View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.21 बालकाण्ड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ एकविंशस्सर्गः ।

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ 1 ॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ 2 ॥

यदीदं ते क्षमं राजन् गमिष्यामि यथाऽगतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखीभव सबान्धवः ॥ 3 ॥

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥ 4 ॥

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ 5 ॥

इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापरः ।
धृतिमान् सुव्रतः श्रीमान्नधर्मं हातुमर्हसि ॥ 6 ॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ 7 ॥

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव ।
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ॥ 8 ॥

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ 9 ॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष बुध्याऽधिको लोके तपसश्च परायणम् ॥ 10 ॥

एषोऽस्त्रान् विविधान्वेत्ति त्रैलोक्ये सचराचरे ।
नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति केचन ॥ 11 ॥

न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।
गन्धर्वयक्षप्रवरास्सकिन्नरमहोरगाः ॥ 12 ॥

सर्वास्त्राणि भृशाश्वस्य पुत्राः परमधार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ 13 ॥

तेऽपि पुत्रा भृशाश्वस्य प्रजापतिसुतासुताः ।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ 14 ॥

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ 15 ॥

पञ्चाशतं सुतान् लेभे जया नाम परान् पुरा ।
वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ 16 ॥

सुप्रभाऽजनयच्चापि पुत्रान्पञ्चाशतं पुनः ।
संहारान्नामदुर्धर्षान् दुराक्रामान् बलीयसः ॥ 17 ॥

तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः ।
अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ 18 ॥

एवं वीर्यो महातेजा विश्वामित्रो महायशाः ।
न रामगमने राजन् संशयं कर्तुमर्हसि ॥ 19 ॥

तेषां निग्रहणे शक्तस्स्वयं च कुशिकात्मजः ।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ 20 ॥

इति मुनिवचनात्प्रसन्नचित्तो रघुवृषभस्तु मुमोद भास्वराङ्गः ।
गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुध्या ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकविंशस्सर्गः ॥




Browse Related Categories: