श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्ताशीतितमस्सर्गः ।
एवमुक्त्वातुसौमित्रिञ्जातहर्षोविभीषणः ।
धनुष्पाणिन्नमादायत्वरमाणोजगामसः ॥ 1 ॥
अविदूरन्ततोगत्वाप्रविश्यतुमहद्वनम् ।
दर्शमामासतत्कर्मलक्ष्मणातविभीषणः ॥ 2 ॥
नीलजीमूतसङ्काशन्न्यग्रोधम्भीमदर्शनम् ।
तेजस्वीरावणभ्रातालक्ष्मणायन्यवेदयत् ॥ 3 ॥
इहोपहारम्भूतानाम्बलवान्रावणात्मजः ।
उपहृत्यततःपश्चात्सङ्ग्राममभिवर्तते ॥ 4 ॥
अदृश्टस्सर्वभूतानान्ततोभवतिराक्षसः ।
निहन्तिसमरेशत्रून् बध्नाति च शरोत्तमैः ॥ 5 ॥
तमप्रविष्टन्न्यग्रोधम्बलिनंरावणात्मजम् ।
विध्वंसयशरैर्दीप्टैः सरथंसाश्वसारथिम् ॥ 6 ॥
तथेत्युक्त्वामहातेजास्सौमित्रिर्मित्रनन्दनः ।
बभूवावस्थितस्तत्रचित्रंविस्फारयन्? धनुः ॥ 7 ॥
स रथेनाग्निवर्णेनबलवान्रावणात्मजः ।
इन्द्रजित्कवचीखङ्गीसध्वजःप्रत्यदृश्यत ॥ 8 ॥
तमुवाचमहातेजाःपौलस्त्यमपराजितम् ।
समह्वयेत्वांसमरेसम्यग्युद्धम्प्रयच्छमे ॥ 9 ॥
एवमुक्तोमहातेजामनस्वीरावणात्मजः ।
अब्रवीत्परुषंवाक्यन्तत्रदृष्टवाविभीषणम् ॥ 10 ॥
इहत्वञ्जातसम्वृद्धःसाक्षाद्भ्रातापितुर्मम ।
कथन्द्रुह्यसिपुत्रस्यपितृव्योममराक्षस ॥ 11 ॥
न ज्ञातित्वं न सौहार्धं न जातिस्तवदुर्मते ।
प्रमाणं न च सौदर्यं न धर्मोधर्मदूषण ॥ 12 ॥
शोच्यस्त्वमसिदुर्बुद्धेनिन्दनीयश्चसाधुभिः ।
यस्त्वंस्वजनमुत्सृज्यपरभृत्यत्वमागतः ॥ 13 ॥
नैतछचिथिलयाबुद्ध्यात्वंवेसतिमहदन्तरम् ।
क्व च स्वजनसम्वासःक्व च नीचपराश्रयः ॥ 14 ॥
गुणवान्वापरजनःस्वजनोनिर्गुणोऽपिवा ।
निर्गुणःस्वजनःश्रेयान् यःपरःपरएवसः ॥ 15 ॥
यसस्स्वपक्षम्परित्यज्यपरपक्षन्निषेवते ।
स स्वपक्षेक्ष्यम्प्राप्तेपश्चास्त्तैरेवहन्यते ॥ 16 ॥
निरनुक्रोशताचेयंयादृशीतेनिशाचर ।
स्वजनेनत्वयाशक्यम्पौरुषंरावणानुज ॥ 17 ॥
इत्युक्तोभ्रातृपुत्रेणप्रत्युवाचविभीषणः ।
अजानन्निवमछचीलङ्किंराक्षसविकत्थसे ॥ 18 ॥
राक्षसेन्द्रसुतासाधोपारुष्यन्त्यजगौरवात् ।
कुलेयद्यप्यहञ्जातोरक्षसाङ्क्रूरकर्मणाम् ॥ 19 ॥
गुणोयःप्रथमोनृणन्तन्मेशीलमराक्षसम् ।
न रमेदारुणेनाहं न चाधर्मेणवैरमे ॥ 20 ॥
भ्रात्राविषशीलोऽपिकथम्भ्रातानिरस्यते ।
धर्मात्प्रच्युतशीलंहिपुरुषम्पापनिश्चयम् ॥ 21 ॥
त्यक्त्वासुखमवाप्नोतिहस्तादाशीविषंयथा ।
परस्वहरणेयुक्तम्परदाराभिमर्शकम् ॥ 22 ॥
त्याज्यमाहुर्दुरात्मानंवेश्मप्रज्वलितंयथा ।
परस्वानां च हरणम्परदाराभिमर्शनम् ॥ 23 ॥
सुहृदामतिशङ्का च त्रयोदोषाःक्षयावहाः ।
महर्षीणांवधोघोरस्सर्वदेवैश्चविग्रहः ॥ 24 ॥
अभिमानश्चदोषश्चवैरित्वम्प्रतिकूलता ।
एतेदोषाममभ्रातुर्जीवितैश्वर्यनाशनाः ॥ 25 ॥
गुणान्प्रच्छादयामासुःपर्वतानिवतोयदाः ।
दोषैरेतैःपरित्यक्तोमयाभ्रातापितातव ॥ 26 ॥
नेयमस्तिपुरीलङ्का न च त्वं न च तेपिता ।
अतिमाननी च बालश्चदुर्विनीतश्चराक्षस ।
बद्धस्त्वङ्कालपाशेनब्रूहिमांयद्यदिच्छसि ॥ 27 ॥
अद्यतेव्यसनम्प्राप्तङ्किम्मान्त्वामिहवक्ष्यसि ।
प्रवेष्टुं न त्वयाशक्यन्न्यग्रोधंराक्षसाधम ॥ 28 ॥
धर्षयित्वा च काकुत्स्थं न शक्यञ्जीवितुन्त्वया ।
युध्यस्वनरदेवेनलक्ष्मणेनरणेसह ॥ 29 ॥
हतस्त्वन्देवताकार्यङ्करिष्यसियमक्षये ।
निदर्शयित्वात्मबलंसमुद्यतङ्कुरुष्वसर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्यहिबाणगोचरन्त्वमद्यजीवन् सबलोगमिष्यसि ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्ताशीतितमस्सर्गः ॥