श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुर्दशाधिकशततमस्सर्गः ।
तासांविलपमानानान्तदाराक्षसयोषिताम् ।
ज्येष्ठापत्नीप्रियाजीनाभर्तारंसमुदैक्षत ॥ 1 ॥
दशग्रीवंहतन्दृष्टवारामेणाचिन्त्यकर्मणा ।
पतिम्मण्डोदरीतत्रकृपणापर्यदेवयत् ॥ 2 ॥
ननुनाममहाबाहोतववैश्रवणानुज ।
क्रुद्धस्यप्रमुखेस्थातुन्त्रस्यत्यपिपुरन्दरः ॥ 3 ॥
ऋषयश्चमहान्तोऽपिगन्धर्वाश्चयशस्विनः ।
ननुनामतवोद्वेगाच्चारणाश्चदिशोगताः ॥ 4 ॥
स त्वम्मानुषमात्रेणरामेणयुधिनिर्जितः ।
न व्यपत्रपसेराजन् किमिदंराक्षसेश्वर ॥ 5 ॥
कथन्त्रैलोक्यमाक्रम्यश्रियावीर्येणचान्वितम् ।
अविषह्यञ्जघानत्वाम्मानुषोवनगोचरः ॥ 6 ॥
मानुषाणामविषयेचरतःकामरूपिणः ।
विनाशस्तवरामेणसम्युगेनोपपद्यते ॥ 7 ॥
न चैतत्कर्मरामस्यश्रद्धधामिचमूमुखे ।
सर्वतस्समुपेतस्यतवतेनाभिमर्षणम् ॥ 8 ॥
यदैव च जनस्थानेराक्षसैर्भहुनिर्ववृतः ।
खरस्तवहतोभ्रातातदैवासौ न मानुषः ॥ 9 ॥
यदैवनगरींलङ्कान्दुष्प्रवेशांसुरैरपि ।
प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम् ॥ 10 ॥
यदैववानरैर्घोरैर्बद्धस्सेतुर्महार्णवे ।
तदैवहृदयेनाहंशङ्केरामममानुषम् ॥ 11 ॥
अथवारामरूपेणकृतान्तस्स्वयमागतः ।
मायान्तवविनाशायविधायाप्रतितर्किताम् ॥ 12 ॥
अथवावासवेनत्वन्धर्षितोऽपिमहाबल ।
वासवस्यतुकाशक्तिस्त्वान्द्रष्टुमपिसंयुगे ॥ 13 ॥
व्यक्तमेषमहायोगीपरमात्मासनातनः ।
अनादिमध्यनिधनोमहतम्परमोमहान् ॥ 14 ॥
तमसःपरमोधाताशङ्खचक्रगदाधरः ।
श्रीवत्सवक्षानित्यश्रीरजय्यश्शाश्वतोध्रुवः ॥ 15 ॥
मानुषंरूपमास्थायविष्णुस्सत्यपराक्रमः ।
सर्वैःपरिवृतोदेवैर्वानरत्वमुपागतैः ॥ 16 ॥
सर्वलोकेश्वर्श्रीमान्लोकानांहितकाम्यया ।
सराक्षसरपरीवारंहतवांस्त्वाम्महाद्युतिः ॥ 17 ॥
इन्द्रियाणिपुराजित्वाजितन्त्रिभुवनन्त्वया ।
स्मरद्भिरिवतद्वैरमिन्द्रियैरेवनिर्जितः ॥ 18 ॥
यदैवहिजनस्थानेराक्षसैर्भहुभिर्वृतः ।
खरस्तुनिहतोभ्रातातदारामो न मानुषः ॥ 19 ॥
यदैवनगरींलङ्कान्दुष्प्रवेशांसुरैरपि ।
प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम् ॥ 20 ॥
क्रियतामविरोधश्चराघवेणेतियन्मया ।
उच्यमानं न गृह्णासितस्येयंव्युष्टिरागता ॥ 21 ॥
अकस्माच्छाभिकामोऽसिसीतांराक्षसपुङ्गवः ।
