श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षष्टितमस्सर्गः ।
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ 1 ॥
नय मां यत्र काकुत्स्थस्सीता यत्र च लक्ष्मणः ।
तान्विना क्षणमप्यत्र जीवितुं नोत्सहेह्यहम् ॥ 2 ॥
निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ 3 ॥
बाष्पवेगोपहतया स वाचा सज्जमानया ।
इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत् ॥ 4 ॥
त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा ।
व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ 5 ॥
लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने ।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ 6 ॥
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।
विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा ॥ 7 ॥
नास्या दैन्यं कृतं किञ्चित्सुसूक्ष्ममपि लक्ष्यते ।
उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ 8 ॥
नगरोपवनं गत्वा यथा स्मरमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ 9 ॥
बालेव रमते सीताऽबालचन्द्रनिभानना ।
रामा रामे ह्यधीनात्मा विजनेऽपि वने सती ॥ 10 ॥
तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।
अयोध्यापि भवेऽत्तस्या रामहीना तदा वनम् ॥ 11 ॥
परिपृच्छति वैदेही ग्रामांश्च नगराणि च ।
गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि ॥ 12 ॥
रामं हि लक्ष्मणं वापि पृष्ट्वा जानाति जानकी ।
अयोध्या क्रोशमात्रे तु विहारमिव संश्रिता ॥ 13 ॥
इदमेव स्मराम्यस्यास्सहसैवोपजल्पितम् ।
कैकेयी संश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ 14 ॥
ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपत्स्थितम् ।
ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ 15 ॥
अध्वना वातवेगेन सम्भ्रमेणाऽऽतपेन च ।
न विगच्छति वैदेह्याश्चन्द्रांशु सदृशी प्रभा ॥ 16 ॥
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।
वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ 17 ॥
अलक्तरसरक्ताभावलक्तरसवर्जितौ ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ 18 ॥
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।
इदानीमपि वैदेही तद्रागान्नयस्त भूषणा ॥ 19 ॥
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।
नाऽहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥ 20 ॥
न शोच्यास्ते न चात्मनश्शोच्यो नापि जनाधिपः ।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ 21 ॥
विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवत्स्थिताः ।
वनेरता वन्यफलाशनाः पितुश्शुभां प्रतिज्ञां परिपालयन्ति ते ॥ 22 ॥
तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।
न चैव देवी विरराम कूजितात्प्रियेति पुत्रेति च राघवेति च ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षष्टितमस्सर्गः ॥