View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.78 अयोध्याकाण्ड - अष्टसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टसप्ततितमस्सर्गः ।

अथ यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः ।
भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ॥ 1 ॥

गतिर्य स्सर्वभूतानां दुःखे किं पुनरात्मनः ।
स राम स्सत्त्वसम्पन्नः स्त्रिया प्रव्राजितो वनम् ॥ 2 ॥

बलवान्वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ ।
किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम् ॥ 3 ॥

पूर्वमेव तु निग्राह्य स्समवेक्ष्य नयानयौ ।
उत्पथं यस्समारूढो राजा नार्या वशं गतः ॥ 4 ॥

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।
प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ 5 ॥

लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती ।
विविधं विविधै स्तैस्तैर्भूषणैश्च विभूषिता ॥ 6 ॥

मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः ।
बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ॥ 7 ॥

तां समीक्ष्य तदा द्वास्स्थास्सुभृशं पापकारिणीम् ।
गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन् ॥ 8 ॥

यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता ।
सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ 9 ॥

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ।
अन्तःपुरचरान्सर्वानित्युवाच धृत व्रतः ॥ 10 ॥

तीव्रमुत्पादितं दुःखं भ्रात्रूणां मे तथा पितुः ।
यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ 11 ॥

एवमुक्त्वा तु तेनाशु सखीजनसमावृता ।
गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् ॥ 12 ॥

तत स्सुभृशसन्तप्तस्तस्या स्सर्व स्सखीजनः ।
क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः ॥ 13 ॥

आमन्त्रयत कृत्स्न श्च तस्या स्सर्व स्सखीजनः ।
यथाऽयं समुपक्रान्तो निश्शेषां नः करिष्यति ॥ 14 ॥

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।
कौसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः ॥ 15 ॥

स च रोषेण ताम्राक्ष श्शत्रुघ्न श्शत्रुतापनः ।
विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ॥ 16 ॥

तस्या ह्याकृष्यमाणाया मन्थराया स्ततस्ततः ।
चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ 17 ॥

तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् ।
अशोभत तदा भूयः शारदं गगनं यथा ॥ 18 ॥

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ।
कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ 19 ॥

तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।
शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता ॥ 20 ॥

तं प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।
अवध्या स्सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ 21 ॥

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।
यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ॥ 22 ॥

इमामपि हतां कुब्जां यदि जानाति राघवः ।
त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ 23 ॥

भरतस्य वचश्श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ।
न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् ॥ 24 ॥

सा पादमूले कैकेय्या मन्थरा निपपात ह ।
निश्श्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥ 25 ॥

शत्रुघ्नविक्षेपविमूढसञ्ज्ञां समीक्ष्य कुब्जां भरतस्य माता ।
शनैस्समाश्वासयदार्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टसप्ततितमस्सर्गः ॥




Browse Related Categories: