View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.77 बालकाण्ड - सप्तसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ सप्तसप्ततितमस्सर्गः ।

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः ।
वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ॥ 1 ॥

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।
पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥ 2 ॥

जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।
अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ 3 ॥

सन्दिशस्व महाराज सेनां त्वच्छासने स्थिताम् ।
शासनं काङ्क्षते सेना चातकालिर्जलं यथा ॥ 4 ॥

रामस्य वचनं श्रुत्वा राजा दशरथ स्सुतम् ।
बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ 5 ॥

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥ 6 ॥

चोदयामास तां सेनां जगामाशु ततः पुरीम् ।
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥ 7 ॥

सिक्तराज पथां रम्यां प्रकीर्णकुसुमोत्कराम् ।
राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः ॥ 8 ॥

सम्पूर्णां प्राविशद्राजा जनौघैस्समलङ्कृताम् ।
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।
पुत्रैरनुगत श्श्रीमान् श्रीमद्भिश्च महायशाः ॥ 9 ॥

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।
ननन्द सजनो राजा गृहे कामै स्सुपूजितः ॥ 10 ॥

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥ 11 ॥

ततस्सीतां महाभागामूर्मिलां च यशस्विनीम् ।
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥ 12 ॥

मङ्गलालम्भनैश्चापि शोभिताः क्षौमवाससः ।
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥ 13 ॥

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।
स्वं स्वं गृहमथासाद्य कुबेरभवनोपमम् ॥ 14 ॥

गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् ।
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥ 15 ॥

कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥ 16 ॥

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥ 17 ॥

भरतं कैकयीपुत्र मब्रवीद्रघुनन्दनः ।
अयं केकयराजस्य पुत्रो वसति पुत्रक ॥ 18 ॥

त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।
प्रार्थितस्तेन धर्मज्ञ मिधिलायामहं तथा ॥ 19 ॥

ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि ।
श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ॥ 20 ॥

अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम् ।
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥ 21 ॥

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।
मातृश्चापि नरश्रेष्ठ श्शत्रुघ्नसहितो ययौ ॥ 22 ॥

गते तु भरते रामो लक्ष्मणश्च महाबलः ।
पितरं देवसंङ्काशं पूजयामासतुस्तदा ॥ 23 ॥

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।
चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥ 24 ॥

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ।
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत ॥ 25 ॥

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥ 26 ॥

तेषामतियशा लोके राम स्सत्यपराक्रमः ।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ 27 ॥

रामस्तु सीतया सार्धं विजहार बहूनृतून् ।
मनस्स्वी तद्गतस्तस्याः नित्यं हृदि समर्पितः ॥ 28 ॥

प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥ 29 ॥

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।
अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥ 30 ॥

तस्य भूयो विशेषेण मैथिली जनकात्मजा ।
देवताभि स्समा रूपे सीता श्रीरिव रूपिणी ॥ 31 ॥

तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया ।
अतीव राम श्शुशुभेऽभिरामया ।
विभु श्श्रिया विष्णुरिवामरेश्वरः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तसप्ततितमस्सर्गः ॥




Browse Related Categories: