View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.23 अरण्यकाण्ड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ त्रयोविंशस्सर्गः ।

तस्मिन्याते बले घोरमशिवं शोणितोदकम् ।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ 1 ॥

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ 2 ॥

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ 3 ॥

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् ।
समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः ॥ 4 ॥

जनस्थानसमीपे तु समागम्य खरस्वनाः ।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ 5 ॥

व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् ।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ 6 ॥

प्रभिन्नगिरिसङ्काशास्तोयशोणितधारिणः ।
आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः ॥ 7 ॥

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥ 8 ॥

क्षतजार्द्रसवर्णाभा सन्ध्याकालं विना बभौ ।
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥ 9 ॥

कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ।
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥ 10 ॥

नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ।
कबन्धः परिघाभासो दृश्यते भास्करान्तिके ॥ 11 ॥

जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ।
प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः ॥ 12 ॥

उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ।
संलीनमीनविहगा नलिन्यश्शुष्कपङ्कजाः ॥ 13 ॥

तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ।
उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥ 14 ॥

वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः ।
उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः ॥ 15 ॥

प्रचचाल मही सर्वा सशैलवनकानना ।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ 16 ॥

प्राकम्पत भुजस्सव्यस्स्वरश्चास्यावसज्जत ।
सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ 17 ॥

ललाटे च रुजा जाता न च मोहान्यवर्तत ।
तान्समीक्षय महोत्पातानुत्थितान्रोमहर्षणान् ॥ 18 ॥

अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा ।
महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् ॥ 19 ॥

न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव ।
तारा अपि शरैस्तीक्ष्णैः पातयामि नभस्स्थलात् ॥ 20 ॥

मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम् ।
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥ 21 ॥

अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ।
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥ 22 ॥

यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ।
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ॥ 23 ॥

युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ॥ 24 ॥

वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ।
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ॥ 25 ॥

प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ।
समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ॥ 26 ॥

ऋषयो देवगन्दर्वास्सिद्धाश्च सहचारणैः ।
समेत्य चोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः ।
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः ॥ 27 ॥

जयतां राघवस्सङ्ख्ये पौलस्त्यान् रजनीचरान् ॥ 28 ॥

चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् ।
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥ 29 ॥

जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ 30 ॥

रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः ।
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः ॥ 31 ॥

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ 32 ॥

मेघमाली महामाली सर्वास्यो रुधिराशनः ।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ 33 ॥

महाकपालिस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥ 34 ॥

सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना ।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रयोविंशस्सर्गः ॥




Browse Related Categories: