View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.58 बालकाण्ड - अष्टपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ अष्टपञ्चाशस्सर्गः ।

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ 1 ॥

प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना ।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ 2 ॥

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ 3 ॥

अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताःकथं तव ॥ 4 ॥

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवाञ्छक्तस्त्रैलोक्यस्यापि पार्थिव ॥ 5 ॥

अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम् ।
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ 6 ॥

स राजा पुनरेवैतानिदं वचनमब्रवीत् ।
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ॥ 7 ॥

अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ 8 ॥

शेपुः परमसङ्कृद्धाश्चण्डालत्वं गमिष्यसि ।
एवमुक्त्वा महात्मनो विविशुस्ते स्वमाश्रमम् ॥ 9 ॥

अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।
नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः ॥ 10 ॥

चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ।
तं दृष्टवा मन्त्रिणस्सर्वे त्यज्य चण्डालरूपिणम् ॥ 11 ॥

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः ।
एको हि राजा काकुत्स्थ जगाम परमात्मवान् ॥ 12 ॥

दह्यमानो दिवारात्रं विश्वामित्रं तपोनिधिम् ।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ 13 ॥

कारुण्यात्स महातेजा वाक्यं परमधार्मिकः ।
इदं जगाद भद्रं ते राजानं घोररूपिणम् ॥ 14 ॥

किमागमनकार्यं ते राजपुत्र महाबल ।
अयोध्याधिपते वीर शापाच्चण्डालतां गतः ॥ 15 ॥

अथ तद्वाक्यमाज्ञाय राजा चण्डालतां गतः ।
अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ 16 ॥

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ 17 ॥

सशरीरो दिवं यायामिति मे सौम्यदर्शनम् ।
मया चेष्टं क्रतुशतं तच्च नाऽवाप्यते फलम् ॥ 18 ॥

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
कृच्छ्रेष्वपि गत स्सौम्य क्षत्रधर्मेण ते शपे ॥ 19 ॥

यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ॥ 20 ॥

गुरवश्च महात्मान श्शीलवृत्तेन तोषिताः ।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ॥ 21 ॥

परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ 22 ॥

दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ।
तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ॥ 23 ॥

कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ।
नान्यां गतिं गमिष्यामि नान्यश्शरणमस्ति मे ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे अष्टपञ्चाशस्सर्गः ॥




Browse Related Categories: