श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ चतुर्थस्सर्गः ।
ततः प्रहृष्टौ हनुमान्कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ 1 ॥
भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ॥ 2 ॥
ततः परमसंहृष्टो हनुमान् प्लवगर्षभः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ 3 ॥
किं अर्थं त्वं वनं घोरं पम्पा कानन मण्डितम् ।
आगतः सानुजो दुर्गं नाना व्याल मृग आयुतम् ॥ 4 ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ 5 ॥
राजा दशरथो नाम द्युतिमान्धर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ 6 ॥
न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन ।
स च सर्वेषु भूतेषु पितामह इवापरः ॥ 7 ॥
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ 8 ॥
शरण्यस्सर्वभूतानां पितुर्निर्देशपारगः ।
वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ॥ 9 ॥
राजलक्षणसम्पन्नस्सम्युक्तो राजसम्पदा ।
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ॥ 10 ॥
भार्यया च महातेजास्सीतयाऽनुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ 11 ॥
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ 12 ॥
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ 13 ॥
रक्षसाऽपहृता भार्या रहिते कामरूपिणा ।
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ 14 ॥
दनुर्नाम दितेः पुत्रश्शापाद्राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवस्समर्थो वानरर्षभः ॥ 15 ॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुस्स्वर्गं भ्राजमानो गतस्सुखम् ॥ 16 ॥
एतत्ते सर्वमाख्यातं यथा तथ्येन पृच्छतः ।
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ 17 ॥
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ 18 ॥
पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रश्शरण्यश्च सुग्रीवं शरणं गतः ॥ 19 ॥
सर्वलोकस्य धर्मात्मा शरण्यश्शरणं पुरा ।
गुरुर्मे राघवस्सोऽयं सुग्रीवं शरणं गतः ॥ 20 ॥
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते ॥ 21 ॥
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानितास्सततं राज्ञा सदा दशरथेन वै ॥ 22 ॥
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु रामश्शरणमागतः ॥ 23 ॥
शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूधपः ॥ 24 ॥
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् ।
हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 25 ॥
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ 26 ॥
स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ 27 ॥
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवस्सह चास्माभि स्सीतायाः परिमार्गणे ॥ 28 ॥
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम् ॥ 29 ॥
एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ 30 ॥
कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ।
कृत्यवान्त्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ 31 ॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनुमान्मारुतात्मजः ॥ 32 ॥
ततस्स तु महाप्राज्ञो हनुमान्मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ 33 ॥
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ 34 ॥
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयात स्स शुभमतिस्सह रामलक्ष्मणाभ्याम् ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुर्थस्सर्गः ॥