श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकोनत्रिंशस्सर्गः ।
खरं तु विरथं रामो गदापाणिमवस्थितम् ।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ 1 ॥
गजाश्वरथसम्बाधे बले महति तिष्ठता ।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ 2 ॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ 3 ॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ 4 ॥
लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।
भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ 5 ॥
वसतो दण्डकारण्ये तापसान्धर्मचारिणः ।
किन्नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस ॥ 6 ॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ 7 ॥
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः ।
घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥ 8 ॥
नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ 9 ॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।
अहमासादितो राजा प्राणान्हन्तुं निशाचर ॥ 10 ॥
अद्य हि त्वां मया मुक्ताश्शराः काञ्चनभूषणाः ।
विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ 11 ॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।
तानद्य निहतस्सङ्ख्ये ससैन्योऽनुगमिष्यसि ॥ 12 ॥
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः ।
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ 13 ॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ।
अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ 14 ॥
एवमुक्तस्तु रामेण कृद्धस्संरक्तलोचनः ।
प्रत्युवाच खरो रामं प्रहसन्क्रोधमूर्छितः ॥ 15 ॥
प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज ।
आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ 16 ॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।
कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः ॥ 17 ॥
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ।
निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ 18 ॥
कुलं व्यपदिशन्वीरस्समरे कोऽभिधास्यति ।
मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ 19 ॥
सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ।
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ 20 ॥
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ।
धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥ 21 ॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव ।
त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ 22 ॥
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ।
अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ॥ 23 ॥
चतुर्दश सहस्राणि राक्षसानां हतानि ते ।
त्वद्विनाशात्करोम्येषां तेषामश्रुप्रमार्जनम् ॥ 24 ॥
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः ।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ 25 ॥
खरबाहुप्रयुक्ता सा प्रदीप्ता महती गदा ।
भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ॥ 26 ॥
तामापतन्तीं ज्वलतां मृत्युपाशोपमां गदाम् ।
अन्तरिक्षगतां रामचशिच्छेद बहुधा शरैः ॥ 27 ॥
सा विकीर्णा शरैर्भग्ना पपात धरणीतले ।
गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकोनत्रिंशस्सर्गः ॥