ऐश्वर्यस्यविनाशायदेहस्यस्वजनस्य च ॥ 22 ॥
अरुन्धत्याविशिष्टान्तांरोहिण्याश्चापिदुर्मते ।
सीतान्धर्षयतामान्यान्त्वयाह्यसदृशङ्कृतम् ॥ 23 ॥
वसुधायाहिवसुधांश्रियःश्रीम्भर्तृवत्सलाम् ।
सीतांसर्वानवद्याङ्गीमरण्येविजनेशुभाम् ॥ 24 ॥
आनयित्वातुतान्दीनाञ्छद्मनात्मस्वदूषण ।
अप्राप्यतञ्चैवकामम्मैथिलीसङ्गमेकृतम् ॥ 25 ॥
पतिव्रतायास्तपसानूनन्दग्धोऽसिमेप्रभो ।
तदैवयन्नदग्धगद्धस्त्वन्धर्षयंस्तनुममध्यमाम् ।
देवाभिभ्यतेतेसर्वेसेन्द्राःसानाग्नीपुरोगमाः ॥ 26 ॥
अवश्यमेवलभतेफलम्पापस्यकर्मणः ।
घोरम्पर्यागतेकालेकर्तानास्त्यत्रसंशयः ॥ 27 ॥
न कुलेन न रूपेण न दाक्षिण्येनमैथिली ।
मयाधिकावातुल्यावातत्त्वम्मोहान्नबुध्यसे ॥ 28 ॥
सर्वदासर्वभूतानान्नास्तिमुत्युरलक्षणः ।
तवतावदयम्मृत्युर्मैथिलीकृतलक्षणः ॥ 29 ॥
सीतानिमित्तजोमृत्युस्त्वयादूरादुपाहृतः ।
मैथिलीसहरामेणविशोकाविहरिष्यति ॥ 30 ॥
अल्पपुण्यात्वहङ्घोरेपतिताशोकसागरे ।
कैलासेमन्दरेमेरौतथाचैत्ररथेवने ॥ 31 ॥
देवोद्यानेषुसर्वेषुविहृत्यसहितात्वया ।
विमानेनानुरूपेणयायाम्यतुलयाश्रिया ॥ 32 ॥
पश्यन्तिविविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा ।
भ्रम्शिताकामभोगेभ्यःसास्मिवीरवधात्तव ॥ 33 ॥
सैवान्येवास्मिसम्वृत्ताधिग्राज्ञाञ्चञ्चलाःश्रियः ।
हाराजन् सुकुमारन्तेसुभ्रुसुत्वक्समुन्नसम् ॥ 34 ॥
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ।
किरीटकूटोज्ज्वलितन्ताम्रास्यन्दीप्तकुण्डलम् ॥ 35 ॥
मदव्याकुललोलाक्षम्भूत्वायत्पानभूमिषु ।
विविधस्रग्धरञ्चारुवल्गुस्मितकथंशुभम् ॥ 36 ॥
तदेवाद्यतवैवंहिवक्त्रं न भ्राजतेप्रभो ।
रामसायकनिर्भिन्नंरक्तंरुधिरविस्रवैः ॥ 37 ॥
वीशीर्णमेदोमस्तिष्कंरूक्षस्यन्दनरेणुभिः ।
हापश्चिमामेसम्प्राप्तादशावैधव्यदायिनी ॥ 38 ॥
यामयासीन्नसुम्बद्धाकदाचिदपिमन्दया ।
पतादानवराजोमेभर्तामेराक्षसेश्वरः ॥ 39 ॥
पुत्रोमेशक्रनिर्जेताइत्यहङ्गर्विताभृशम् ।
दृप्तामर्दनाःशूराःप्रख्यातबलपौरुषाः ॥ 40 ॥
अकुतश्चिद्भयानाथाममेत्यासीन्मतिर्दृढा ।
तेषामेवम्प्रभावाणांयुष्माकंराक्षसर्षभाः ॥ 41 ॥
कथम्भयमसम्बुद्धम्मानुषादिदमागतम् ।
स्निग्धेन्द्रनीलनीलन्तुप्रांशुशैलोपमम्महत् ॥ 42 ॥
केयूराङ्गदवैडूर्यमुक्ताहारस्रगुज्ज्वलम् ।
कान्तंविहारेष्वधिकन्दीप्तांसङ्ग्रामभूमिषु ॥ 43 ॥
भात्याभरणभाभिर्यद्विद्युद्भिरिवतोयदः ।
तदेवाद्यशरीरन्तेतीक्ष्णैर्नैकशरैश्चितम् ॥ 44 ॥
पुनर्दुर्लभसम्पर्शम्परिष्वक्तुं न शक्यते ।
श्वाविधःशलकैर्यद्वद्भाणैर्लग्नैर्निरन्तरम् ॥ 45 ॥
स्वर्पितैर्मर्मसुभृशंसञ्छिन्नस्नायुबन्धनम् ।
क्षितौनिपतितंराजन् श्यामंवैरुधिरच्छवि ॥ 46 ॥
वज्रप्रहाराभिहतोविकीर्णैवपर्वतः ।
हास्वप्नस्सत्यमेवेदन्त्वंरामेणकथंहतः ॥ 47 ॥
त्वम्मृत्योरपिमृत्युस्स्याःकथम्मृत्युवशङ्गतः त्रैलोक्यवसुभोक्तारन्त्रैलोक्योद्वेगदम्महत् ॥ 48 ॥
जेतारंलोकपालानाङ्क्षेप्तारांशङ्करस्य च ।
दृप्तानान्निग्रहीतारमाविष्कृतपराक्रमम् ॥ 49 ॥
लोकक्षोभयितारं च नादैर्भूतविराविणम् ।
ओजसादृप्तवाक्यानांवक्तारंरिपुसन्निधौ ॥ 50 ॥
स्वयूथभृत्यगोप्तारंहन्तारम्भीमकर्मणाम् ।
हन्तारन्दानवेन्द्राणांयक्षाणां च सहस्रशः ॥ 51 ॥
निवातकवचानां च सङ्ग्रहीतारमाहवे ।
नैकयज्ञविलोप्तारन्त्रातारंस्वजनस्य च ॥ 52 ॥
धर्मव्यवस्थाभेत्तारम्मायास्रष्टारमाहवे ।
देवासुरनृकन्यानामाहर्तारन्ततस्ततः ॥ 53 ॥
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ।
लङ्काद्वीपस्यगोप्तारङ्कर्तारम्भीमकर्मणाम् ॥ 54 ॥
अस्माकङ्कामभोगानान्दातारंरथिनांवरम् ।
एवम्प्रभावम्भर्तारन्दृष्टवारामेणपातितम् ॥ 55 ॥
स्थिरास्मियादेहमिमन्धारयामिहतप्रिया ।
शयनेषुमहार्हेषुशयित्वाराक्षसेश्वर ॥ 56 ॥
इहकर्मात्प्रसुप्तोऽसिधरण्यांरेणुगुण्ठितः ।
यदातेतनयश्शस्तोलक्ष्मणेनेन्द्रजिद्युधि ॥ 57 ॥
तदात्वभिहतातीव्रमद्यत्वस्मिनिपातिता ।
साहम्बन्धुजनैर्हीनाहीनानाथेन च त्वया ॥ 58 ॥
विहीनाकामभोगैश्चशोचिष्येशाश्वतीस्समाः ।
प्रपन्नोदीर्घमध्वानंराजन्नद्यसुदुर्गमम् ॥ 59 ॥
नयमामपिदुःखार्तां न वर्तिष्येत्वयाविना ।
कस्मात्त्वम्मांविहायेहकृपणाङ्गन्तुमिच्छसि ॥ 60 ॥
दीनांविलपतीम्मन्दाङ्किंवामान्नाभिभाषसे ।
दृष्टवा न खल्वभिक्रुद्धोमामिहानवकुण्ठिताम् ॥ 61 ॥
निर्गतान्नगरद्वारात्पद्भ्यामेवागताम्प्रभो ।
पश्येष्टदारदारांस्तेभ्रष्टलज्जावकुण्ठितान् ॥ 62 ॥
बहिर्निष्पतितान्सर्वान्कथन्दृष्टवा न कुप्यसि ।
अयङ्क्रीडासहायस्तेऽनाथेलालप्यतेजनः ॥ 63 ॥
न चैवमाश्वासयसिकिंवा न बहुमन्यसे ।
याःस्त्वयाविधवाराजन्कृतानैकाःकुलस्त्रियः ॥ 64 ॥
पतिव्रताधर्मरतागुरुशुश्रूषणेरताः ।
ताभिश्शोकाभितप्ताभिश्शप्तःपरवशङ्गतः ॥ 65 ॥
त्वयाविप्रकृताभिर्यत्तदाशप्तन्तदागतम् ।
प्रवादस्सत्यएवायन्त्वाम्प्रतिप्रायशोनृप ॥ 66 ॥
प्रतिव्रतानान्नाकस्मात्सपत्नत्यश्रूणिभूतले ।
कथं च नामतेराजन् लोकानाक्रम्यतेजसा ॥ 67 ॥
नारीचौर्यमिदङ्क्षुद्रङ्कृतंशौण्डीर्यमानिना ।
अपनीयाश्रमाद्रामंयन्मृगच्छद्मनात्वया ॥ 68 ॥
आनीतारामपनतीसातत्तेकातर्यलक्षणम् ।
कातर्यं न च तेयुद्धेकदाचित्संस्मराम्यहम् ॥ 69 ॥
तत्तुभाग्यविपर्यासान्नूनन्तेपक्वलक्षणम् ।
अतीतानागतार्थज्ञोवर्तमानविचक्षणः ॥ 70 ॥
मैथिलीमाहृतान्दृष्टवाध्यात्वानिःश्वस्यचायतम् ।
सत्यवाक्यमहाबाहो देवरोमेयदब्रवीत् ॥ 71 ॥
अयंराक्षसमुख्यानांविनाशःपर्युपस्थितः ।
कामक्रोधसमुत्थेनव्यसनेनप्रसङ्गिना ॥ 72 ॥
निर्वृत्तस्त्वत्कृतेऽनर्थःसोऽयम्मूलहरोमहान् ।
त्वयाकृतमिदंसर्वमनाधंराक्षसङ्कुलम् ॥ 73 ॥
हित्वंशोचितव्योमेप्रख्यातबलपौरुषः ।
स्त्रीस्वभावात्तुमेबुद्धिःकारुण्येपरिवर्तते ॥ 74 ॥
सुकृतन्दुष्कृतं च त्वङ्गृहीत्वास्वाङ्गतिङ्गतः ।
आत्मानमनुशोचामित्वद्विनाशेनदुःखिताम् ॥ 75 ॥
सुहृदांहितकामानां न श्रुतंवचनन्त्वया ।
भ्रात्रूणाञ्चैवकार्त्न्सनहितमुक्तन्दशानन ॥ 76 ॥
हेत्वर्थयुक्तंविधिवच्छ्रेयस्करमदारुणम् ।
विभीषणेनाभिहितं न कृतंहेतुमत्त्वया ॥ 77 ॥
मारीचकुम्भकर्णाभ्यांवाक्यम्ममपितुस्तथा ।
न श्रुतंवीर्यमत्तेनतस्येदम्फलमीदृशम् ॥ 78 ॥
नीलजीमूतसङ्काश पीताम्बरशुभाङ्गद ।
स्वगात्राणिविनिक्षिप्यकिंशेषेरुधिराप्लुतः ॥ 79 ॥
प्रसुप्तैवशोकार्ताङ्किम्मां न प्रतिभाषसे ।
महावीर्यस्यदक्षस्यसम्युगेष्वपलायिनः ॥ 80 ॥
यातुधानस्यदौहित्रीङ्किम्मां न प्रतिभाषसे ।
उत्तिष्ठोत्तिष्ठकिंशेषेनवेपरिभवेकृते ॥ 81 ॥
अद्यवैनिर्भयालङ्काम्प्रविष्टांसूर्यरश्मयः ।
येनसूदयसेशत्रून् समरेसूर्यवर्चसा ॥ 82 ॥
वज्रंवज्रधरस्येवसोऽयन्तेसततार्चितः ।
रणेबहुप्रहरणोहेमजापरिष्कृतः ॥ 83 ॥
परिघोव्यवकीर्णस्तेबाणैश्चिन्नैःसहस्रधा ।
अप्रियामिवोपसङ्गृह्यकिंशेषेरणमेदिनीम् ॥ 84 ॥
अप्रियामिवकस्माच्छमान्नेच्छस्यभिभाषितुम् ।
धिगस्तुहृदयंयस्याममेदं न सहस्रधा ॥ 85 ॥
त्वयिपञ्चत्वमापन्नेफलतेशोकपीडितम् ।
इत्येवंविलपन्तिसाबाष्पपर्याकुलेक्षणा ॥ 86 ॥
स्नेहोपस्कन्नहृदया तदा मोहामुपागमत् ।
कश्मलाभिहतासन्नाबभौसारावणोरसि ॥ 87 ॥
स्नध्यानुरक्तेजलदेदीप्ताविद्युदिवोज्ज्वला ।
तथागतंसमुत्थाप्यसपत्नयस्ताम्भृशातुराः ॥ 88 ॥
पर्यवस्थापयामासूरुदन्त्योरुदतीम्भृशम् ।
न तेसुविदितादेविलोकानांस्थितिरध्रुवा ॥ 89 ॥
दशाविभागपर्यायेराज्ञांवैचञ्चलाःश्रियः ।
इत्येवमुच्यमानासासशब्दम्प्ररुरोद ह ॥ 90 ॥
स्नापयन्तीतदास्रेणस्तनौवक्रंसुनिर्मलम् ।
एतस्मिन्नन्तरेरामोविभीषणमुवाच ह ॥ 91 ॥
संस्कारःक्रियताम्भ्रातुःस्त्रीगणःपरिसान्त्व्यताम् ।
तमुवाचततोधीमान् विभीषणैदंवचः ॥ 92 ॥
विमृश्यबुद्ध्याधर्मज्ञोधर्मार्थसहितंहितम् ।
त्यक्तधर्मव्रतंशूरन्नृशंसमनृतन्तथा ॥ 93 ॥
नाहमर्होऽस्मिसंस्कर्तुम्परदाराभिमर्शिनम् ।
भ्रातृरूपःहिमेशत्रुरेषसर्वाहितेरतः ॥ 94 ॥
रावणोनार्हतेपूजाम्पूज्योऽपिगुरुगौरवात् ।
नृशंसैतिमांराम वक्ष्यन्तिमनुजाभुवि ॥ 95 ॥
श्रुत्वातस्यागुणान्सर्वेवक्ष्यन्तिसुकृतम्पुनः ।
तच्छ्रुत्वापरमप्रीतोरामोधर्मभृतांवरः ॥ 96 ॥
विभीषणमुवाचेदंवाक्यज्ञंवाक्यकोविदः ।
तवापिमेप्रियङ्कार्यन्त्वत्प्रभावान्मयाजितम् ॥ 97 ॥
अवश्यन्तुक्षमंवाच्योमयात्वांराक्षसेश्वर ।
अधर्मानृतसंयुक्तःकामन्त्वेषनिशाचरः ॥ 98 ॥
तेजस्वीबलवान् शूरःसङ्ग्रामेषु च नित्यशः ।
शतक्रतुमुखैर्वीरैःश्रूयते न पराजितः ॥ 99 ॥
महात्माबलसम्पन्नोरावणोलोकरावणः ।
मरणानान्तिवैराणिनिर्वृत्तन्नःप्रयोजनम् ॥ 100 ॥
क्रियतामस्यसंस्कारोममाप्येषयथातव ।
त्वत्सत्सकाशाद्धशग्रीवस्संस्कारंविधिपूर्वकम् ॥ 101 ॥
क्षिप्रमर्हतिधर्मेणत्वंयशोभाग्भविष्यसि ।
राघवस्यवच्श्रुत्वात्वरमाणोविभीषणः ॥ 102 ॥
संस्कारयितुमारेभेभ्रातरंरावणंहतम् ।
सप्रविश्यपुरींलङ्कांराक्षसेन्द्रोविभीषणः ॥ 103 ॥
रावणस्याअग्निहोत्रन्तुनिर्यापयतिसत्वरम् ।
शकटान् दारुरूपाणिअग्नीनवैयाजकांस्तथा ॥ 104 ॥
तथाचन्दनकाष्ठानिकाष्ठानिविविधानि च ।
अगरूणिसुगधनीनिगन्धांश्चसुरभींस्तथा ॥ 105 ॥
मणिमुक्ताप्रवालानिनिर्यापयतिराक्षसः ।
आजगाममुहूर्तेनराक्षसैःपरिवारितः ॥ 106 ॥
ततोमाल्यवतासार्थङ्क्रियामेवचकारसः ।
सौवर्णींशिबिकान्दिव्यामारोप्यक्षौमवासनम् ॥ 107 ॥
रावणंराक्षसाधीशमश्रुपूर्यमुखाद्विजाः ।
तूर्यघोषैश्चविविधैस्स्तुवद्भिश्चाभिनन्दितम् ॥ 108 ॥
प्ताकाभिश्चचित्राभिस्सुमनोभिश्चचित्रिताम् ।
उत्क्षिप्यशिबिकान्तान्तुविभीषणपुरोगमाः ॥ 109 ॥
दक्षिणाभिमुखास्सर्वेगृह्यकाष्ठानिभेजिरे ।
अग्नयोदीप्यमानास्तेतदाध्वर्युसमीरिताः ॥ 110 ॥
शरणाभिगताःसर्वेपुरस्तात्तस्यतेययुः ।
अन्तःपुराणिसर्वाणिरुदमानानिसत्वरम् ॥ 111 ॥
पृष्ठतोऽनुययुस्तानिप्लवमानानिसर्वतः ।
रावणम्प्रयतेदेशेस्थाप्यतेभृशदुःखिताः ॥ 112 ॥
चिताञ्चन्दनकाष्ठैश्चपद्मकोशीसंवृताम् ।
ब्राह्म्यासम्वर्तयामासूराङ्कवास्तरणावृताम् ॥ 113 ॥
वर्ततेवेदविहितोराज्ञोवैपश्चिमःक्रतुः ।
प्रचक्रुःराक्षसेन्द्रस्यपितृमेधमनुक्रमम् ॥ 114 ॥
वेदिं च दक्षिणप्राच्यांयथास्थानं च पावकम् ।
पृषदाज्येनसम्पूर्णंस्रुवंसर्वेप्रचिक्षिपुः ॥ 115 ॥
पादयोश्शकटम्प्रादुरन्तरूर्वोरुलूखलन्तदा ।
दारुपात्राणिसर्वाणिआरणिञ्चोत्तारारणिम् ॥ 116 ॥
दत्त्वातुमुसलञ्चान्यथास्थानंविचक्षणाः ।
शास्त्रादृष्टेनविधिनामहर्षिविहितेन च ॥ 117 ॥
तत्रमेध्यम्पशुंहत्वाराक्षसेन्द्रस्यराक्षसाः ।
परिस्तरणिकांराज्ञोघृताक्तांसमवेशयन् ॥ 118 ॥
गन्धैर्माल्यैरलङ्कृत्यरावणन्दीनमानसाः ॥ 119 ॥
विभीषणसहायास्तेवस्त्रैश्चविविधैरपि ।
लाजैरश्चावकिरन्तिस्मबाष्पपूर्णमुखास्तदा ॥ 120 ॥
ददौ च पावकन्तस्यविधियुक्तंविभीषणः ।
स्नात्वाचैवार्द्रवस्त्रेणतिलान्दूर्वाभिमिश्रितान् ॥ 121 ॥
उदकेन च सम्मिश्रान्प्रदायविधिपूर्वकम् ।
प्रदायचोदकन्तस्मैमूर्ध्नाचैनन्नमस्य च ॥ 122 ॥
ताःस्त्रियोऽनुनयामाससान्तमुक्त्वापुनःपुनः ।
गम्यतामितितास्सर्वाविविशुर्नगरीतदा ॥ 123 ॥
प्रविष्टासुसर्वासुराक्षसीषुविभीषणः ।
रामपार्श्वमुपागम्यतदातिष्ठद्विनीतवत् ॥ 124 ॥
रामोऽपिसहसैन्येनससुग्रीवस्सलक्ष्मणः ।
हर्षंलेभेरिपुंहत्वायथावृत्रंशतक्रतुः ॥ 125 ॥
ततोविमुक्त्वासशरंशरासनम्महेन्द्रदत्तङ्कवचं च तन्महत् ।
विम्युचरोषंरिपुनिग्रहात्ततोरामःसुसौम्यत्वमुपागतोऽरिहा ॥ 126 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुर्दशाधिकशततमस्सर्गः ॥