View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.85 युद्धकाण्ड - पञ्चाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चाशीतितमस्सर्गः ।

त्तस्यतद्वचनंश्रुत्वाराघवश्शोककर्शितः ।
नोपधारयतेव्यक्तंयदुक्तन्तेनरक्षसा ॥ 1 ॥

ततोधैर्यमवष्टभ्यरामःपरपुरञ्जयः ।
विभीषणमुपासीनमुवाचकपिसन्निधौ ॥ 2 ॥

नैरृताधिपतेवाक्यंयदुक्तन्तेविभीषण ।
भूयस्तच्छ्रोतुमिच्छामिब्रूहियत्तेविवक्षितम् ॥ 3 ॥

राघवस्यवचःश्रुत्वावाक्यंवाक्यविशारद. ।
यत्तत्पुनरिदंवाक्यम्बभाषे स विभीषणः ॥ 4 ॥

यथाज्ञप्तम्महाबाहोत्वयागुल्मनिवेशनम् ।
तत्तथाऽनुष्ठितंवीरत्वद्वाक्यसमनन्तरम् ॥ 5 ॥

तान्यनीकानिसर्वाणिविभग्नानिसमन्ततः ।
विन्यस्तायूथपाश्चैवयथान्यायंविभागशः ॥ 6 ॥

भूयस्तुममविज्ञाप्यन्तच्छ्रुणुष्वमहायशः ।
त्वय्यकारणसन्तप्तेसन्तप्तहृदयावयम् ॥ 7 ॥

त्यजराजन्निमंशोकम्मिथ्यासन्तापमागतम् ।
तदियन्त्यज्यताञ्चिन्ताशत्रुहर्षविवर्धिनी ॥ 8 ॥

उद्यमःक्रियतांवीरहर्षःसमुपसेव्यताम् ।
प्राप्तव्यायदितेसीताहन्तव्याश्चनिशाचराः ॥ 9 ॥

रघुनन्दनवक्ष्यामिश्रूयताम्मेहितंवचः ।
साध्वयंयातुसौमित्रिर्बलेनमहतावृतः ॥ 10 ॥

निकुम्भिलायांसम्प्राप्यहन्तुंरावणिमाहवे ।
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ 11 ॥

तेनवीरेणतपसावरदानात्स्वयम्भुवः ।
अस्त्रम्ब्रह्मशिरःप्राप्तङ्कामगाश्चतुरङ्गमाः ॥ 12 ॥

स एषसहसैन्येनप्राप्तःकिलनिकुम्भिलाम् ।
यद्युततिष्ठेत्कृतङ्कर्महतान्सर्वांश्चविद्धिनः ॥ 13 ॥

निकुम्भिलामसम्प्राप्तमहुताग्निं च योरिपुः ।
त्वामातायिनंहन्यादिन्द्रशत्रोस्सतेवधः ॥ 14 ॥

वरोदत्तोमहाबाहो सर्वलोकेश्वरेणवै ।
इत्येवंविहितोराजन्वधस्तस्यैषधीमतः ॥ 15 ॥

वधायेन्द्रजितोरामसन्दिशस्वमहाबल ।
हतेतस्मिन्हतंविद्धिरावणंससुहृज्जनम् ॥ 16 ॥

विभीषणवच्श्रुत्वारामोवाक्यमथाब्रवीत् ।
जानामितस्यरौद्रस्यमायांसत्यपराक्रमः ॥ 17 ॥

स हिब्रह्मास्त्रवित्प्राज्ञोमहामायोमहाबल. ।
करोत्यसञ्ज्ञान् सङ्ग्रामेदेवान्सवरुणानपि ॥ 18 ॥

तस्यान्तरिक्षेचरतःसरथस्यमहायशः ।
न गतिर्ज्ञायतेवीरसूर्यस्येवाभ्रसम्ल्पवे ॥ 19 ॥

राघवस्तुरिपोर्ज्ञात्वामायावीर्यन्दुरात्मनः ।
लक्ष्मणङ्कीर्तिसम्पन्नमिदंवचनमब्रवीत् ॥ 20 ॥

यद्वानरेन्द्रस्यबलन्तेनसर्वेणसम्वृतः ।
हनूमत्प्रमुखैश्चवयूथपैस्सहलक्ष्मण ॥ 21 ॥

जाम्बवेनार्क्षपतिनासहसैन्येनसम्वृतः ।
जहितंराक्षससुतम्मायाबलविशारदम् ॥ 22 ॥

अयन्त्वांसचिवैःसार्थम्महात्मारजनीचरः ।
अभिज्ञस्तस्यमायानाम्पृष्ठतोऽनुगमिष्यति ॥ 23 ॥

राघवस्यवच्श्रुत्वालक्ष्मणस्सविभीषणः ।
जग्राहकार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ 24 ॥

सन्नद्धःकवचीखङ्गीसशरोवामचापभृत् ।
रामपादावुपस्पृश्यहृष्टःसौमित्रिरब्रवीत् ॥ 25 ॥

अद्यमत्कार्मुकोन्मुक्ताश्शरानिर्भिद्यरावणिम् ।
लङ्कामभितिष्यन्तिहंसाःपुष्करिणीमिव ॥ 26 ॥

अद्यैवतस्यरौद्रस्यशरीरम्मामकाश्शराः ।
विधमिष्यन्तिभित्त्वातम्महाचापगुणच्युताः ॥ 27 ॥

एवमुक्त्वा स द्युतिमान् वचनम्भ्रातुरग्रतः ।
स रावणिवधाकाङ्क्षीलक्ष्मणस्त्वरितोययौ ॥ 28 ॥

सोऽभिवाद्यगुरोःपादौकृत्वाचापिप्रदक्षिणम् ।
निकुम्भिलामभिययौचैत्यंरावणिपालितम् ॥ 29 ॥

विभीषणेनसहितोराजपुत्रःप्रतापवान् ।
कृतस्वस्त्ययनोभ्रात्रालक्ष्मणस्त्वरितोययौ ॥ 30 ॥

वानराणांसहस्रैस्तुहनूमान् बहुभिर्वृतः ।
विभीषणश्चसामात्योतदालक्ष्मणमन्वगात् ॥ 31 ॥

महताहरिसैन्येनसवेगमभिसंवृतः ।
ऋक्षराजबलञ्चैवददर्शपथिविष्ठितम् ॥ 32 ॥

स गत्वादूरमध्वानंसौमित्रिर्मित्रनन्दनः ।
राक्षसेन्द्रबलन्दूरादपश्यद्व्यूहमाश्रितम् ॥ 33 ॥

स तम्प्राप्यधनुष्पाणिर्मायायोगमरिन्दमः ।
तस्थौब्रह्मविधानेनविजेतुंरघुनन्दनः ॥ 34 ॥

भीषणेनसहितोराजपुत्रःप्रतापवान् ।
अङ्गदेन च वीरेणतथानिलसुतेन च ॥ 35 ॥

विविधममलशस्त्रभास्वरं त द्ध्वजगहनंविपुलम्महारथैश्च ।
प्रतिभयतममप्रमेयवेगन्तिमिरमिवद्विषताम्बलंविवेश ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमस्सर्गः ॥




Browse Related Categories: