श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।
धूम्राक्षन्निहतंश्रुत्वारावणोराक्षसेश्वरः ।
क्रोधेनमहताऽविष्टोनिश्श्वसन्नुरगोयथा ॥ 1 ॥
दीर्घमुष्णंविनिश्श्वस्यक्रोधेनकलुषीकृतः ।
अब्रवीद्राक्षसङ्क्रूरंवज्रदंष्ट्रम्महाबलम् ॥ 2 ॥
गच्छत्वंवीर निर्याहिराक्षसैःपरिवारितः ।
जहिदाशरथिंरामंसुग्रीवंवानरैःसह ॥ 3 ॥
तथेत्युक्त्वाद्रुततरम्मायावीराक्षसेश्वरम् ।
निर्जगामबलैस्सार्दम्बहुभिःपरिवारितः ॥ 4 ॥
नागैरश्वैःखरैरुष्ट्रैःसंयुक्तस्सुसमाहितः ।
पताकाध्वजचित्रैश्चरथैश्चसमलङ्कृतः ॥ 5 ॥
ततोविचित्रकेयूरमुकुटैश्चविभूषितः ।
तनुत्राणिचसमावृत्यसधनुर्निर्ययौद्रुतम् ॥ 6 ॥
पताकालङ्कृतन्दीप्तन्तप्तकाञ्चनभूषितम् ।
रथम्प्रदक्षिणङ्कृत्वासमारोहच्चमूपतिः ॥ 7 ॥
यष्टिभिस्तोमरैचशित्रैश्शूलैश्चमुसलैरपि ।
भिण्डिपालैश्चपाशैश्चशक्तिभिःपट्टसैरपि ॥ 8 ॥
खडगैश्चक्रैर्गदाभिश्चनिशितैश्चपरश्वधैः ।
पदातयश्चनिर्यान्तिविविधाःशस्त्रपाणयः ॥ 9 ॥
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ।
गज मदोत्कटाः शूराश्चलन्त इव पर्वता ॥ 10 ॥
तेयुद्धकुशलैरूढास्तोमराङ्कुशपाणिभिः ।
अन्येलक्षणसंयुक्ताश्शूरारूढामहाबलाः ॥ 11 ॥
तद्राक्षसबलंसर्वंविप्रस्थितमशोभत ।
प्रावृटकालेयथामेघानर्दमानास्सविद्युतः ॥ 12 ॥
निस्सृतादक्षिणद्वारादङ्गदोयत्रयूथपः ।
तेषान्निष्क्रममाणानामशुभंसमजायत ॥ 13 ॥
आकाशाद्विघनात्तीव्रादुल्काश्चाभ्यन्यपतंस्तदा ।
वमन्त्यःपावकज्वालाशशिवाघोरंववाशिरे ॥ 14 ॥
व्याहरन्तमृगाघोरारक्षसान्निधनन्तदा ।
समापतन्तोयोधास्तुप्रास्खलन् स्तत्रदारुणम् ॥ 15 ॥
एतानौत्पातिकान् दृष्टवावज्रदंष्ट्रोमहाबलः ।
धैर्यमालम्भ्यतेजस्वीनिर्जगामरणोत्सुकः ॥ 16 ॥
तांस्तुनिष्क्रमतोदृष्टवावानराजितकाशिनः ।
प्रणेदुस्सुमहानादान्पूरयांश्चदिशोदश ॥ 17 ॥
ततःप्रवृत्तन्तुमुलंहरीणांराक्षसैस्सह ।
घोराणाम्भीमरूपाणामन्योन्यवथकाङ् क्षिणाम् ॥ 18 ॥
निष्पतन्तोमहोत्साहोभिन्नदेहशिरोधराः ।
रुधिरोक्षितसर्वाङ्गान्यपतन्थरणीतले ॥ 19 ॥
केचिदन्योन्यमासाद्यशूराःपरिघपाणयः ।
चिक्षिपुर्विविधंशस्त्रंसमरेष्न्विवर्तिनः ॥ 20 ॥
द्रुमाणाञ्चशिलानाञ्चशस्त्राणाञ्चापिनिस्स्वनः ॥ 21 ॥
श्रूयतेसुमहांस्तत्रघोरोहृदयभेदसः ।
रथनेमिस्वनस्तत्रधनुषश्चापिनिस्वसत् ॥ 22 ॥
शङ्खभेरीमृदङ्गानाम्बभूवतुमुलःस्वनः ।
केचिदस्त्राणिसन्सृज्यबाहुयुद्धमकुर्वत ।
तलैश्चचरणैश्चापिमुष्टिभिश्चद्रुमैरपि ॥ 23 ॥
जानुभिश्चहताःकेचिद्भिन्नदेहाश्चराक्षसाः ।
शिलाभिश्चूर्णिताःकेचिद्वानरैर्युद्धदुर्मदैः ॥ 24 ॥
शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ।
वज्रदंष्ट्रो भृशं बानै रणे वित्रासयन् हरीन् ॥ 25 ॥
बलवन्तोऽस्त्रविदुषोनानाप्रहरणारणे ।
जघ्नुर्वानरसैन्यानिराक्षसाःक्रोधमूर्छिताः ॥ 26 ॥
जघ्नर्वानरसैन्यानि राक्षसाः क्रोधमूर्चिताः ।
जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतो रणे ॥ 27 ॥
तान् राक्षसगणान्सर्वान्वृक्षमुद्यम्यवीर्यवान् ।
अङ्गदःक्रोधताम्राक्षःसिंहःक्षुद्रमृगानिव ॥ 28 ॥
कारकदनङ्घोरंशक्रतुल्यपराक्रमः ॥ 29 ॥
अङ्गदाभिहतास्तत्रराक्षसाभीमविक्रमाः ।
विभिन्नशिरसःपेतुर्विकृताइवपादपाः ॥ 30 ॥
रथैरश्वैर्ध्वजैश्चित्रैश्शरैर्हरिरक्षसाम् ।
रुधिरेणसञ्छन्नाभूमिर्भयकरातदा ॥ 31 ॥
हारकेयूरवस्स्रैश्चशत्रैश्चसमलङ्कृता ।
भूमिर्भातिरणेतत्रशारदीवयथानिशा ॥ 32 ॥
अङ्गदस्यचवेगेनतद्राक्षसबलम्महत् ।
प्राकम्पततदातत्रपवनेनाम्बुदोयथा ॥ 33 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशस्सर्गः ॥