View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.61 अरण्यकाण्ड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकषष्टितमस्सर्गः ।

दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः ।
रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ 1 ॥

अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः ।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ 2 ॥

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ 3 ॥

वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि ।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ 4 ॥

यैस्सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।
एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ॥ 5 ॥

सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण ।
मृतं शोकेन महता सीताहरणजेन माम् ॥ 6 ॥

परलोके महाराजो नूनं द्रक्ष्यति मे पिता ।
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥ 7 ॥

अपूरयित्वा तं कालं मत्सकाशमिहागतः ।
कामवृत्तमनार्यं मां मृषावादिनमेव च ॥ 8 ॥

धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ।
विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् ॥ 9 ॥

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ।
क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे ॥ 10 ॥

त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ।
इतीव विलपन्रामस्सीतादर्शनलालसः ॥ 11 ॥

न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ।
अनासादयमानं तं सीतां दशरथात्मजम् ॥ 12 ॥

पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ 13 ॥

मा विषादं महाबाहो कुरु यत्नं मया सह ।
इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ 14 ॥

प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली ।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ 15 ॥

सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् ।
स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥ 16 ॥

वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ।
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ 17 ॥

तस्याह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे ।
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ॥ 18 ॥

मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ।
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ॥ 19 ॥

सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।
तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥ 20 ॥

निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ।
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥ 21 ॥

निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ।
विचित्य सर्वतश्शैलं रामो लक्ष्मणमब्रवित् ॥ 22 ॥

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ।
ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् ॥ 23 ॥

विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसम् ।
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥ 24 ॥

यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ।
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः ॥ 25 ॥

उवाच दीनया वाचा दुःखाभिहतचेतनः ।
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ 26 ॥

गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ।
न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ 27 ॥

एवं स विलपन्रामस्सीताहरणकर्शितः ।
दीनश्शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥ 28 ॥

सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः ।
निषसादातुरो दीनो निश्श्वस्याशीतमायतम् ॥ 29 ॥

बहुलं स तु निश्श्वस्य रामो राजीवलोचनः ।
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ 30 ॥

तं ततस्सान्त्वयामास लक्ष्मणः प्रियबान्धवः ।
बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ॥ 31 ॥

अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम् ।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकषष्टितमस्सर्गः ॥




Browse Related Categories: