View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.24 बालकाण्ड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ चतुर्विंशस्सर्गः ।

ततः प्रभाते विमले कृताह्निकमरिन्दमौ ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ 1 ॥

ते च सर्वे महात्मानो मुनयस्संश्रितव्रताः ।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ 2 ॥

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पन्थानं मा भूत्कालविपर्ययः ॥ 3 ॥

विश्वामित्रस्तथेत्युक्तवा तानृषीनभिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ 4 ॥

ततश्शुश्राव वै शब्दमतिसंरम्भवर्धितम् ।
मध्यमागम्य तोयस्य सह रामःकनीयसा ॥ 5 ॥

अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ 6 ॥

राघवस्य वचश्श्रुत्वा कौतूहलसमन्वितः ।
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ 7 ॥

कैलासपर्वते राम मनसा निर्मितं सरः ।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ 8 ॥

तस्मात्सुस्राव सरसस्सायोध्यामुपगूहते ।
सर प्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ 9 ॥

तस्यायमतुलश्शब्दो जाह्नवीमभिवर्तते ।
वारिसङ्क्षोभजो राम प्रणामं नियतःकुरु ॥ 10 ॥

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ 11 ॥

स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ 12 ॥

अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।
भैरवैश्शपदैः पूर्णं शकुन्तैर्दारुणारुतैः ॥ 13 ॥

नानाप्रकारैश्शकुनै र्वाश्यद्भिर्भैरवस्वनैः ।
सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ 14 ॥

धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ।
सङ्कीर्णं बदरीभिश्च किन्न्वेतद्दारुणं वनम् ॥ 15 ॥

तमुवाच महातेजा विश्वामित्रो महामुनिः ।
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ 16 ॥

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।
मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ 17 ॥

पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ 18 ॥

तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।
कलशैस्स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ 19 ॥

इह भूम्यां मलं दत्वा दत्वा कारूशमेव च ।
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ 20 ॥

निर्मलो निष्करूशश्च शुचिरिन्न्द्रो यदाभवत् ।
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ 21 ॥

इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।
मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ 22 ॥

साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ 23 ॥

एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम ।
मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ 24 ॥

कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ 25 ॥

ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ।
2 मारीचो राक्षसः पुत्रो यस्याश्शक्रपराक्रमः ॥ 26 ॥

वृत्तबाहुर्महावीर्यो विपुलास्य तनुर्महान् ।
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ 27 ॥

इमौ जनपदौ नित्यं विनाशयति राघव ।
मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥ 28 ॥

सेयं पन्थानमावृत्य वसत्यध्यर्धयोजने ।
अत एव न गन्तव्यं ताटकाया वनं यतः ॥ 29 ॥

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ 30 ॥

न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।
यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ 31 ॥

एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्विंशस्सर्गः ॥




Browse Related Categories: