View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.46 अरण्यकाण्ड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ षट्चत्वारिंशस्सर्गः ।

तया परुषमुक्तस्तु कुपितो राघवानुजः ।
स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव ॥ 1 ॥

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।
अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥ 2 ॥

श्लक्ष्णकाषायसंवीतश्शिखी छत्री उपानही ।
वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ 3 ॥

परिव्राजकरूपेण वैदेहीमन्वपद्यत ।
तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥ 4 ॥

रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ।
तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ॥ 5 ॥

रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः ।
तमुग्रतेजःकर्माणं जनस्थानरूहा द्रुमाः ॥ 6 ॥

समीक्ष्य सम्प्रकम्पन्ते न प्रवाति च मारुतः ।
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥ 7 ॥

स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ।
रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ॥ 8 ॥

उपतस्थे च वै देहीं भिक्षुरूपेण रावणः ।
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ 9 ॥

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।
स पापो भव्यरूपेण तृणैः कूप इवावृतः ॥ 10 ॥

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्निं यशस्विनीम् ।
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ॥ 11 ॥

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ।
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ॥ 12 ॥

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ॥ 13 ॥

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।
तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ॥ 14 ॥

विभ्राजमानां वपुषा रावणः प्रशशंस ह ।
का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ॥ 15 ॥

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।
ह्रीः कीर्तिः श्रीश्शुभा लक्ष्मीरप्सरा वा शुभानने ॥ 16 ॥

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ।
समाश्शिखरिणस्स्निग्धाः पाण्डुरा दशनास्तव ॥ 17 ॥

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ।
विशालं जघनं पीनमूरू करिकरोपमौ ॥ 18 ॥

एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ ।
पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ॥ 19 ॥

मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ 20 ॥

मनो हरसि मे कान्ते नदी कूलमिवाम्भसा ।
करान्तमितमध्यासि सुकेशी संहतस्तनी ॥ 21 ॥

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ 22 ॥

रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्चते ।
इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥ 23 ॥

सा प्रतिक्राम भद्रं ते नैवं वस्तुमिहार्हसि ।
राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ 24 ॥

प्रासादाग्राणि रम्याणि नगरोपवनानि च ।
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ 25 ॥

वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ 26 ॥

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां वा वरावोहे देवता प्रतिभासि मे ॥ 27 ॥

नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः ।
राक्षसानामयं वासः कथं नु त्वमिहागता ॥ 28 ॥

इह शाखामृगास्सिंहा द्वीपिव्याघ्रमृगास्तथा ।
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ 29 ॥

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।
कथमेका महारण्ये न बिभेषि वरानने ॥ 30 ॥

कासि कस्य कुतश्चित्त्वं किं निमित्तं च दण्डकान् ।
एका चरसि कल्याणि घोरान्राक्षससेवितान् ॥ 31 ॥

इति प्रशस्ता वैदेही रावणेन दुरात्मना ।
द्विजातिवेशेण हि तं दृष्ट्वा रावणमागतम् ॥ 32 ॥

सर्वैरतिथिसत्कारैः पूजयामास मैथिली ।
उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ॥ 33 ॥

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।
अशक्यमुद्वेष्टुमपायदर्शनं न्यमन्त्रयद्ब्राह्मणवत्तदाङ्गना ॥ 34 ॥

इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ 35 ॥

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्याहरणे धृतं मनः समर्पयत्स्वात्मवधाय रावणः ॥ 36 ॥

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।
विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्णौ ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: