श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनपञ्चाशस्सर्गः ।
घोरेणशरबन्धेनबद्धौदशरथात्मजौ ।
निःश्वसन्तौयथानागौशयानौरुधिरोक्षितौ ॥ 1 ॥
सर्वेतेवानरश्रेष्ठास्ससुग्रीवामहाबलाः ।
परिवार्यमहात्मानौतस्थुश्शोकपरिप्लुताः ॥ 2 ॥
एतस्मिन्नन्तरेरामःप्रत्यबुध्यतवीर्यवान् ।
स्थिरत्वात्सत्त्वयोगाच्चशरैस्सन्दानितोऽपिसन् ॥ 3 ॥
ततोदृष्टवासरुधिरन्निषण्णङ्गाढमर्पितम् ।
भ्रातरन्दीनवदनम्पर्यदेवयदातुरः ॥ 4 ॥
किन्नुमेसीतयाकार्यङ्किङ्कार्यञ्जीवितेनवा ।
शयानंयोऽद्यपश्यामिभ्रातरंयुधिनिर्जितम् ॥ 5 ॥
शक्यासीतासमानारीमर्त्यलोकेविचिन्वता ।
नलक्ष्मणसमोभ्रातासचिवस्साम्पपरायिकः ॥ 6 ॥
परित्यक्षाम्यहम्प्राणान्वानराणान्तुपश्याताम् ।
यदिपञ्चत्वमापन्नस्सुमित्रानन्दवर्धनः ॥ 7 ॥
किन्नुवक्ष्यामिकौसल्याम्मातरङ्किन्नुकैकयीम् ।
कथमम्बांसुमित्राञ्चपुत्रदर्शनलालसाम् ॥ 8 ॥
विवत्सांवेपमानाञ्चक्रोशन्तीङ्कुररीमिव ।
कथमाश्वासयिष्यामियदियास्यामितंविना ॥ 9 ॥
कथंवक्ष्यामिशत्रुघ्नम्भरतञ्चयशस्विनम् ।
मयासहवनंयातोविनातेनापुनमागतः ॥ 10 ॥
उपालम्बन्नशक्ष्यामिसोढुम्बतसुमित्रया ।
इहैवदेहन्त्यक्ष्यामिनहिजीवितुमुत्सहे ॥ 11 ॥
धिङ्मान्दुष्कृतकर्माणमनार्यम्मत्कृतेह्यसौ ।
लक्ष्मणःपतितश्शेतेशरतल्पेगतासुवत् ॥ 12 ॥
त्वन्नित्यंसुविषण्णम्मामाश्वासयसिलक्ष्मण ।
गतासुर्नाद्यशक्तोऽसिमामार्तमभिभाषितुम् ॥ 13 ॥
येनाद्यबहवोयुद्धेनिहताराक्षसाविनिपातिताः ।
तस्यामेवाद्यशूरस्त्वंशेषेविनिहतःपरैः ॥ 14 ॥
शयानःशरतल्पेऽस्मिन् सशोणितपरिप्लुतः ।
शरजालैचशितोभासिभास्करोऽस्तमिवव्रजन् ॥ 15 ॥
बाणाभिहतमर्मत्वान्नशक्नोत्यभिभाषितुम् ।
रुजाचाब्रुवतोऽप्यस्यदृष्टिरागेणसूच्यते ॥ 16 ॥
यथैवमांवनंयान्तमनुयातोमहाद्युतिः ।
अहमप्यनुयास्यामितथैवैनंयमक्ष्यम् ॥ 17 ॥
इष्टबन्धुजनोनित्यम्माञ्चनित्यमनुव्रतः ।
इमामद्यगतोऽवस्थाम्ममानार्यस्यदुर्नयैः ॥ 18 ॥
सुरुष्टेनापिवीरेणलक्ष्मणेननसंस्मरे ।
परुषंविप्रियंवापिश्रावितन्नकदाचन ॥ 19 ॥
विससर्जैकवेगेनपञ्चबाणशतानियः ।
इष्वस्त्रष्वधिकस्तस्मात्कार्तवीर्याच्चलक्ष्मणः ॥ 20 ॥
अस्स्रैरस्त्राणियोहन्याच्छक्रस्यापिमहात्मनः ।
सोऽयमुर्व्यांहतश्शेतेमहार्हशयनोचितः ॥ 21 ॥
तच्चमिथ्याप्रलप्तम्माम्प्रधक्ष्यतिनसंशयः ।
यन्मयानकृतोराजाराक्षसानांविभीषणः ॥ 22 ॥
अस्मिन्मुहूर्तेसुग्रीव प्रतियातुमितोऽर्हसि ।
मत्वाहीनंराजन् रावणोऽभिद्रवेद्बली ॥ 23 ॥
अङ्गदन्तुपुरस्कत्यससैन्यस्सपरिच्छदम् ।
सागरन्तरसुग्रीव नीलेनचनलेनच ॥ 24 ॥
कृतंहनुमताकार्यंयदन्यैर्दुष्करंरणे ।
ऋक्षराजेनतुष्यामिगोलाङ्गूलाधिपेनच ॥ 25 ॥
अङ्गदेनकृतङ्कर्ममैन्देनद्विविदेनच ।
युद्धङ्केसरिणासङ् ख्येघोरंसम्पातिनाकृतम् ॥ 26 ॥
गवयेनगवाक्षेणशरभेणगजेनच ।
अन्यैश्चहरिभिर्युद्धम्मदर्थेत्यक्तजीवितैः ॥ 27 ॥
नचातिक्रमितुंशक्यन्दैवंसुग्रीव मानुषैः ।
यत्तुशक्यंवयस्येनसुहृदाचपरन्तप ॥ 28 ॥
कृतंसुग्रीव तत्सर्वम्भवताधर्मभीरुणा ।
मित्रकार्यङ्कृतमिदम्भवद्भिर्वानरर्षभाः ॥ 29 ॥
अनुज्ञातामयासर्वेयथेष्टङ्गन्तुमर्हथ ।
शुश्रुवुस्तस्यतेसर्वेवानराःपरिदेवनम् ॥ 30 ॥
वर्तयाञ्चक्रूरश्रूणिनेत्रैःकृष्णेतरेक्षणाः ।
ततस्सर्वाण्यनीकानिस्थापयित्वाविभीषणः ॥ 31 ॥
आजगामगदापाणिस्त्वरितंयत्रराघवः ।
तन्दृष्टवात्वरितंयान्तन्नीलाञ्जनचयोपमम् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशस्सर्गः ॥