View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.76 अयोध्याकाण्ड - षट्सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षट्सप्ततितमस्सर्गः ।

तमेवं शोकसन्तप्तं भरतं कैकयी सुतम् ।
उवाच वदतां श्रेष्ठो वसिष्ठ श्श्रेष्ठवागृषिः ॥ 1 ॥

अलं शोकेन भद्रं ते राजपुत्र महायशः ।
प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ 2 ॥

वसिष्ठस्य वच श्शृत्वा भरतो धारणां गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ 3 ॥

उद्धृतं तैलसंरोधात्सतु भूमौ निवेशितम् ।
आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् ॥ 4 ॥

संवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते ।
ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ 5 ॥

किं ते व्यवसितं राजन् प्रोषिते मय्यनागते ।
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ 6 ॥

क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ 7 ॥

योगक्षेमं तु ते राजन् कोऽस्मिन्कल्पयिता पुरे त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ 8 ॥

विधवा पृथिवी राजन् स्त्वया हीना न राजते ।
हीनचन्द्रेव रजनी नगरी प्रतिभाति मा ॥ 9 ॥

एवं विलपमानं तं भरतं दीनमानसम् ।
अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ 10 ॥

प्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः ।
तान्यव्यग्रं महाबाहो क्रियान्तामविचारितम् ॥ 11 ॥

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।
ऋत्विक्पुरोहिताचार्यान् स्त्वरयामास सर्वशः ॥ 12 ॥

ये त्वग्नयो नरेन्द्रेस्य चाग्न्यगाराद्बहिष्कृताः ।
ऋत्विग्भिर्याजकैश्चैव ते आह्रियन्त यथाविधि ॥ 13 ॥

शिबिकायामथाऽरोप्य राजानं गतचेतसम् ।
बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ 14 ॥

हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥ 15 ॥

चन्दनागरुनिर्यासान् सरलं पद्मकं तथा ।
देवदारूणि चाहृत्य क्षेपयन्ति तथापरे ॥ 16 ॥

गन्धानुच्चावचांश्चान्यां स्तत्र गत्वाथ भूमिपम् ।
तत्र संवेशयामासुश्चितामध्ये तमृत्विजः ॥ 17 ॥

तदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः ।
जगुश्च ते यथाशास्त्र तत्र सामानि सामगाः ॥ 18 ॥

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः ।
नगरा न्निर्ययुस्तत्र वृद्धैः परिवृता स्तदा ॥ 19 ॥

प्रसव्यं चापि तं चकुः ऋत्विजोऽग्निचितं नृपम् ।
स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ 20 ॥

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ 21 ॥

ततो रुदन्त्यो विवशाविलप्य च पुनः पुनः ।
यानेभ्यस्सरयूतीरमवतेरुर्वराङ्गनाः ॥ 22 ॥

कृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिता श्च ।
पुरम्प्रविश्याश्रुपरीतनेत्राः भूमौ दशाहं व्यनयन्त दुःखम् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षट्सप्ततितमस्सर्गः ॥




Browse Related Categories: