अदृष्टपूर्वव्यसना राज्यपुत्री यशस्विनी ।
तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ 35 ॥

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ 36 ॥

तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः ।
तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशस्सर्गः ॥




Browse Related Categories: