श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।
स गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ 1 ॥
भस्मन्यथाऽप्लुते राम गङ्गायास्सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ 2 ॥
तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्ठिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ 3 ॥
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव ।
सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत् ॥ 4 ॥
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्नाऽथ लोके स्थास्यति विश्रुता ॥ 5 ॥
गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च ।
त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ॥ 6 ॥
पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ 7 ॥
पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ 8 ॥
तथैवांशुमता तात लोकेऽप्रतिमतेजसा ।
गङ्गां प्रार्थयतानेतुं प्रतिज्ञा नापवर्जिता ॥ 9 ॥
राजर्षिणा गुणवता महर्षिसमतेजसा ।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ 10 ॥
दिलीपेन महाभाग तव पित्राऽति तेजसा ।
पुनर्न शङ्किताऽनेतुं गङ्गां प्रार्थयताऽनघ ॥ 11 ॥
सा त्वया समनुक्रान्ता प्रतिज्ञा पुरुषर्षभ ।
प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥ 12 ॥
यच्च गङ्गावतरणं त्वया कृतमरिन्दम ।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ 13 ॥
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥ 14 ॥
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ 15 ॥
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।
यथाऽऽगतं तथाऽगच्छत् देवलोकं महायशाः ॥ 16 ॥
भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
यथाक्रमं यथान्यायं सागराणां महायशाः ॥ 17 ॥
कृतोदकश्शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास ह ॥ 18 ॥
प्रमुमोद ह लोकस्तं नृपमासाद्य राघव ।
नष्टशोकस्समृद्धार्थो बभूव विगतज्वरः ॥ 19 ॥
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते ॥ 20 ॥
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमतीव च ।
यश्श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥ 21 ॥
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।
इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ॥ 22 ॥
यश्शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशस्सर्गः ॥