श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ त्रिंशस्सर्गः ।
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ 1 ॥
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम ।
शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥ 2 ॥
एषा बाणविनिर्भिन्ना गदा भूमितलं गता ।
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ॥ 3 ॥
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् ।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ 4 ॥
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ।
प्राणानहं हरिष्यामि गरुत्मानमृतं यथा ॥ 5 ॥
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम् ।
विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ 6 ॥
पांसुरूषितसर्वाङ्गस्स्रस्तन्यस्त भुजद्वयः ।
स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव ॥ 7 ॥
प्रबद्धनिद्रे शयिते त्वयि राक्षसपांसने ।
भविष्यन्तिशरण्यानां शरण्या दण्डका इमे ॥ 8 ॥
जनस्थाने हतस्थाने तव राक्षस मच्छरैः ।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ 9 ॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः ।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ 10 ॥
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः ।
अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ 11 ॥
नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक ।
यत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः ॥ 12 ॥
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ।
खरो निर्भर्त्सयामास रोषात्खरतरस्वरः ॥ 13 ॥
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः ।
वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥ 14 ॥
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ।
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ 15 ॥
एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः ।
स ददर्श महासालमविदूरे निशाचरः ॥ 16 ॥
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ।
स तमुत्पाटयामास सन्दश्य दशनच्छदम् ॥ 17 ॥
तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ।
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ 18 ॥
तमापतन्तं बाणौघैच्छित्वा रामः प्रतापवान् ।
रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ 19 ॥
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः ।
निर्भिभेद सहस्रेण बाणानां समरे खरम् ॥ 20 ॥
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ।
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥ 21 ॥
विह्वलस्सकृतो बाणैः खरो रामेण संयुगे ।
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ॥ 22 ॥
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् ।
अपासर्पत्प्रतिपदं किञ्चित्वरितविक्रमः ॥ 23 ॥
ततः पावकसङ्काशं वधाय समरे शरम् ।
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ 24 ॥
स तं दत्तं मघवता सुरराजेन धीमता ।
सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ 25 ॥
स विमुक्तो महाबाणो निर्घातसमनिस्वनः ।
रामेण धनुरायम्य खरस्योरसिचापतत् ॥ 26 ॥
स पपात खरो भूमौ दह्यमानश्शरानग्निना ।
रुद्रेणेव विनिर्दग्धश्वेतारण्ये यथान्तकः ॥ 27 ॥
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ।
बलो वेन्द्राशनिहतो निपपात हतः खरः ॥ 28 ॥
ततो राजर्षयस्सर्वे सङ्गताः परमर्षयः ।
सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ 29 ॥
एतदर्थं महातेजा महेन्द्रः पाकशासनः ।
शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ॥ 30 ॥
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ।
एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ 31 ॥
तदिदं नः कृतं कार्यं त्वया दशरथात्मज ।
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥ 32 ॥
एतस्मिन्तरे देवाश्चारणैस्सह सङ्गताः ।
दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः ॥ 33 ॥
रामस्योपरि संह्रुष्टा ववृषुर्विस्मितास्तदा ।
अर्धाधिकमुहूर्तेन रामेण निशितैश्शरैः ॥ 34 ॥
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।
खरदूषणमुख्यानां निहतानि महाहवे ॥ 35 ॥
अहो बत महत्कर्म रामस्य विदितात्मनः ।
अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते ॥ 36 ॥
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ।
तस्मिन्नन्तरे वीरो लक्ष्मणस्सह सीतया ।
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ 37 ॥
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥ 38 ॥
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ 39 ॥
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान्हतान् ।
रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥ 40 ॥
ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः ।
पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रिंशस्सर्गः ॥